भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.40

7.40.1

ततः समभवद्युद्धं तयोः पुरुषसिंहयोः ।
तस्मिन्काले महाबाहुः सौभद्रः परवीरहा ॥

7.40.2

सशरं कार्मुकं छित्त्वा लाघवेन व्यपातयत् ।
दुःशासनं शरैस्तीक्ष्णैः सन्ततक्ष समन्ततः ॥

7.40.3

शरविक्षतगात्रं तु प्रत्यमित्रमवस्थितम् ।
अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ॥

7.40.4

दिष्ट्या पश्यामि सङ्ग्रमे मानिनं शूरमागतम् ।
निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् ॥

7.40.5

यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः ।
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ॥

7.40.6

जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषितः ।
अक्षकूटं समाश्रित्य सौबलस्यात्मनो बलम् ॥

7.40.7

तत्त्वयेदमनुप्राप्तं तस्य कोपान्महात्मनः ।
परवित्तापहारस्य कोधस्याप्रशमस्य च ॥

7.40.8

लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ।
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् ॥

7.40.9

तत्त्वयेदमनुप्राप्तं प्रकोपाद्वै महात्मनाम् ।
स तस्योग्रमधर्मस्य फलं प्राप्नुहि दुर्मते ॥

7.40.10

शासिताऽस्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः ।
अद्याहमनृणस्तस्य कोपस्य भविता रणे ॥

7.40.11

अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः । अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि ।
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणं ॥
सञ्जय उवाच ।

7.40.12

एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् ।
सन्दधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ॥

7.40.13

तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् । जगाम सह पुङ्खेन वल्मीकमिव पन्नगः । अथैनं पञ्चविंशत्या पुनरेव समार्पयत् ॥

7.40.14

शरैरग्निसमस्पर्शैराकर्णसमचोदितैः । स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । दुःशासनो महाराज कश्मलं चाविशन्महत् ॥
सारथिस्त्वरमाणस्तु दुःशासनमचेतनम् । रणमध्यादपोवाह सौभद्रशरपीडितम् ॥

7.40.16

पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् ।
पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ॥

7.40.17

वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः ।
प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ॥

7.40.18

अपश्यन्स्मयमानाश्च सौभद्रस्य विचेष्टितम् ।
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ॥

7.40.19

धर्ममारुतशक्राणामश्विनोः प्रतिमास्तथा ।
धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः ॥

7.40.20

सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ ।
केकया धृष्टकेतुश्च मात्स्याः पाञ्चालसृञ्जयाः ॥

7.40.21

पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः ।
अभ्यद्रवन्त त्वरिता द्रोणानीकं बिभित्सवः ॥

7.40.22

ततोऽभवन्महायुद्धं त्वदीयानां परैः सह ।
जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ॥

7.40.23

तथा तु वर्तमाने वै सङ्ग्रामेऽतिभयन्करे ।
दुर्योधनो महाराज राधेयमिदमब्रवीत् ॥

7.40.24

पश्य दुःशासनं वीरमभिमन्युवशन्गतम् । प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे ।

7.40.25

अथ चैते सुसंरब्धाः सिंहा इव बलोत्कटाः ।
सौभद्रमुद्यतास्त्रातुमभ्यधावन्त पाण्डवाः ॥
सञ्जय उवाच ।

7.40.26

ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् ।
अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव ॥

7.40.27

तस्य चानुचरांस्तीक्ष्णैर्विव्याघ परमेषुभिः ।
अवज्ञापूर्वकं शूरः सौभद्रस्य परणाजिरे ॥

7.40.28

अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः ।
अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ॥

7.40.29

तं तथा नाशकत्कश्चिद्दोणाद्वारयितुं रथी ।
आरुजन्तं रथव्रातान्वज्रहस्तात्मजात्मजम् ॥

7.40.30

ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुष्मताम् ।
सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ॥

7.40.31

सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् ।
समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ॥

7.40.32

स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः ।
समरेऽमरसङ्काशः सौभद्रो न व्यशीर्यत ॥

7.40.33

ततः शिलाशितैस्तीक्ष्णैर्भल्लैरानतपर्वभिः ।
छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ॥

7.40.34

धनुर्मण्डलनिर्मुक्तैः शरैराशीविषोपमैः ।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥

7.40.35

कर्णोऽपि चास्य चिक्षेप बाणान्सन्नतपर्वणः ।
असम्ब्रान्तश्च तान्सर्वानगृह्णात्फल्गुनात्मजः ॥

7.40.36

ततो मुहूर्तात्कर्णस्य बाणेनैकेन वीर्यवान् ।
सध्वजं कार्मुकं वीरश्छित्त्वा भूमावपातयत् ॥

7.40.37

ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः ।
सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ॥

7.40.38

तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः ।
वादित्राणि च सञ्जघ्नः सौभद्रं चापि तुष्टुवुः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc