भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.49

7.49.1

विष्णोः स्वसुर्नन्दकरः स विष्ण्वायुधभूषणः ।
रराजातिरथः सङ्ख्ये जनार्दन इवापरः ॥

7.49.2

मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् ।
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ॥

7.49.3

यदि पाणितलादेतच्चक्रं मुञ्चेत फाल्गुनिः ।
वरदानान्मातुलस्य विष्णोश्चक्रमिवापतेत् ॥

7.49.4

तच्चक्रं भृशमुद्विग्नाः सञ्चिच्छिदुरनेकधा ।
महारथस्ततः कार्ष्मिः स जग्राह महागदाम् ॥

7.49.5

विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः ।
अभिमन्युर्गदापाणिरश्वत्थामानमार्दयत् ॥

7.49.6

स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव ।
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ॥

7.49.7

तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी ।
शराचिताङ्गः सौभद्रः श्वाविद्वत्समदृश्यत ॥

7.49.8

ततः सुबलदायादं कालिकेयमपोथयत् ।
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ॥

7.49.9

पुनश्चैव वसातीयाञ्जघान रथिनो दश । केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् ।
दौःशासनिरथं साश्वं गदया समपोथयत् ॥

7.49.10

ततो दौःशसनिः क्रुद्धो गदामुद्यम्य मारिष ।
अभिदुद्राव सौभद्रं तिष्ठतिष्ठेति चाब्रवीत् ॥

7.49.11

तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ ।
भ्रातृव्यौ सम्प्रजहाते पुरेव त्र्यम्बकान्धकौ ॥

7.49.12

तावन्योन्यं गदाग्राभ्यामाहत्य पतितौ क्षितौ ।
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परन्तपौ ॥

7.49.13

दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः ।
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ॥

7.49.14

गदावेगेन महता व्यायामेन च मोहितः ।
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा ॥

7.49.15

एवं विनिहतो राजन्नेको बहुभिराहवे ।
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः ॥

7.49.16

अशोभत हतो वीरो व्याधैर्वनगजो यथा ।
तं तथा पतितं शूरं तावकाः पर्यवारयन् ॥

7.49.17

दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ।
विमृद्व्य नगशृङ्गाणि सन्निवृत्तमिवानिलम् ॥

7.49.18

अस्तिं गतमिवादित्यं तप्त्वा भारत वाहिनीम् ।
उपप्लुतं यथा सोमं संशुष्कमिव सागस्म् ॥

7.49.19

पूर्णचन्द्राभवदनं काकपक्षवृतालिकम् । तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः ।
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः ॥

7.49.20

आसीत्परमको हर्षस्तावकानां विशाम्पते ।
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ॥

7.49.21

अन्तरिक्षे च भूतानि प्राक्रोशन्त विशाम्पते ।
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् ॥

7.49.22

द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः ।
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः ॥

7.49.23

तस्मिन्विनिहते वीरे बह्वशोभत मेदिनी ।
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ॥

7.49.24

रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता ।
उत्तमाङ्गैश्च शूराणां भ्राजमानैः सकुण्डलैः ॥

7.49.25

विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता ।
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः ॥

7.49.26

रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः ।
खङ्गैः सुनिशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ॥

7.49.27

चापैश्च विविधैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः ।
विविधैश्चायुधैश्चान्यैः संवृता भूरशोभत ॥

7.49.28

निष्टनद्भिरतीवान्यैरुद्वहद्रुधिरस्रवैः ।
नरैः पतद्भिः पतितैरवनी स्वधिकं बभौ ॥

7.49.29

वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोणितोक्षितैः ।
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ॥

7.49.30

साङ्कुशैः समहामात्रैः सर्वमायुधकेतुभिः ।
पर्वतैरिव विध्वस्तैर्विशिखैर्मथितैर्गजैः ॥

7.49.31

पृथिव्यानुकीर्णैश्च अश्वसारथियोधिभिः ।
हदैरिव प्रक्षुभितैर्हृतनागै रथोत्तमैः ॥

7.49.32

पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः ।
भीरूणां त्रासजननी घोररूपाऽभवन्मही ॥

7.49.33

तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् ।
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ॥

7.49.34

अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने ।
सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ॥

7.49.35

दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते ।
अजातशत्रुस्तान्वीरानिदं वचनमब्रवीत् ॥

7.49.36

स्वर्गमेष गतः शूरो यो हतो न पराङ्मुखः ।
संस्तम्भयत माभैष्ट विजेष्यामो रणे रिपून् ॥

7.49.37

इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः ।
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् ॥

7.49.38

युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे रिपून् ।
पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरभ्ययात् ॥

7.49.39

हत्वा दशसहस्राणि कौसल्यं च महारथम् ।
कृष्णार्जुनसमः कार्ष्णिः शक्रलोकं गतो ध्रुवम् ॥

7.49.40

रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः । अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत् ।

7.49.41

गतः पुण्यकृतां लोकाञ्शाश्वतान्पुण्यनिर्जितान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc