भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.182

7.182.1

कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन ।
जरासन्धप्रभृतयो घातिताः पृथिवीश्वराः ॥
वासुदेव उवाच ।

7.182.2

जरासन्धश्चेदिराजो नैषादिश्च महाबलः ।
यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयङ्कराः ॥

7.182.3

दुर्योधनस्तानवश्यं वृणुयाद्रथसत्तमान् ।
तेऽस्मासु नित्यविद्विष्टाः संश्रयेयुश्च कौरवान् ॥

7.182.4

ते हि वीरा महेष्वासाः कृतास्त्रा दृढयोधिनः ।
धार्तराष्ट्रचमूं कृत्स्नां रक्षेयुरमरा इव ॥

7.182.5

सूतपुत्रो जरासन्धश्चेदिराजो निषादजः ।
सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् ॥

7.182.6

योगैरभिहता यैस्ते तन्मे शृणु धनञ्जय ।
अजय्या हि विना योगैर्मृधे ते दैवतैरपि ॥

7.182.7

एकैको हि पृथक् तेषां समस्तां रिपुवाहिनीम् ।
योधयेत्समरे पार्थ लोकपालाभिरक्षिताम् ॥

7.182.8

जरासन्धो हि रुषितो रौहिणेयप्रधर्षितः ।
अस्मद्वधार्थं चिक्षेप गदां वै सर्वघातिनीम् ॥

7.182.9

सीमन्तमिव कुर्वाणा नभसः पावकप्रभा ।
अदृश्यतापतन्ती सा शक्रुमुक्ता यथाऽशनिः ॥

7.182.10

तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः ।
प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् ॥

7.182.11

अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि ।
दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् ॥

7.182.12

तत्र सा राक्षसी घोरा जरानाम्नी सुविक्रमा ।
सन्दधे सा हि सञ्जातं जरासन्धमरिन्दमम् ॥

7.182.13

द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् ।
जरया सन्धितो यस्माज्जरासन्धस्ततोऽभवत् ॥

7.182.14

सा तु भूमिं गता पार्थ हता ससुतबान्दवा ।
गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी ॥

7.182.15

विनाभूतः स गदया जरासन्धो महामृधे ।
निहतो भीमसेनेन पश्यतस्ते धनञ्जय ॥

7.182.16

यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान् ।
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम ॥

7.182.17

त्वद्धितार्थं च नैषादिरङ्गुष्ठेन वियोजितः ।
द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ॥

7.182.18

स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः ।
अतिमानी वचनरो बभौ राम इवापरः ॥

7.182.19

एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः ।
सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् ॥

7.182.20

किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् ।
दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् ॥

7.182.21

त्वद्धितार्थं तु स मया हतः सङ्ग्राममूर्धनि ॥

7.182.22

चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव ।
स चाप्यशक्यः सङ्ग्रामे जेतुं सर्वसुरासुरैः ॥

7.182.23

वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् ।
त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया ॥

7.182.24

हिडिम्बबककिर्मीरा भीमसेनेन पातिताः ।
रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः ॥

7.182.25

हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः ।
हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः ॥

7.182.26

यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे । मयां वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ।
मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया ॥

7.182.27

एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः । धर्मस्य लोप्ता पापात्मा तस्मादेव निपातितः ।
व्यंसिता चाप्यूपायेन शक्रदत्ता मयाऽनघ ॥

7.182.28

येहि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव ।
धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ॥

7.182.29

ब्रह्म सत्यं दमः शौचं धर्मो हीः श्रीर्धृतिः क्षमा ।
यत्र तत्र रमे नित्यमहं सत्येन ते शपे ॥

7.182.30

न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति ।
उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥

7.182.31

सुयोधनं चापि रणे हनिष्यति वृकोदरः ।
तस्यापि च वधोपायं वक्ष्यामि तव पाण्डव ॥

7.182.32

वर्धते तुमुलस्त्वेष शब्दः पचरमूं प्रति ।
विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥

7.182.33

लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव ।
दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc