भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.20

7.20.1

परिणाम्य निशां तां तु भारद्वाजो महारथः ।
उक्त्वा सुबहु राजेन्द्र वचनं वै सुयोधनम् ॥

7.20.2

विधाय गोप्तॄन्पार्थस्य संशप्तकगणैः सह ।
निष्क्रान्ते च तदा पार्थे संशप्तकवधं प्रति ॥

7.20.3

व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् ।
अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया ॥

7.20.4

व्यूढां दृष्ट्वा सुपर्णेन भारद्वाजस्य तां चमूम् ।
व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः ॥

7.20.5

मुखं त्वासीत्सुपर्णस्य भारद्वाजो महारथः ।
शिरो दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः ॥

7.20.6

चक्षुषी कृतवर्माऽसीद्गौतमश्चास्यतां वरः ॥

7.20.7

भूतशर्मा क्षेमशर्मा करकाक्षश्च वीर्यवान् ।
कलिङ्गाः सिंहलाः प्राच्याः शूरा भीरा दशेरकाः ॥

7.20.8

शका यवनकाम्भोजास्तथा हंसपथाश्च ये । ग्रीवायां शूरसेनाश्च दरन्दा मद्रकेकयाः ।
गजाश्वरथपत्त्योघास्तस्थुः परमदंशिताः ॥

7.20.9

भूरिश्रवास्तथा शल्यः सोमदत्तश्च बाह्लिकः ।
अक्षौहिण्या वृता वीरा दक्षिणं पार्श्वमास्थिताः ॥

7.20.10

विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणः ।
वामं पार्श्वं समाश्रित्य द्रोणपुत्राग्रतः स्थिताः ॥

7.20.11

पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः ।
गान्धाराः शकुनाः प्राच्याः पार्वतीया वसातयः ॥

7.20.12

पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः ।
महत्या सेनया तस्थौ नानाजनपदोत्थया ॥

7.20.13

जयद्रथो भीमरथः सम्पातिरृषभो जयः ।
भूमिञ्जयो वृषक्राथो नैषधश्च महाबलः ॥

7.20.14

वृता बलेन महता ब्रह्मलोकपरिष्कृताः ।
व्यूहस्योरसि ते राजन्स्थिता युद्धविशारदाः ॥

7.20.15

द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः ।
वातोद्धूतार्णवाकारः प्रनृत्त इव लक्ष्यते ॥

7.20.16

तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः ।
सविद्युत्स्तनिता मेघाः सर्वदिग्भ्यः इवोष्णगे ॥

7.20.17

तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् ।
आस्थितः शुशुभे राजन्नंशुमानुदये यथा ॥

7.20.18

माल्यदामवता राजञ्श्वेतच्छत्रेण धार्यता ।
कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना ॥

7.20.19

नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ ।
अतिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् ॥

7.20.20

नानानृपतिभिर्वीरै र्विविधायुधभूषणैः ।
समन्वितः पार्वतीयैः शक्रो देवगणैरिव ॥

7.20.21

ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् ।
अजय्यमरिभिः सङ्ख्ये पार्षतं वाक्यमब्रवीत् ॥

7.20.22

ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो ।
पारावतसवर्णाश्व तथा नीतिर्विधीयताम् ॥
धृष्टद्युम्न उवाच ।

7.20.23

द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत ।
अहमावारयिष्यामि द्रोणमद्य सहानुगम् ॥

7.20.24

मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि ।
न हि शक्तो रणे द्रोणो विजेतुं मां कथञ्चन ॥
सञ्जय उवाच ।

7.20.25

एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली ।
पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् ॥

7.20.26

अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् ।
क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव ॥

7.20.27

स हि जातो महाराज द्रोणस्य निधनं प्रति ॥

7.20.28

मर्त्यधर्मतया तस्माद्भारद्वाजो व्यमुह्यत ।
नाशकत्तत्र तत्किञ्चिदनीकं प्रतिवीक्षितुम् ॥

7.20.29

ततः किरन्निषूंस्तीक्ष्णान्द्रुपदस्य वरूथिनीम् । भराद्वाजो ययौ तूर्णं पार्षतं वर्जयन्युधि ।
द्रुपदस्य महत्सैन्यं दारयामास ब्राह्मणः ॥

7.20.30

तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्षणः ।
प्रियं चिकीर्षुर्द्रोणस्य धृष्टद्युम्नमवारयत् ॥

7.20.31

स सम्प्रहारस्तुमुलः सुघोरः समपद्यत ।
पार्षतस्य च शूरस्य दुर्मुखस्य च भारत ॥

7.20.32

पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् ।
भारद्वाजं शरौघेण महता समवारयत् ॥

7.20.33

द्रोणावारितं दृष्ट्वा भृशायस्तस्तवात्मजः ।
नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् ॥

7.20.34

तयोर्विषक्तयोः सङ्ख्ये पाञ्चाल्यकुरुमुख्ययोः ।
द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः ॥

7.20.35

अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः ।
तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् ॥

7.20.36

मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् ।
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ॥

7.20.37

नैव खं न दिशो भूमिर्बभासे न च भास्करः । नैव स्वे न परे राजन्नाज्ञायन्त परस्परम् ।
अनुमानेन सञ्ज्ञाभिर्युद्धं तत्समवर्तत ॥

7.20.38

चूडामणिषु निष्केषु भूषणेष्वपि वर्मसु ।
तेषामादित्यवर्णाभा रश्मयः प्रचकाशिरे ॥

7.20.39

तत्प्रकीर्णपताकानां रथवारणवाजिनाम् ।
बलाकाशबलाभ्रामं ददृशे रूपमाहवे ॥

7.20.40

नरानेव नरा जघ्नरुदग्राश्च हया हयान् ।
रथांश्च रथिनो जघ्नुर्वारणा वरवारणान् ॥

7.20.41

समुच्छ्रितपताकानां गजानां परमद्विपैः ।
क्षणेन तुमुलो घोरः सङ्ग्रामः समपद्यत ॥

7.20.42

तेषां संसक्तगात्राणां कर्षतामितरेतरम् ।
दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजायत ॥

7.20.43

विप्रकीर्णपताकास्ते विषाणजनिताग्नयः ।
बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः ॥

7.20.44

विक्षिपद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः ।
सम्बभूव मही कीर्णा मेघैर्द्यौरिव वार्षिकी ॥

7.20.45

तेषामाहन्यमानानां बाणतोमरऋष्टिभिः ।
वारणानां रवो जज्ञे मेघानामिव सम्पुवे ॥

7.20.46

तोमराभिहताः केचिद्बाणैश्च परमद्विपाः ।
वित्रेसुः सर्वनागानां शब्दमेवापरेऽसृजन् ॥

7.20.47

विषाणाभिहताश्चापि केचित्तत्र गजा गजैः ।
चक्रुरार्तस्वनं घोरमुत्पातजलदा इव ॥

7.20.48

प्रतीपाः क्रियमाणाश्च वारणा वरवारणैः ।
उन्मथ्य पुनराजग्मुः प्रेरिताः परमाङ्कुशैः ॥

7.20.49

महामात्रैर्महामात्रास्ताडिताः शरतोमरैः ।
गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः ॥

7.20.50

निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः ।
छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम् ॥

7.20.51

हतान्परिवहन्तश्च पतितान्पतितायुधान् ।
दिशो जग्मुर्महानागाः केचिदेकचरा इव ॥

7.20.52

ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वथैः ।
पेतुरार्तस्वनं कृत्वा तदा विशसने गजाः ॥

7.20.53

तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः ।
आहता सहसा भूमिश्चकम्पे च ननाद च ॥

7.20.54

सादितैः सगजारोहैः सपताकैः समन्ततः ।
मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः ॥

7.20.55

गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे ।
रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः ॥

7.20.56

क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः ।
परान्स्वांश्चापि मृद्गन्तः परिपेतुर्दिशो दश ॥

7.20.57

गजाश्वरथयोधानां शरीरौघसमावृता ।
बभूव पृथिवी राजन्मांसशोणितकर्दमा ॥

7.20.58

प्रमथ्य च विषाणाग्रैः समुत्क्षिप्ताश्च वारणैः ।
सचक्राश्च विचक्राश्च रथैरेव महारथाः ॥

7.20.59

रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः ।
हतारोहाश्च मातङ्गा दिशो जग्मुर्भयातुराः ॥

7.20.60

जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा ।
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन ॥

7.20.61

आगुल्फेभ्योऽवसीदन्ते नरा लोहितकर्दमैः ।
दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः ॥

7.20.62

शोणितैः सिच्यमानानि वस्त्राणि कवचानि च ।
छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत ॥

7.20.63

हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः ।
सन्क्षुण्णाः पुनरावृत्य बहुधा रथनेमिभिः ॥

7.20.64

सगजौघमहावेगः परासुनरशैवलः ।
रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः ॥

7.20.65

तं वाहनमहानौभिर्योधा जयधनैषिणः ।
अवगाह्याथ मज्जन्तो नैव मोहं प्रचक्रिरे ॥

7.20.66

शरवर्षाभिवृष्टेषु योधेष्वञ्चितलक्ष्मसु ।
न तेष्वचित्ततां लेभे कश्चिदाहतलक्षणः ॥

7.20.67

वर्तमाने तथा युद्धे घोररूपे भयङ्करे ।
मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc