भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.176

7.176.1

यत्तद्वैकर्तनः कर्णो राक्षसश्च घटोत्कचः ।
निशीथे समसज्जेतां तद्युद्धमभवत्कथम् ॥

7.176.2

कीदृशं चाभवद्रूपं तस्य घोरस्य रक्षसः ।
येन वैकर्तनः कर्णः सङ्ग्रामे तेन निर्जितः ॥

7.176.3

रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च ।
किम्प्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा ॥

7.176.4

कीदृशं वर्म चैवास्य शिरस्त्राणं च कीदृशम् ।
पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय ॥
सञ्जय उवाच ।

7.176.5

लोहितोक्षो महाकायस्ताम्रास्यो निम्नितोदरः ।
ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः ॥

7.176.6

आकर्णदारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् ।
सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः ॥

7.176.7

नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयङ्करः ।
महाकायो महाबाहुर्महाशीर्षो महाबलः ॥

7.176.8

विकृतः परुषस्पर्शो विकचोद्वृद्धपिण्डकः ।
स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् ॥

7.176.9

तथैव हस्ताभरणी महामायोऽङ्गदी तथा ।
उरसाऽधारयन्निष्कमग्निमालां यथाऽचलः ॥

7.176.10

तस्य हेममयं चित्रं बहुरूपाङ्गशभितम् ।
तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत ॥

7.176.11

कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् । धारयन्विपुलं कांस्यं कवचं च महाप्रभम् ।
ताराजालनिभं राजन्पूर्णचन्द्रसमप्रभम् ॥

7.176.12

कण्ठसूत्रं महच्चापि तपनीयमधारयत् ।
स तेन विभ्राजत वै सविद्युदिव तोयदः ॥

7.176.13

किङ्किणीशतनिर्घोपं रक्तध्वजपताकिनम् ।
ऋक्षचर्मावनद्वाङ्गं नल्वमात्रं महारथम् ॥

7.176.14

सर्वायुधवरोपेतमास्थितं ध्वजमालिनम् ।
अष्टचक्रसमायुक्तं मेघगम्भीरनिःस्वनम् ॥

7.176.15

मत्तमातङ्गसङ्काशा लोहिताक्षा विभीपणाः ।
कालवर्णासमायुक्ता बलवन्तः शतं हयाः ॥

7.176.16

वहन्तो राक्षसं घोरं वालवन्तो जितश्रमाः ।
विपुलाभिः सटाभिस्ते हेषमाणा मुहुर्मुहुः ॥

7.176.17

मुखैर्नानाविधाकारैर्वगवन्तो हयोत्तमाः ।
रथेऽस्य युक्ता गकर्जन्तोऽवहंस्ते राक्षसाधिपम् ॥

7.176.18

राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः । घोररूपो महाकायः करालो विकृताननः ।
रश्मिभिः सूर्यरश्म्याह्वैः सञ्जग्राह हयान्रणे ॥

7.176.19

स तेन सहितस्तस्थावरुणेन यथा रविः ।
संसक्त इव चाभ्रेण यथाऽद्रिर्महता महान् ॥

7.176.20

दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः ।
रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः ॥

7.176.21

वासवाशनिनिर्घोषं दृढज्यमतिविक्षिपन् ।
व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् ॥

7.176.22

रथाक्षमात्रैरिपुभिः सर्वाः प्रच्छादयन्दिशः ।
तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् ॥

7.176.23

तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः ।
अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः ॥

7.176.24

तेन वित्रास्यमानानि तव सैन्यानि भारत ।
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः ॥

7.176.25

तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम् ।
उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् ॥

7.176.26

ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् ।
मातङ्ग इव मातङ्गं यूथर्षभमिवर्षभः ॥

7.176.27

स सन्निपातस्तुमुलस्तयोरासीद्विशाम्पते ।
कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव ॥

7.176.28

तौ प्रगृह्य महावेगे धनुषी भीमनिःस्वने ।
प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः ॥

7.176.29

ततः पूर्णायतोत्सृष्टैरिषुभिर्नतपर्वभिः ।
न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी ॥

7.176.30

तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ ।
रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः ॥

7.176.31

सञ्छिन्दन्तौ च गात्राणि सन्दधानौ च सायकान् ।
दहन्तौ च शरोल्काभिर्दुष्प्रेक्ष्यौ च बभूवतुः ॥

7.176.32

तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ ।
विभ्राजेतां यथा वारि स्रवन्तौ गैरिकाचलौ ॥

7.176.33

तौ शराग्रविनुन्नाङ्गौ निर्भिन्दन्तौ परस्परम् ।
नाकम्पयेतामन्योन्यं यतमानौ महाद्युती ॥

7.176.34

तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् ।
प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे ॥

7.176.35

तस्य सन्दधतस्तीक्ष्णाञ्छरांश्चासक्तमस्यतः ।
धनुर्घोषेण वित्रस्ताः स्वे परे च तदाऽभवन् ॥

7.176.36

घटोत्कचं यदा कर्णो विशेषयति नो नृप ।
ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः ॥

7.176.37

कर्णेन सन्धितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः ।
प्रादुश्चक्रे महामायां राक्षसीं पाण्डुनन्दनः ॥

7.176.38

शूलमुद्गरधारिण्या शैलपादपहस्तया ।
रक्षसां घोररूपाणां महत्या सेनया वृतः ॥

7.176.39

तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः ।
भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् ॥

7.176.40

घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः ।
प्रसुस्रुवुर्गजा मूत्रं विव्यधुश्च नरा भृशम् ॥

7.176.41

ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः ।
अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः ॥

7.176.42

आयसानि च चक्राणि भुशुण़्ड्यः शक्तितोमराः ।
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टसास्तथा ॥

7.176.43

तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिप ।
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः ॥

7.176.44

तत्रैकोऽस्तबलश्लाघी कर्णो मानी न विव्यथे ।
व्यधमच्च शरैर्मायां तां घटोत्कचनिर्मिताम् ॥

7.176.45

मायायां तु प्रहीणायाममर्षाच्च घटोत्कचः ।
विससर्ज शरान्धोरान्सूत पुत्रं त आविशन् ॥

7.176.46

ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे ।
विविशुर्धरणीं बाणाः सङ्क्रुद्धा इव पन्नगाः ॥

7.176.47

सूतपुत्रस्तु सङ्क्रद्धो लघुहस्तः प्रतापवान् ।
घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः ॥

7.176.48

घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु ।
चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम् ॥

7.176.49

क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् ।
चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया ॥

7.176.50

प्रविद्वमतिवेगेन विक्षिप्तं कर्णसायकैः ।
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि ॥

7.176.51

घटोत्कचस्तु सङ्क्रुद्धो दृष्ट्वा चक्रं निपातितम् ।
कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥

7.176.52

सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः ।
घटोत्कचरथं तूर्णं छादयामास पत्रिभिः ॥

7.176.53

घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा ।
क्षिप्ता भ्राम्य शरैः साऽपि कर्णेनाभ्याहताऽपतत् ॥

7.176.54

ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् ।
प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् ॥

7.176.55

ततो मायाविनं कर्णो भीमसेनसुतं दिवि ।
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ॥

7.176.56

तस्य सर्वान्हयान्हत्वा सञ्छिद्य शतधा रथम् ।
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् ॥

7.176.57

न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ।
सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा ॥

7.176.58

न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् ।
दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् ॥

7.176.59

स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् ।
मायायुद्धेन मायावी सूतपुत्रमयोधयत् ॥

7.176.60

सोऽयोधयत्तदा कर्णं मायया लाघवेन च ।
अलक्ष्यमाणानि दिवि शरजालानि चापतन् ॥

7.176.61

भैमसेनिर्महामायो मायया कुरुसत्तम ।
विचचार महाकायो मोहयन्निव भारत ॥

7.176.62

स तु कृत्वा विरूपाणि वदनान्यशुभानि च ।
अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया ॥

7.176.63

पुनश्चापि महाकायः सञ्छिन्नः शतधा रणे ।
गतसत्वो निरुत्साहः पतितः खाद्व्यदृश्यत ॥

7.176.64

तं हतं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः ।
अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत ॥

7.176.65

पुनश्चापि महाकायः शतशीर्षः शतोदरः ।
व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः ॥

7.176.66

अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः ।
सागरोर्मिरिवोद्वूतस्तिर्यगूर्ध्वमवर्तत ॥

7.176.67

वसुधां दारयित्वा च पुनरप्यु न्यमज्जत ।
अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः ॥

7.176.68

सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते ।
क्षितिं खं च दिशश्चैव माययाऽभ्येत्य दंशितः ॥

7.176.69

गत्वा कर्णरथाभ्याशं व्यचरत्कुण्डलाननः ।
प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशाम्पते ॥

7.176.70

तिष्ठेदानीं क्व मे जीवन्सूतपुत्र गमिष्यसि ।
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रमाजिरे ॥

7.176.71

इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् । उत्पपातान्तरिक्षं च जहास च सुविस्तरम् ।
कर्णमभ्यहनच्चैव गजेन्द्रमिव केसरी ॥

7.176.72

रथाक्षमात्रेरिषुभिरभ्यवर्षद्धटोत्कचः ।

7.176.73

शरवृष्टिं च तां कर्णो दूरात्प्राप्तामशातयत् ॥

7.176.74

दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ ।
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥

7.176.75

सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः ।
शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥

7.176.76

तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् ।
प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे ॥

7.176.77

स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदैरयत् ।
ततः सोऽस्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत ॥

7.176.78

ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि ।
अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् ॥

7.176.79

अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः ।
व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषः ॥

7.176.80

स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः ।
जघानास्त्रं महाराज घटोत्कचसमीरितम् ॥

7.176.81

ततः प्रहस्य समरे भैमसेनिर्महाबलः ।
प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् ॥

7.176.82

स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् ।
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥

7.176.82

सिंहशार्दूलसदृशैर्मत्तमातङ्गविक्रमैः । गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा ।

7.176.83

नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः ॥ वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् ।

7.176.84

दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् ॥ घटोत्कचस्ततः कर्णं विद्धा पञ्चभिराशुगैः ।

7.176.85

ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् ॥ भूयश्चाञ्जलिकेनाथ स मार्गणगणं महत् ।

7.176.86

कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥ अथान्यद्धनुरादाय दृढं भारसहं महत् ।

7.176.87

विचकर्ष बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम् ॥ ततः कर्णो महाराज प्रेषयामास सायकान् ।

7.176.88

सुवर्णपुङ्खाञ्छत्रुघ्नान्खेचरान्राक्षसान्प्रति ॥ तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।

7.176.89

सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम् ॥ विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः ।

7.176.90

ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥ स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः ।

7.176.91

पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥ तेषु राजसहस्रेषु पाण्डवेयेषु मारिष ।

7.176.92

नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव ॥ ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात् ।

7.176.93

भीमवीर्यबलोपेतात्क्रुद्ध्द्वैवस्वतादिव ॥ तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत ।

7.176.94

महोल्काभ्यां यथा राजन्सार्जिषः स्नेहबिन्दवः ॥ तलं तलेन संहत्य सन्दश्य दशनच्छदम् ।

7.176.95

रथमास्थाय च पुनर्मायया निर्मितं तदा ॥ युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः ।

7.176.96

स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मां वह ॥

7.176.97

स ययौ घोररूपेण रथेन रथिनां वरः । द्वैरथं सूतपुत्रेण पुनरेव विशाम्पते ॥ स चिक्षेप पुनः क्रुद्धः सुतपुत्राय राक्षसः ।

7.176.98

अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् ॥

7.176.99

द्वियोजनसमुत्सेधां योजनायामविस्तराम् ।
आयसीं निचितां शूलैः कदम्बमिव केशरैः ॥

7.176.100

तामवप्लुत्य जग्राह कर्णो न्यस्य महद्धनुः ।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ॥

7.176.101

साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा ।
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः ॥

7.176.102

कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा ।
यदप्लुत्य जग्राह देवसृष्टां महाशनिम् ॥

7.176.103

एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः ।
ततो मुमोच नाराचान्सूतपुत्रः परन्तपः ॥

7.176.104

अशक्यं कर्तुमन्येन सर्वभूतेषु मानद ।
यदकार्षीत्तदा कर्णः सङ्ग्रामे भीमदर्शने ॥

7.176.105

स हन्यमानो नाराचैर्धाराभिरिव पर्वतः ।
गन्धर्वनगराकारः पुनरन्तरधीयत ॥

7.176.106

एवं स वै महाकायो मायया लाघवेन च ।
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः ॥

7.176.107

निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा ।
असम्भ्रान्तस्तदा कर्णस्तद्रक्षः प्रत्ययुध्यत ॥

7.176.108

ततः क्रुद्धो महाराज भैमसेनिर्महाबलः ।
चकार बहुधाऽत्मानं भीषयाणो महारथान् ॥

7.176.109

ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः ।
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः ॥

7.176.110

स कीर्यमाणो विशिखैः कर्णचापच्युतैः शरैः ।
नागराडिव दुष्प्रेक्ष्यस्तत्रैवान्तरधीयत ॥

7.176.111

राक्षसाश्च पिशाचाश्च यातुधानास्तथैव च ।
शालावृकाश्च बहवो वृकाश्च विकृताननाः ॥

7.176.112

ते कर्णं क्षपयिष्यन्तः सर्वतः समुपाद्रवन् ।
अथैनं वाग्भिरुग्राभिस्त्रासयाञ्चिक्रिरे तदा ॥

7.176.113

उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः ।
तेषामनेकैरेकैकं कर्णो विव्याध सायकैः ॥

7.176.114

प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् ।
आजघान हयानस्य शरैः सन्नतपर्वभिः ॥

7.176.115

ते भग्ना विक्षताङ्गाश्च भिन्नपृष्ठाश्च सायकैः ।
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः ॥

7.176.116

स भग्नमायो हैडिम्बिः कर्णं वैकर्तनं तदा ।
एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc