भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.74

7.74.1

श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् ।
चारैः प्रवेदितस्त्रस्तः समुत्थाय जयद्रथः ॥

7.74.2

शोकसम्मूढहृदयो दुःखेनाभ्याहतो भृशम् । मज्जमान इवागाधे विपुले शोकसागरे ।
जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु ॥

7.74.3

स तेषां नरदेवानां सकाशे पर्यदेवयत् ।
अभिमन्युपितुर्भीतः सव्रीडो वाक्यमब्रवीत् ॥

7.74.4

योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ।
स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् ॥

7.74.5

स्वस्ति वोऽस्तु गमिष्यामि स्वगृहं जीवितेप्सया ।

7.74.6

अथवास्त्रप्रतिबलास्त्रात मां क्षत्रियर्षभाः ।
पार्थेन प्रार्थितं वीरास्ते सन्दत्त ममाभयम् ॥

7.74.7

द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः ।
दुःशासनादयः शक्तास्त्रातुमप्यन्तकार्दितम् ॥

7.74.8

किमङ्ग पुनरेकेन फल्गुनेन जिघांसता ।
न त्रास्यन्ति भवन्तो मां समस्ताः पतयः क्षितेः ॥

7.74.9

प्रतिज्ञां पाण्डवेयानां श्रुत्वा मम महद्भयम् ।
सीदन्ति मम गात्राणि मुमूर्षोरिव पार्थिवाः ॥

7.74.10

वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना ।
तथाहि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः ॥

7.74.11

तन्न देवा न गन्धर्वा नासुरोरगराक्षसाः ।
उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः ॥

7.74.12

तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः ।
अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ॥
सञ्जय उवाच ।

7.74.13

एवं विलपमानं तं भयाद्व्याकुलचेतसम् ।
आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ॥

7.74.14

न भेतव्यं नरव्याघ्र को हि त्वां पुरुषर्षभ ।
मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ॥

7.74.15

एतेषां नरदेवानां मत्तमातङ्गगामिनाम् ।
सङ्घातमुपयातानामपि विभ्येत्पुरन्दरः ॥

7.74.16

अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः ।
भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ॥

7.74.17

पुरुमित्रो जयो भोजः काम्भोजश्च सुदक्षिणः ।
सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखश्च ह ॥

7.74.18

दुःशासनः सुबाहुश्च कालिङ्गश्चाप्युदायुधः ।
विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिश्च सौबलः ॥

7.74.19

मायावी बलवाञ्छूरो राक्षसश्चाप्यलम्बुसः । एते चान्ये च बहवो नानाजनपदेश्वराः ।
ससैन्यास्त्वाभिगोप्स्यन्ति व्येतु ते मानसो ज्वरः ॥

7.74.20

त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युते ।
स कथं पाण्डवेयेभ्यो भयं पश्यसि वैन्धव ॥

7.74.21

अक्षौहिण्यो महावीर्य मदीयास्तव रक्षणे ।
यत्ता योत्स्यन्ति माभैस्त्वं सैन्धव व्येतु ते भयम् ॥
सञ्जय उवाच ।

7.74.22

एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः ।
दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ॥

7.74.23

उपसङ्गृह्य चरणौ द्रोणाय स विशाम्पतिः ।
उपोपविश्य प्रणतः पर्यपृच्छदिदं वचः ॥

7.74.24

निमित्ते दूरपातित्वे लघुत्वे दृढवेधने ।
मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च ॥

7.74.25

विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः ।
अर्जुनस्यात्मनश्चैव याथातथ्यं प्रचक्ष्व मे ॥
द्रोण उवाच ।

7.74.26

सममाचार्यकं तात तव चैवार्जुनस्य च ।
योगाद्दुःखोषितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः ॥

7.74.27

न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन ।
अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ॥

7.74.28

न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि ।
व्यूहयिष्यामि तं व्यूहं यं पार्थो न तरिष्यति ॥

7.74.29

तस्माद्युध्यस्व माभैस्त्वं स्वधर्ममनुपालय ।
पितृपैतामहं मार्गमनुयाहि महारथ ॥

7.74.30

अधीता विधिवद्वेदा अग्नयः सुहुतास्त्वया ।
इष्टं च बहुभिर्यज्ञैर्न ते मृत्युर्भयङ्करः ॥

7.74.31

दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु ।
भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् ॥

7.74.32

कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः ।
अहं च सहपुत्रेण अध्रुवा इति चिन्त्यताम् ॥

7.74.33

पर्यायेण वयं सर्वे कालेन बलिना हताः ।
परलोकं गमिष्यामः स्वैःस्वैः कर्मभिरन्विताः ॥

7.74.34

तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः ।
क्षत्रधर्माश्रिताः वीराः क्षत्रियाः प्राप्नुवन्ति तान् ॥

7.74.35

एवमाश्वासितो राजा भारद्वाजेन सैन्धवः ।
अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे ॥

7.74.36

ततः प्रहर्षः सैन्यानां तस्य चासीद्विशाम्पते ।
वादित्राणां ध्वनिश्चोग्रः सिंहनादरवैः सह ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc