भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.22

7.22.1

भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे ।
पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत ॥

7.22.2

आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् ।
असेवितां कापुरुषैः सेवितां पुरुषर्षभैः ॥

7.22.3

स हि वीरोन्नतः शूरो यो भग्नेषु निवर्तते ।
अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् ॥

7.22.4

जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् ।
त्यजन्तमाहवे प्राणान्सन्नद्धं चित्रयोधिनम् ॥

7.22.5

महेष्वासं नरव्याघ्रं द्विषतां भयवर्धनम् ।
कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् ॥

7.22.6

भारद्वाजं तथाऽनीके दृष्ट्वा शूरमवस्थितम् ।
के शूराः सन्न्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥
सञ्चय उवाच ।

7.22.7

तान्दृष्ट्वा चलितान्सङ्ख्ये प्रणुन्नान्द्रोणसायकैः ।
पाञ्चालान्पाण्वान्मात्स्यान्सृञ्जयांश्चेदिकेकयान् ॥

7.22.8

द्रोणचापविमुक्तेन शरौघेणाशु हारिणा ।
सिन्धोरिव महौधेन हियमाणान्यथा प्लवान् ॥

7.22.9

कौरवाः सिंहनादेन नानावाद्यस्वनेन च ।
रथद्विपनरांश्चैव सर्वतः समवारयन् ॥

7.22.10

तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसम्वृतः ।
दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव ॥
दुर्योधन उवाच ।

7.22.11

पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः ।
सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना ॥

7.22.12

नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः ।
यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः ॥

7.22.13

अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना ।
पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः ॥

7.22.14

सन्निरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना ।
एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः ॥

7.22.15

भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः ।
अन्योन्यं समलीयन्त पलायनपरायणाः ॥

7.22.16

एष भीमो महाक्रोधी हीनः पाण्डवसृञ्जयैः ।
मदीयैरावृतो योधैः कर्ण नन्दयतीव माम् ॥

7.22.17

व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः ।
निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः ॥
कर्ण उवाच ।

7.22.18

नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् ।
न चेमान्पुरुषव्याघ्र सिंहनादान्सहिष्यति ॥

7.22.19

न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः ।
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः ॥

7.22.20

विषाग्निद्यूतसङ्क्लेशान्वनवासं च पाण्डवाः ।
स्मरमाणा न हास्यन्ति सङ्ग्राममिति मे मतिः ॥

7.22.21

निवृत्तो हि महाबाहुरमितौजा वृकोदरः ।
वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति ॥

7.22.22

असिना धनुषा शक्या हयैर्नागैर्नरै स्थैः ।
आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति ॥

7.22.23

तमेनमनुवर्तन्ते सात्यकिप्रमुखा रथाः ।
पाञ्चालाः केकया मास्त्याः पाश्डवाश्च विशेषतः ॥

7.22.24

शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः ।
विनिघ्नन्तश्च भीमेन संरब्धेनाभिचोदिताः ॥

7.22.25

ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः ।
वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव ॥

7.22.26

समरेषु तु निर्दिष्टाः पाण्डवाः कृष्णबान्धवाः ।
पाञ्चालाः केकया मात्स्याः पाण्डवेयाश्च सर्वशः ॥

7.22.27

शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः ।
हीमन्तः शत्रुमरणे निपुणाः पुण्यलक्षणाः ॥

7.22.28

बहवः पार्थिवा राजंस्तेषां वशगता रणे ।
मावमंस्थाः पाण्डवांस्त्वं नारायणपुरोगमान् ॥

7.22.29

एकायनगता ह्येते पीडयेयुर्यतव्रतम् ।
अरक्षमाणं शलभा यथा दीपं मुमूर्षवः ॥

7.22.30

असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे ।
अतिभारमहं मन्ये भारद्वाजे समाहितम् ॥

7.22.31

ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः ।
कोका इव महानागं मा वै हन्युर्यतव्रतम् ॥
सञ्जय उवाच ।

7.22.32

राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्ततः ।
भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति ॥

7.22.33

तत्रारावो महानासीदेकं द्रोणं जिघांसताम् ।
पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc