भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.30

7.30.1

प्रियमिन्द्रस्य सततं सखायममितौजसम् ।
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत ॥

7.30.2

ततो गान्धारराजस्य सुतौ परपुरञ्जयौ ।
अर्देतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ ॥

7.30.3

तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्वितौ ।
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् ॥

7.30.4

वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् ।
तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः ॥

7.30.5

ततोऽर्जुनः शरव्रातैर्जानाप्रहरणैरपि ।
गान्धारानाकुलांश्चक्रे सौबलप्रमुखान्पुनः ॥

7.30.6

ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् ।
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः ॥

7.30.7

हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः ।
आरुरोह रथं भ्रातुरन्यश्च धनुराददे ॥

7.30.8

तावेकरथमारूढौ भ्रातरौ वृषकाचलौ ।
शरवर्षेण बीभत्सुमविध्येतां मुहुर्मुहुः ॥

7.30.9

स्यालौ तव महात्मानौ राजानौ वृषकाचलौ ।
भृशं विजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव ॥

7.30.10

लब्धलक्षौ तु गान्धारावहतां पाण्डवं पुनः ।
नैदाघवार्षिकौ मासौ लोकं घर्मांशुभिर्यथा ॥

7.30.11

तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ ।
संश्चिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणाऽर्जुनः ॥

7.30.12

तौ रथात्सिंहसन्काशौ लोहिताक्षौ महाभुजौ ।
राजन्सम्पेततुर्वीरौ सोदर्यावेकलक्षणौ ॥

7.30.13

तयोर्भूमिं गतौ देहौ रथाद्बन्धुजनप्रियौ ।
यशो दशः दिशः पुण्यं गमयित्वा व्यवस्थितौ ॥

7.30.14

दृष्ट्वा विनिहतौ सङ्ख्ये मातुलावपलायिनौ ।
भृशं मुमुचुरश्रूणि पुत्रास्तव विशाम्पते ॥

7.30.15

निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः ।
कृष्णौ सम्मोहन्मायां विदधे शकुनिस्ततः ॥

7.30.16

लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः ।
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टसाः ॥

7.30.17

सकम्पनर्ष्टिनखरा मुसलानि परश्वथाः ।
क्षुराः क्षुरप्रनालीका वत्सदन्तास्थिसन्धयः ॥

7.30.18

चक्राणि विशिखाः प्रासा विविधान्यायुधानि च ।
प्रपेतुः शतशो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति ॥

7.30.19

खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचित्रकाः ।
ऋक्षाः सालावृका गृध्राः कपयश्च सरीसृपाः ॥

7.30.20

विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति ।
सङ्क्रुद्धान्यभ्यधावन्त विविधानि वयांसि च ॥

7.30.21

ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः ।
विसृजन्निषुजालानि सहसा तान्यताडयत् ॥

7.30.22

ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः ।
विरुवन्तो महारावान्विनेशुः सर्वतो हताः ॥

7.30.23

ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति ।
तस्माच्च तमसो वचाः क्रूराः पार्थमभर्त्सयन् ॥

7.30.24

तत्तमो भैरवं घोरं भयकर्तृ महाहवे ।
उत्तमास्त्रेण महता ज्यौतिषेणार्जुनोऽवधीत् ॥

7.30.25

हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः । अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः ।
प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् ॥

7.30.26

एवं बहुविधा मायाः सौबलस्य कृताः कृताः ।
जघानास्त्रबलेनाशु प्रहसन्नर्जुनोऽब्रवीत् ॥

7.30.27

दुर्द्यूतदेविन्गान्धारे नाक्षान्क्षिपति गाण्डिवम् ।
ज्वलितान्निशितांस्तीक्ष्णाञ्शरान्क्षिपतिगाण्डिवं ॥

7.30.28

तदा हतासु मायासु त्रस्तोऽर्जुनशराहतः ।
अपायाञ्जवनैरश्वैः शकुनिः प्राकृतो यथा ॥

7.30.29

ततोऽर्जुनोऽस्त्रविच्छैघ्र्यं दर्शयन्नात्मनोऽरिषु ।
अभ्यवर्षच्छरौधेण कौरवाणामनीकिनीम् ॥

7.30.30

सा हन्यमाना पार्थेन तव पुत्रस्य वाहिनी ।
द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् ॥

7.30.31

द्रोणमेवान्वपद्यन्त केचित्तत्र नरर्षभाः ।
केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना ॥

7.30.32

नापश्याम ततस्त्वेनं सैन्ये वै रजसावृते ।
गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया ॥

7.30.33

शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निःस्वनम् ।
गाण्डीवस्य तु निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् ॥

7.30.34

ततः पुनर्दक्षिणतः सङ्ग्रामश्चित्रयोधिनाम् ।
सुयुद्धं चार्जुनस्यासीदहं द्रोणमन्वियाम् ॥

7.30.35

यौधिष्ठिराभ्यनीकानि प्रहरन्ति ततस्ततः । नानाविधान्यनीकानि पुत्राणां तव भारत ।
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥

7.30.36

तं वासवमिवायान्तं भूरिवर्षं शरौघिणम् ।
महेष्वासा नरव्याघ्रा नोग्रं केचिदवारयन् ॥

7.30.37

ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् ।
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः ॥

7.30.38

तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः ।
शलभा इव सम्पेतुः संवृण्वाना दिशो दश ॥

7.30.39

तुरगं रथिनं नागं पदातिमपि मारिष ।
विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः ॥

7.30.40

न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः ।
पृथगेकशरारुग्णा निपेतुस्ते गतासवः ॥

7.30.41

हतैर्मनुष्यौर्द्विरदैश्च सर्वतः शराभिसृष्टैश्च हयैर्निपातितैः ।
तदाऽश्वगोमायुबलाभिनादितं विचित्रमायोधशिरो बभूव तत् ॥

7.30.42

पिता सुतं त्यजति सुहृद्वरं सुहृत् तथैव पुत्रः पितरं शरातुरः ।
स्वरक्षणे कृतमतयस्तदा जना सत्यजन्ति वाहानपि पार्थपीडिताः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc