भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.178

7.178.1

तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे ।
हर्षमाहारयाञ्चक्रुः कुरवः सर्व एव ते ॥

7.178.2

तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः ।
अप्लुवाः प्लवमासाद्य तर्तुकामा इवार्णवम् ॥

7.178.3

पुनर्जातमिवात्मानं मन्वानाः पुरुषर्षभाः ।
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् ॥

7.178.4

तस्मिंस्त्वमानुषे युद्धे वर्तमाने महाभये ।
कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने ॥

7.178.5

न द्रौणिर्न कृपद्रोणौ न शल्यो न च माधवः ।
एक एव तु तेनासीद्योद्धा कर्णो रणे वृषा ॥

7.178.6

उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः ।
व्यभ्रमंस्तावकाश्चापि घूर्णमानास्ततस्ततः ॥

7.178.7

चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः ।
तत्कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्बस्य रणाजिरे ॥

7.178.8

सर्वमाविग्नमभवद्धाहाभूतमचेतनम् ।
तव सैन्यं महाराज निराशं कर्णजीविते ॥

7.178.9

दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम् ।
अलायुधं राक्षसेन्द्रं समाहूयेदमब्रवीत् ॥

7.178.10

एष वैकर्तनः कर्णो हैडिम्बेन समागतः ।
कुरुते कर्म सुमहद्यदस्योपयिकं मृधे ॥

7.178.11

पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना ।
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना ॥

7.178.12

तवैष भारः समरे ज्ञातिमध्ये मया कृतः ।
तवैवानुमते वीर तं विक्रम्य निबर्हय ॥

7.178.13

पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः ।
मायाबलं समाश्रित्य कर्षयत्यरिकर्शन ॥

7.178.14

एवमुक्तः स राज्ञा तु राक्षसो भीमविक्रमः ।
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् ॥

7.178.15

ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो ।
प्रत्यमित्रमुपायान्तमर्दयामास मार्गणैः ॥

7.178.16

तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः ।
मत्तयोर्वासिताहेतोर्दीपयोरिव कानने ॥

7.178.17

रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः ।
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा ॥

7.178.18

तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् ।
अलायुधेन समरे सिंहेनेव गवां पतिम् ॥

7.178.19

रथेनादित्यवपुषा भीमः प्रहरतां वरः ।
किरञ्छरौघान्प्रययावलायुधरथं प्रति ॥

7.178.20

तमायान्तमभिप्रेक्ष्य स तदाऽलायुधः प्रभो ।
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् ॥

7.178.21

तं भीमः सहसाऽभ्येत्य राक्षसान्तकरः प्रभो ।
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् ॥

7.178.22

तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः ।
अभ्यवर्षत कौन्तेयं पुनःपुनररिन्दम ॥

7.178.23

तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् ।
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः ॥

7.178.24

स ताड्यमानो बहुभिर्भीमसेनो महाबलः ।
पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः ॥

7.178.25

ते वध्यमाना भीमेन राक्षसाः क्रूरबुद्धयः ।
विनेदुस्तुमुलान्नादान्दुद्रुवुस्ते दिशो दश ॥

7.178.26

तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो मबहालम् ।
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् ॥

7.178.27

तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः ॥

7.178.28

अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे ।
चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् ॥

7.178.29

स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः ।
गदां चिक्षेप वेगेन वज्रपातोपमां तदा ॥

7.178.30

तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः ।
गदया ताडयामास सा गदा भीममाव्रजत् ॥

7.178.31

स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत् ।
तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः ॥

7.178.32

ते चापि राक्षसाः सर्वे रजन्यां भीमरूपिणः ।
शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् ॥

7.178.33

पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः ।
न शान्तिं लेभिरे तत्र राक्षसैर्भृशपीडिताः ॥

7.178.34

तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवम् ।
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमिदं वचः ॥

7.178.35

पश्य भीमं महाबाहुं राक्षसेन्द्रवशं गतम् ।
पदमस्यानुगच्छ त्वं मा विचारय पाण्डव ॥

7.178.36

धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ ।
सहितौ द्रौपदेयाश्च कर्णं यान्तु महारथाः ॥

7.178.37

नकुलः सहदेवश्च युयुधानश्च वीर्यवान् ।
इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव ॥

7.178.38

त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम् ।
मारयस्व नरव्याघ्र महद्धि भयमागतम् ॥

7.178.39

एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः ।
जग्मुर्वैकर्तनं कर्णं राक्षसांश्चैव तान्रणे ॥

7.178.40

अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः ।
धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् ॥

7.178.41

हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः ।
जघान मिषतः सङ्ख्ये भीमसेनस्य राक्षसः ॥

7.178.42

सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः ।
तस्मै गुर्वीं गदां घोरां विनदन्नुत्ससर्ज ह ॥

7.178.43

ततस्तां भीमनिर्घोषामापतन्तीं महागदाम् ।
गदया राक्षसो घोरो निजघान ननाद च ॥

7.178.44

तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् ।
भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् ॥

7.178.45

तयोः समभवद्युद्धं तुमुलं नररक्षसोः ।
गदानिपातसंहादैर्भुवं कम्पयतोर्भृशम् ॥

7.178.46

गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् ।
मुष्टिभिर्वज्रसंहादैरन्योन्यमभिजघ्नतुः ॥

7.178.47

रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः ।
यथासन्नमुपादाय निजघ्नतुरमर्षणौ ॥

7.178.48

तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् ।
मत्ताविव महानागौ चकृपाते पुनः पुनः ॥

7.178.49

तावपश्यद्वृषीकेशः पाण्डवानां हिते रतः ।
स भीमसेनरक्षार्थं हैडिम्बिं पर्यचोदयत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc