भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.170

7.170.1

नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव ।
अभ्ययात्सौबलः क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥

7.170.2

कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥

7.170.3

यथैव नकुलो राजञ्शरवर्षाण्यमुञ्चत ।
तथैव सौबलश्चापि शिक्षां सन्दर्शयन्युधि ॥

7.170.4

तावुभौ समरे शूरौ शरकण्टकिनौ तदा ।
व्यराजेतां महाराज श्वाविधौ शललैरिव ॥

7.170.5

रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ ।
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ॥

7.170.6

तपनीयनिभौ चित्रो कल्पवृक्षाविव द्रुमौ ।
किंशुकाविव चोत्फुल्लौ प्रकाशेते रणाजिरे ॥

7.170.7

तावुभौ समरे शूरौ शरकण्टकिनौ तदा ।
व्यराजेतां महारान्कण्टकैरिव शाल्मली ॥

7.170.8

सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ ।
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् ॥

7.170.9

श्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव ।
कर्णिनैकेन विव्याध हृदये निशितेन ह ॥

7.170.10

नकुलस्तु भृशं विद्वः श्यालेन तव धन्विना ।
निषसाद रथोपस्थे कश्मलं चाविशन्महत् ॥

7.170.11

अत्यन्तवैरिणां दृप्तं दृष्ट्वा शत्रुं तथाऽगतम् ।
ननाद शकुनी राजंस्तपान्ते जलदो यथा ॥

7.170.12

प्रतिलभ्य ततः सञ्ज्ञां नकुलः पाण्डुनन्दनः ।
अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः ॥

7.170.13

सङ्क्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ ।
पुनश्चैनं शतेनैव नाराचानां स्तनान्तरे ॥

7.170.14

अथास्य सशरं चापं मृष्टिदेशेऽच्छिनत्तदा ।
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् ॥

7.170.15

विशिखेन च तीक्ष्णेन पीतेन निशितेन च । ऊरू निर्भिद्य चैकेन नकुलः पाण्डुनन्दनः ।
श्येनं सपक्षं व्याधेन पातयामास तं तदा ॥

7.170.16

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।
ध्वजयष्टिं परिक्लिश्य कामुकः कामिनीं यथा ॥

7.170.17

तं विसञ्ज्ञं निपतितं दृष्ट्वा श्यालं तवानघ ।
अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् ॥

7.170.18

ततः सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः ॥

7.170.19

निर्जित्य च रणे शत्रुं नकुलः शत्रुतापनः ।
अब्रवीत्सारथिं क्रुद्धो द्रोणानीकायं मां वह ॥

7.170.20

तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य सारथिः ।
प्रायात्तेन तदा राजन्यत्र द्रोणो व्यवस्थितः ॥

7.170.21

शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशाम्पते ।
कृपः शारद्वतो यत्तः प्रत्यगच्छत्स वेगितः ॥

7.170.22

गौतमं द्रुतमायान्तं द्रोणानीकमरिन्दमम् ।
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव ॥

7.170.23

तमाचार्यो महाराज विद्धा पञ्चभिराशुगैः ॥
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव ॥

7.170.24

महद्युद्धं तयोरासीद्धोररूपं भयानकम् ॥
यथा देवासुरे युद्धे शम्बरामरराजयोः ॥

7.170.25

शरजालावृतं व्योम चक्रतुस्तौ महारथौ । मेघाविव तपापाये वीरौ समरदुर्मदौ ।
प्रकृत्या घोररूपं तदासीद्धोरतरं पुनः ॥

7.170.26

रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम् ।
कालरात्रिनिभा ह्यासीद्धोररूपा भयानका ॥

7.170.27

शिखण्डी तु महाराज गौतमस्य महद्धनुः ।
अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा ॥

7.170.28

तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम् ।
स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् ॥

7.170.29

तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः ।
सापतन्मेदिनीं कृत्ता भासयन्ती महाप्रभा ॥

7.170.30

अथान्यद्धनुरादाय गौतमो रथिनां वारः ।
प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् ॥

7.170.31

स च्छाद्यमानः समरे गौतमेन यशस्विना ।
न्यषीदत रथोपस्थे शिखण्डी रथिनां वरः ॥

7.170.32

सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि ।
आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत ॥

7.170.33

विमुखं तु रणे दृष्ट्वा याज्ञसेनिं महारथम् ।
पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः ॥

7.170.34

तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम् ।
महत्या सेनया सार्धं ततो युद्धमवर्तत ॥

7.170.35

रथानां च रणे राजन्नन्योन्यमभिधावताम् ।
बभूव तुमुलः शब्दो मेघानां गर्जतामिव ॥

7.170.36

द्रवतां सादिनां चैव गजानां च विशाम्पते ।
अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ ॥

7.170.37

पत्तीनां द्रवतां चैव पादशब्देन मेदिनी ।
अकम्पत महाराज भयत्रस्तेव चाङ्गना ॥

7.170.38

रथिनो रथमारुह्य प्रद्रुता वेगवत्तरम् ।
अगृह्णन्बहवो राजञ्शलभान्वायसा इव ॥

7.170.39

तथा गजान्प्रभिन्नांश्च सम्प्रभिन्ना महागजाः ।
तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत ॥

7.170.40

सादी सादिनमासाद्य पत्तयश्च पदातिनम् ।
समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः ॥

7.170.41

धावतां द्रवतां चैव पुनरावर्ततामपि ।
बभूव तत्र सैन्यानां शब्दः सुविपुलो निशि ॥

7.170.42

दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु ।
अदृश्यन्त महाराज महोल्का इव खाच्च्युताः ॥

7.170.43

सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता ।
दिवसप्रतिमा राजन्बभूव रणमूर्धनि ॥

7.170.44

आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति ।
तथा नष्टं तमो घोरं दीपैर्दीप्तैरितस्ततः ॥

7.170.45

दिवं च पृथिवीं चैव दिशश्च प्रदिशस्तथा ।
रजसा तमसा व्याप्ता द्योतिताः प्रभया पुनः ॥

7.170.46

अस्त्राणां कवचनानां च मणीनां च महात्मनाम् ।
अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः ॥

7.170.47

तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे ।
न किञ्चिद्विदुरात्मानमयमस्मीति भारत ॥

7.170.48

अवधीत्समरे पुत्रं पिता भरतसत्तम । पुत्रश्च पितरं मोहात्सखायं च सखा तथा ।
स्वस्रीयं मातुलश्चापि स्वस्रीयश्चापि मातुलम् ॥

7.170.49

स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् ।
निर्मर्यादमभूद्युद्धं रात्रौ भीरुभयानकम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc