भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.160

7.160.1

तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् ।
खङ्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ॥

7.160.2

ततः परमसङ्क्रुद्धः सिंहो मत्तमिव द्विपम् ।
प्रेक्षतः कुरुराजस्य द्रौणिः कर्णं समभ्ययात् ॥
अश्वत्थामोवाच ।

7.160.3

यदर्युनगुणांस्तथ्यान्कीर्तयानं नराधम ।
शूरं द्वेषात्सुदुर्बुद्धे त्वं भर्त्सयसि मातुलम् ॥

7.160.4

विकत्थमानः शौर्येण सर्वलोकधनुर्धरम् ॥
दर्पोत्सेधगृहीतोऽद्य न कञ्चिद्गणयन्मृधे ॥

7.160.5

क्व ते वीर्यं क्व चास्त्राणि यं त्वां निर्जित्य संयुगे ।
गाण्डीवधन्वा हतवान्प्रेक्षतस्ते जयद्रथम् ॥

7.160.6

येन साक्षान्महादेवो योधितः समरे पुरा ।
तमिच्छसि वृथा जेतुं सूताधम मनोरथैः ॥

7.160.7

यं हि कृष्णेन सहितं सर्वशस्त्रभृतां वरम् ।
जेतुं न शक्ताः सहिताः सेन्द्रा अपि सुरासुराः ॥

7.160.8

लोकैकवीरमजितमर्जुनं सूत संयुगे ।
किं पुनस्त्वं सुदुर्बुद्धे सहैभिर्वसुधाधिपैः ॥

7.160.9

कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम ।
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते ॥
सञ्जय उवाच ।

7.160.10

तमुद्यतं तु वेगेन राजा दुर्योधनः स्वयम् ।
न्यवारयन्महातेजाः कृपश्च द्विपदां वरः ॥
कर्ण उवाच ।

7.160.11

शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः ।
आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ॥
अश्वत्थामोवाच ।

7.160.12

तैवतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते ।
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥
दुर्योधन उवाच ।

7.160.13

अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद ।
कोपः खलु न कर्तव्यः सूतपुत्रं कथञ्चन ॥

7.160.14

त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले ।
महत्कार्यं समासक्तं प्रसीद द्विजसत्तम ॥

7.160.15

एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः ।
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः ॥
सञ्जय उवाच ।

7.160.16

प्रसाद्यमानस्तु ततो राज्ञा द्रौणिर्महामनाः ।
प्रससाद महाराज क्रोधवेगसमन्वितः ॥

7.160.17

ततः कृपोऽप्युवाचेदमाचार्यः सुमहामनाः ।
सौम्यस्वभावाद्राजनेन्द्र क्षिप्रमागतमार्दवः ॥
कृप उवाच ।

7.160.18

तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते ।
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥
सञ्जय उवाच ।

7.160.19

ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः ।
आजग्मुः सहिताः कर्णं तर्जयन्तः समन्ततः ॥

7.160.20

कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् । कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव ।
पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ॥

7.160.21

ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः ।
भीषणं सुमहाराज सिंहनादविराजितम् ॥

7.160.22

ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः ।
दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ॥

7.160.23

अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे ।
युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ॥

7.160.24

अन्ये तु दृष्ट्वा राधेयं क्रोधरक्रेक्षणाऽब्रुवन् । हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः ।
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता ।

7.160.25

अत्यन्तवैरी पार्थानां सततं पापपूरुषः ।
एष मूलमनर्थानां दुर्योधनमते स्थितः ॥

7.160.26

घ्नतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् । महता शरवर्षेण च्छादयन्तो महारथाः ।
वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ॥

7.160.27

तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् ।
न विव्यथे सूतपुत्रो न च त्रासमगच्छत ॥

7.160.28

दृष्ट्वा सागस्कल्पं तमुद्धूतं सैन्यसागरम् ।
पिप्रीषुस्तव पुत्राणां सङ्ग्रामेष्वपराजितः ॥

7.160.29

सायकौधेन बलवान्क्षिप्रकारी महाबलः ।
वारयामास तत्सैन्यं समन्ताद्भरतर्पभ ॥

7.160.30

ततस्तु शरवर्षेण पार्थिवास्तमवारयन् । धनुम्पि ते विधुन्वानाः शतशोऽथ सहस्रशः ।
अयोधयन्त राधेयं शक्रं दैत्यगणा इव ॥

7.160.31

शरवर्पं तु तत्कर्णः पार्थिवैः समुदीरितम् ।
शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ॥

7.160.32

तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् ।
यथा देवासुरे युद्धे शक्रस्य सह दानैवः ॥

7.160.33

तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् ।
यदेनं सर्वतो यत्ता नाप्नुवन्ति परे युधि ॥

7.160.34

निवार्य च शरौघांस्तान्पार्थिवानां महारथः । युगेष्वीषासु च्छत्रेषु ध्वजेषु च हयेषु च ।
आत्मनामाङ्कितान्घोरान्राधेयः प्राहिणोच्छरान् ॥

7.160.35

ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः ।
बभ्रुमुस्तत्र तत्रैव गावः शीतार्दिता इव ॥

7.160.36

हयानां वध्यमानानां गजानां रथिनां तथा ।
तत्रतत्राभ्यवेक्षाम सङ्घान्कर्णेन ताडितान् ॥

7.160.37

शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः ।
आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ॥

7.160.38

हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः ।
बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ॥

7.160.39

ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् ।
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥

7.160.40

युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः ॥

7.160.41

पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् ।
कार्तिकेयेन विध्वस्तामासुरीं पृतनामिव ॥

7.160.42

दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता ।
अभियात्येष बीभत्सुः सूतपुत्रजिघांसया ॥

7.160.43

तद्यथा प्रेक्षमाणानां सूतपुत्रं महारथम् ।
न हन्यात्पाण्डवः सङ्ख्ये तथा नीतिर्विधीयतां ॥

7.160.44

ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः । प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया ।
आयान्तं वीक्ष्य कौन्तेयं शक्रं दैत्यचमूमिव ॥

7.160.45

बीभत्सुरपि राजेन्द्र पाञ्चालैरभिसंवृतः ।
प्रत्युद्ययौ तदा कर्णं यथा वृत्रं शतक्रतुः ॥
धृतराष्ट्र उवाच ।

7.160.46

संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् ।
कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् ॥

7.160.47

यो ह्यस्पर्धत पार्थेन नित्यमेव महारथः ।
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणम् ॥

7.160.48

स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् ।
कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ॥
सञ्जय उवाच ।

7.160.49

आयान्तं पाण्डव दृष्ट्वा गजं प्रतिगजो यथा ।
असम्भ्रान्तो रणे कर्णः प्रत्युदीयाद्धनञ्जयम् ॥

7.160.50

तमापतन्तं वेगेन वैकर्तनमजिह्मगैः ।
छादयामास पार्थोऽथ कर्णस्तु विजयं शरैः ॥

7.160.51

स कर्णं शरजालेन च्छादयामास पाण़्डवः ।
ततः कर्णः सुसंरब्धः शरैस्त्रिभिरविध्यत ॥

7.160.52

तस्य तल्लाघवं पार्थो नामृष्यत महाबलः ॥

7.160.53

तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् ।
प्राहिणोत्सूतपुत्राय त्रिशतं शत्रुतापनः ॥

7.160.54

विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् ।
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव ॥

7.160.55

तस्य विद्धस्य बाणेन कराच्चापं पपात ह ॥

7.160.56

पुनरादाय तच्चापं निमेषार्धान्महाबलः ।
छादयामास बाणौघैः फल्गुनं कृतहस्तवत् ॥

7.160.57

शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत ।
व्यधमच्छरवर्षेण स्मयन्निव धनञ्जयः ॥

7.160.58

तौ परस्परमासाद्य शरवर्षेण पार्थिव ।
छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ ॥

7.160.59

तदद्भुतं महद्युद्धं कर्णपाण्डवयोर्मृधे ।
क्रुद्धयोर्वासिताहेतोर्वन्ययोर्गजयोरिव ॥

7.160.60

ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम् ।
मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयाऽन्वितः ॥

7.160.61

अश्वांश्च चतुरो भल्लैरनयद्यमसादनम् ।
सारथेश्च शिसः कायादहरच्छत्रुतापनः ॥

7.160.62

अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् ।
विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ॥

7.160.63

हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः ।
आरुरोह रथं तूर्णं कृपस्य शरपीडितः ॥

7.160.64

स नुन्नोऽर्जुनबाणौघैराचितः शल्यको यथा ।
जीवितार्थमभिप्रेप्सुः कृपस्य रथमारुहत् ॥

7.160.65

राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ ।
धनञ्जयशरैर्नुन्नाः प्राद्रवन्त दिशो दश ॥

7.160.66

द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप ।
निवर्तयामास तदा वाक्यमेतदुवाच ह ॥

7.160.67

अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः । एष पार्थवधायाहं स्वयं गच्छामि संयुगे ।
अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् ॥

7.160.68

अद्य मे युध्यमानस्य सह गाण्डीवधन्वना ।
द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये ॥

7.160.69

अद्य मद्बाणजालानि विमुक्तानि सहस्रशः ।
द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः ॥

7.160.70

अद्य बाणमयं वर्षं सृजतो मम धन्विनः ।
जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः ॥

7.160.71

जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः ।
तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् ॥

7.160.72

न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति ।
यथा वेलां समासाद्य सागरो मकरालयः ॥

7.160.73

इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः ।
फल्गुनं प्रतिदुर्धर्षः क्रोधात्संरक्तलोचनः ॥

7.160.74

तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा ।
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥

7.160.75

एष राजा महाबाहुरमर्षी क्रोधमूर्च्छितः ।
पतङ्गवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति ॥

7.160.76

यावन्नः पश्यमानानां प्राणान्पार्थेन सन्गतः ।
न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् ॥

7.160.77

यावत्फल्गुनबाणानां गोचरं नाद्य गच्छति ।
कौरवः पार्थिवो वीरस्तावद्वारय संयुगे ॥

7.160.78

यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसन्निभैः ।
न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् ॥

7.160.79

अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद ।
स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् ॥

7.160.80

दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना ।
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः ॥

7.160.81

मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः ।
दुर्योधनमिदं वाक्यं त्वरितः समभाषत ॥

7.160.82

मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि ।
मामनादृत्य कौरव्य तव नित्यं हितैषिणम् ॥

7.160.83

न हि सम्भ्रमः कार्यः पार्थस्य विजयं प्रति ।
अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन ॥
दुर्योधन उवाच ।

7.160.84

आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति ।
त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम् ॥

7.160.85

मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि ।
धर्मराजप्नियार्थं वा द्रौपद्या वा न विद्म तत् ॥

7.160.86

धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः ।
सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः ॥

7.160.87

को हि शस्त्रविदां मुख्यो महेश्वरसमो युधि ।
शत्रुं न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः ॥

7.160.88

अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान् ।
तवास्त्रगोचरे शक्ताः स्थातुं देवा न दानवाः ॥

7.160.89

पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान् ।
वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः ॥

7.160.90

एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः ।
मम सैन्येषु सङ्क्रुद्धा विचरन्ति दवाग्निवत् ॥

7.160.91

तान्वारय महाबाहो केकयांश्च नरोत्तम ।
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना ॥

7.160.92

अश्वत्थामंस्त्वरायुक्तो याहि शीघ्रमरिन्दम ।
आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष ॥

7.160.93

त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति ।
करिष्यसि जगत्सर्वमपाञ्चालं किलोद्यतः ॥

7.160.94

एवं सिद्धाऽब्रुवन्वाचो भविष्यति च तत्तथा ।
तस्मात्त्वं पुरुषव्याघ्र पाञ्चालाञ्जहि सानुगान् ॥

7.160.95

न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः ।
किमु पार्थाः सपाञ्चालाः सत्यमेतद्ब्रवीमि ते ॥

7.160.96

न त्वां समर्थाः सङ्ग्रामे पाण्डवाः सह सोमकैः ।
बलाद्योधयितुं वीर सत्यमेतद्ब्रवीमि ते ॥

7.160.97

गच्छगच्छ महाबाहो न नः कालात्ययो भवेत् ।
इयं हि द्रवते सेना पार्तसायकपीडिता ॥

7.160.98

शक्तो ह्यसि महाबाहो दिव्येन स्वेन तेजसा ।
निग्रहे पाण्डुपुत्राणां पाञ्चालानां च मानद ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc