भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.44

7.44.1

सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण़्डुषु ।
सुघोरमभवद्युद्धं त्वदीयानां परैः सह ॥

7.44.2

प्रविश्याथार्जुनिः सेनां सत्यसन्धो दुरासदः ।
व्यक्षोभयत तेजस्वी मकरः सागरं यथा ॥

7.44.3

तं तथा शरवर्षेण छादयन्तमरिन्दमम् ।
यथा प्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः ॥

7.44.4

तेषां तस्य च सम्मर्दो दारुणः समपद्यत ।
सृजतां शरवर्षाणि प्रसक्तममितौजसाम् ॥

7.44.5

रथव्रजेन संरुद्धस्तैरमित्रैस्तथाऽर्जुनिः ।
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् ॥

7.44.6

तं च विव्याध बलवांस्तस्य चाश्वानजिह्मगैः ।
वातायमानैस्तैरश्वैर्विसञ्ज्ञोऽपहृतो रणात् ॥

7.44.7

तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् ।
रथव्रजास्ततो हृष्टाः साधुसाध्विति चुक्रुशुः ॥

7.44.8

तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन् ।
आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् ॥

7.44.9

सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्कैरवाकिरत् ।
अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे ॥

7.44.10

तमयस्मयवर्माणमिषुणा दूरपातिना ।
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ ॥

7.44.11

वसातीयं हतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः ।
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः ॥

7.44.12

विष्फारयन्तश्चापानि नानारूपाण्यनेकशः ।
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह ॥

7.44.13

तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च ।
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः ॥

7.44.14

सखङ्गाः साङ्गुलित्राणाः सपट्टसपरश्वथाः ।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥

7.44.15

स्रग्भिराभरणैर्वस्त्रैः पतितैर्विविधैर्ध्वजैः ।
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः ॥

7.44.16

उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः ॥

7.44.17

अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः ।
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही ॥

7.44.18

निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः ।
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत ॥

7.44.19

दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा ।
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत ॥

7.44.20

काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च ।
धनुषश्च शराणां च तदपश्याम केवलम् ॥

7.44.21

तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् ।
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc