भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.54

7.54.1

विनीय दुःकमबला आत्मन्येव प्रजापतिम् ।
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता पुनः ॥
मृत्युरुवाच ।

7.54.2

त्वया सृष्टा कथं नारी ईदृशी वदतां वर ।
क्रूरं कर्माहितं कुर्यां मूढेव परिजानती ॥

7.54.3

बिभेम्यहमधर्माद्धि प्रसीद भगवन्प्रभो ।
प्रियान्पुत्रान्वयस्यांश्च भातृन्मातॄः पितॄन्पतीन् ॥

7.54.4

अपध्यास्यन्ति ये देव मृतांस्तेभ्यो बिभेम्यहम् ।
कृपणानां हि रुदतां ये पतन्त्यश्रुबिन्दवः ॥

7.54.5

तेभ्योऽहं भगवन्भीता शरणं त्वाऽहमागता ।
यमस्य भवनं देव गच्छेयं न सुरोत्तम ॥

7.54.6

कायेन विनयोपेता मूर्ध्नोदग्रनखेन च ।
एतदिच्छाम्यहं कामं त्वत्तो लोकपितामह ॥

7.54.7

इच्छेयं त्वत्प्रसादाद्धि तपस्तप्तुं प्रजेश्वर ।
प्रदिशेमं वरं देव त्वं मह्यं भगवन्प्रभो ॥

7.54.8

त्वया ह्युक्ता गमिष्यामि धेनुकाश्रममुत्तमम् ।
तत्र तप्स्ये तपस्तीत्रं तवैवाराधने रता ॥

7.54.9

न हि शक्ष्यामि देवेश प्राणान्प्राणभृतां प्रियान् ।
हर्तुं विलपमानानामधर्मादभिरक्ष माम् ॥
ब्रह्मोवाच ।

7.54.10

मृत्यो सङ्कल्पिताऽसि त्वं प्रजासंहारहेतुना ।
गच्छ संहर सर्वास्त्वं प्रजा मा ते विचारणा ॥

7.54.11

भविता त्वेतदेवं हि नैतज्जात्वन्यथा भवेत् ।
भव त्वनिन्दिता लोके कुरुष्व वचनं मम ॥
नारद उवाच ।

7.54.12

एवमुक्ता भगवता प्राञ्जलिश्चाप्यवाङ्मुखी ।
संहारे नाकरोद्बुद्धिं प्रजानां हितकाम्यया ॥

7.54.13

तूष्णीमासीत्तदा देवः प्रजानामीश्वरेश्वरः ।
प्रसादं चागमत्क्षिप्रमात्मनैव प्रजापतिः ॥

7.54.14

स्मयमानश्च देवेशो लोकान्सर्वानवेक्ष्य च ।
लोकास्त्वासन्यथापूर्वं दृष्टास्तेनापमन्युना ॥

7.54.15

निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते ।
सा कन्याऽपि जगामाऽथ समीपात्तस्य धीमतः ॥

7.54.16

अपमृत्याप्रतिश्रुत्य प्रजासंहरणं तदा ।
त्वरमाणा च राजेन्द्र मृत्युर्धेनुकमभ्यगात् ॥

7.54.17

सा तत्र परमं तीव्रं चचार व्रतमुत्तमम् ।
सा तद ह्येकपादेन तस्थौ पद्मानि षोडश ॥

7.54.18

पञ्च चाब्दानि कारुण्यात्प्रजानां तु हितैषिणी ।
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः सन्निवर्त्य सा ॥

7.54.19

ततस्त्वेकेन पादेन पुनरन्यानि सप्त वै ।
तस्थौ पद्मानि षट् चैव सप्त चैकं च पार्थिवा ॥

7.54.20

ततः पद्मायुतं तात मृगैः सह चचार सा ।
पुनर्गत्वा ततो नन्दां पुण्यां शीतामलोदकाम् ॥

7.54.21

अप्सु वर्षसहस्राणि सप्त चैकं च साऽनयत् ।
धारयित्वा तु नियमं नन्दायां वीतकल्मषा ॥

7.54.22

सा पूर्वं कौशिकीं पुण्यां जगाम नियमैधिता ।
तत्र वायुजलाहारा चचार नियमं पुनः ॥

7.54.23

सप्तगङ्गासु सा पुण्या कन्या वेतसकेषु च ।
तपोविशेषैर्बहुभिः कर्षयद्देहमात्मनः ॥

7.54.24

ततो गत्वा तु सा गङ्गां महामेरुं च केवलम् ।
तस्थौ चाश्मेव निश्चेष्टा प्राणायामपरायणा ॥

7.54.25

पुनर्हिमवतो मूर्ध्नि यत्र देवाः पुराऽयजन् ।
तत्राङ्गुष्ठेन सा तस्थौ निखर्वंल परमा शुभा ॥

7.54.26

पुष्करेष्वथ गोकर्णे नैमिषे मलये तथा ।
अकर्शयत्स्वकं देहं नियमैर्मानसप्रियैः ॥

7.54.27

अनन्यदेवता नित्यं दृढभक्ता पितामहे ।
तस्थौ पितामहं चैव तोषयामास धर्मतः ॥

7.54.28

ततस्तामब्रवीत्प्रीतो लोकानां प्रभवोऽव्ययः ।
सौम्येन मनसा राजन्प्रीतः प्रीतमनास्तदा ॥

7.54.29

मृत्यो किमिदमत्यन्तं तपांसि चरसीति ह ।
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम् ॥

7.54.30

नाऽहं हन्यां प्रजा देव स्वस्थाश्चाक्रोशतीस्तथा ।
एतदिच्छामि सर्वेश त्वत्तो वरमहं प्रभो ॥

7.54.31

अधर्मभयभीताऽस्मि ततोऽहं तप आस्थिता ।
भीतायास्तु महाभाग प्रयच्छाभयमव्यय ॥

7.54.32

आर्ता चानागसी नारी याचामि भव मे गतिः ।
तामब्रवीत्ततो देवो भूतभव्यभविष्यवित् ॥

7.54.33

अधर्मो नास्ति ते मृत्यो संहरन्त्या इमाः प्रजाः ।
मया चोक्तं मृषा भद्रे भविता न कथञ्चन ॥

7.54.34

तस्मात्संहर कल्याणि प्रजाः सर्वाश्चतुर्विधाः ।
धर्मः सनातनश्च त्वां सर्वथा पावयिष्यति ॥

7.54.35

लोकपालो यमश्चैव सहाया व्याधयश्च ते ।
अहं च विबुधाश्चैव पुनर्दास्याम ते वरम् ॥

7.54.36

यथा त्वमेनसा मुक्ता विरजाः ख्यातिमेष्यसि ।
नारद उवाच ।
सैवमुक्ता महाराज कृताञ्जलिरिदं विभुम् ।

7.54.37

पुनरेवाब्रवीद्वाक्यं प्रसाद्य शिरसा तदा ।
यद्येवमेतत्कर्तव्यं धर्मतो नास्त्यतो भयम् ॥

7.54.38

तवाज्ञा मूर्ध्नि मे न्यस्ता यत्ते वक्ष्यामि तच्छृणु ।
लोभः क्रोधोऽभ्यसूयेर्ष्या द्रोहो मोहश्च देहिनां ॥

7.54.39

अहूश्चान्योन्यपरुषा देहं भिन्द्युः पृथिग्वधाः ।
ब्रह्मोवाच ।

7.54.39

तथा भविष्यते मृत्यो साधु संहर भोः प्रजाः ।
अधर्मस्ते न भविता नापध्यास्याम्यहं शुभे ॥

7.54.40

यान्यश्रुबिन्दूनि करे ममासं-- स्ते व्याधयः प्राणिनामात्मजाताः ।
ते मारयिष्यन्ति नरान्गतासू-- न्नाधर्मस्ते भविता मा स्म भैषीः ॥

7.54.41

नाधर्मस्ते भविता प्राणिनां वै त्वं वै धर्मस्त्वं हि धर्मस्य चेशा ।
धर्म्या भूत्वा धर्मनित्या धरित्री तस्मात्प्राणान्सर्वथेमान्नियच्छ ॥

7.54.42

प्राप्ता तथा नो भविता कदाचि-- देवं मयाद्यैव नियोज्यसे त्वम् ।
सर्वेषां वै प्राणिनां कामरोषौ सन्त्यज्य त्वं संहरस्वेह जीवान् । येषां धर्मास्ते भविष्यन्त्यनन्ता मिथ्यावृत्तं मारयिष्यत्यधर्मः ॥

7.54.43

तेनात्मानं पावयस्वात्मना त्वं पापेऽत्मानं मज्जयिष्यन्त्यसत्यात् ।
तस्मात्कामं रोषमप्यागतं त्वं सन्त्यज्यान्तः संहरस्वेति जीवान् ॥
नारद उवाच ।

7.54.44

सा वै भीमा मृत्युसञ्ज्ञोपदेशा-- च्छापाद्भीता बाढमित्यब्रवीत्तम् ।
सा च प्राणं प्राणिनामन्तकाले कामक्रोधौ त्यज्य हरत्यसक्ता ॥

7.54.45

मृत्युस्त्वेषां व्याधयस्तत्प्रसूता व्याधी रोगो रुज्यते येन जन्तुः ।
सर्वेषां च प्राणिनां प्रायणान्ते तस्माच्छोकं माकृथा निष्फलं त्वम् ॥

7.54.46

सर्वे देवाः प्राणिभिः प्रायणान्ते गत्वा वृत्ताः सन्निवृत्तास्तथैव ।
एवं सर्वे प्राणिनस्तत्र गत्वा वृत्ता देवा मर्त्यवद्राजसिंह ॥

7.54.47

वायुर्भीमो भीमनादो महौजा भेत्ता देहान्प्राणिनां सर्वगोऽसौ ।
नो वा वृत्तिं कदाचि-- त्प्राप्नोत्युग्रोऽनन्ततेजोविशिष्टः ॥

7.54.48

सर्वे देवा मर्त्यसञ्ज्ञाविशिष्टा-- स्तस्मात्पुत्रं माशुचो राजसिंह ।
स्वर्गं प्राप्तो मोदते ते तनूजो नित्यं रम्यान्वीरलोकानवाप्य ॥

7.54.49

त्यक्त्वा दुःखं सङ्गतः पुण्यकृद्भि-- रेषा मृत्युर्देवदिष्टा प्रजानाम् ।
प्राप्ते काले संहरन्ती यथाव-- त्स्वयं कृता प्राणहरा प्रजानाम् ॥

7.54.50

आत्मानं वै प्राणिनो घ्नन्ति सर्वे नैतान्मृत्युर्दण्डपाणिर्हिनस्ति ।
तस्मान्मृतान्नानुशोचन्ति धीरा मृत्युं ज्ञात्वा निश्चयं ब्रह्मसृष्टम् । इत्थं सृष्टिं देवक्लृप्तां विदित्वा पुत्रान्नष्टाच्छोकमाशु त्यजस्व ॥
द्वैपायन उवाच ।

7.54.51

एतच्छ्रुत्वार्थवद्वाक्यं नारदेन प्रकाशितम् ।
उवाचाकम्पनो राजा सखायं नारदं तथा ॥

7.54.52

व्यपेतशोकः प्रीतोऽस्मि भगवन्नृषिसत्तम ।
श्रुत्वेतिहासं त्वत्तस्तु कृतार्थोऽस्म्यभिवादये ॥

7.54.53

तथोक्तो नारदस्तेन राज्ञा देवर्षिसत्तमः ।
जगाम नन्दनं शीघ्रमशोकवनमात्मनः ॥

7.54.54

पुण्यं यशस्यं स्वर्ग्यं च धन्यमायुष्यमेव च ।
अस्येतिहासस्य सदा श्रवणं श्रावणं तथा ॥

7.54.55

एतदर्थपदं श्रुत्वा तदा राजा युधिष्ठिर । क्षत्रधर्मं च विज्ञाय शूराणां च परां गतिम् ।
सम्प्राप्तोऽसौ महावीर्यः स्वर्गलोकं महारथः ॥

7.54.56

अभिमन्युः परान्हत्वा प्रमुखे सर्वधन्विनाम् ।
युध्यमानो महेष्वासो हतः सोऽभिमुखो रणे ॥

7.54.57

असिना गदया शक्त्या धनुषा च महारथः ।
विरजाः सोमसूनुः स पुनस्तत्र प्रलीयते ॥

7.54.58

तस्मात्परां धृतिं कृत्वा भ्रातृभिः सह पाण्डव ।
अप्रमत्तः सुसन्नद्धः शीघ्रं योद्धुमुपाक्रम ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc