भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.42

7.42.1

बालमत्यन्तसुखिनं स्वबाहुबलदर्पितम् ।
युद्धेष्वकुशलं वीरं कुलपुत्रं तनुत्यजम् ॥

7.42.2

गाहमानमनीकानि सदश्वैश्च त्रिहायनैः ।
अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्बली ॥
सञ्जय उवाच ।

7.42.3

युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ ।
धृष्टद्युम्नो विराटश्च द्रुपदश्च सङ्केकयः ॥

7.42.4

धृष्टकेतुश्च संरब्धो मात्स्याश्चाभ्यपतन्रणे ।
तेनैव तु पथा यान्तः पितरो मातुलैः सह ॥

7.42.5

अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः ।
तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाऽभवन् ॥

7.42.6

ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् ।
जामाता तव तेजस्वी संस्तम्भयिषुराद्रवत् ॥

7.42.7

सैन्धवस्य महाराज पुत्रो राजा जयद्रथः ।
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् ॥

7.42.8

उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् ।
वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरः ॥
धृतराष्ट्र उवाच ।

7.42.9

कतिभारमहं मन्ये सैन्धवे सञ्जयाहितम् ।
यदेकः पाण्डवान्क्रुद्धान्पुप्रेप्सूनवारयत् ॥

7.42.10

अत्यद्भुतमहं मन्ये बलं शौर्यं च सैन्धवे ।
तस्य प्रब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः ॥

7.42.11

किं जप्तं हुतमिष्टं वा किं सुतप्तमथो तपः ।
दमो वा ब्रह्मचर्यं वा सूत यच्चास्य सत्तम ॥

7.42.12

देवं कतममाराध्य विष्णुमीशानमब्जजम् ।
सिन्धुराट् तनये सक्तान्क्रुद्धान्पार्थानवारयत् ॥

7.42.13

नैवं कृतं महत्कर्म भीष्मेणाज्ञासिषं तथा ।
सिन्धुराजो हि येनैकः पाण्डवान्समवारयत् ॥
सञ्जय उवाच ।

7.42.14

द्वीपदीहरणे यत्तद्भीमसेनेन निर्जितः ।
मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः ॥

7.42.15

इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः सन्निवर्त्य सः ।
क्षुत्पिपासातकपसहः कृशो धमनिसन्ततः ॥

7.42.16

देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् ।
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् ॥

7.42.17

स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् ।
वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि ॥

7.42.18

एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः ।
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् ॥

7.42.19

पाण्डवेयानहं सङ्ख्ये भीमवीर्यपराक्रमान् ।
वारयेयं रथेनैकः समस्तानिति भारत ॥

7.42.20

एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् । ददामि ते वरं सौम्य विना पार्थं धनञ्जयम् ।
वारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान् ॥

7.42.21

एकाहमिति राजेन्द्र तत्रैवान्तरधीयत ।
एवमस्त्विति देवेशमुक्त्वाबुद्ध्यत पार्थिवः ॥

7.42.22

स तेन वरदानेन दिव्येनास्त्बलेन च ।
एकः संवारयामास पाण्डवानामनीकिनीम् ॥

7.42.23

तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् ।
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् ॥

7.42.24

दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमाहितम् ।
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc