भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.158

7.158.1

द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा ।
द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः ॥

7.158.2

युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः ।
युयुधानश्च संयत्ता युद्धायैव मनो दधुः ॥

7.158.3

सोमदत्तः पुनः क्रुद्धो दृष्ट्वा सात्यकिमाहवे ।
महता शरवर्षेण च्छादयामास भारत ॥

7.158.4

ततः समभवद्युद्धमतीव भयवर्धनम् ।
त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् ॥

7.158.5

तं दृष्ट्वा समुपायान्तं रुक्मपुङ्खैः शिलाशितैः ।
दशभिः सात्वतस्यार्थे भीमो विव्याध सायकैः ॥

7.158.6

सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत ।
सात्वतस्त्वभिसन्क्रुद्धः पुत्राधिभिरभिप्लुतम् ॥

7.158.7

वृद्धं वृद्धगुणैर्युक्तं ययातिमिव नाहुषम् । विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातनैः ।
शक्त्या चैनं विनिर्भिद्य पुनर्विव्याध सप्तभिः ॥

7.158.8

ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् ।
मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि ॥

7.158.9

सात्वतोऽप्यग्निसङ्काशं मुमोच शरमुत्तमम् ।
सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि ॥

7.158.10

युगपत्पेततुर्वीर घोरौ परिघमार्गणौ ।
शरीरे सोमदत्तस्य स पपात महारथः ॥

7.158.11

व्यामोहिते तुनये बाह्लीकस्तमुपाद्रवत् ।
विसृजञ्छरवर्षाणि कालवर्षीव तोयदः ॥

7.158.12

भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः ।
प्रातिपेयं महात्मानं विव्याध रणमूर्धनि ॥

7.158.13

प्रातिपेयस्तु सङ्क्रुद्धः शक्तिं भीमस्य वक्षसि ।
निचखान महाबाहुः पुरन्दर इवाशनिम् ॥

7.158.14

स तथाऽभिहतो भीमश्चकम्पे च मुमोह च ।
प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह ॥

7.158.15

सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत् ।
स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् ॥

7.158.16

तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभ ।
पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः ॥

7.158.17

नागदत्तो दृढरथो महाबाहुरयोभुजः ।
दृढः सुहस्तो विरजाः प्रमाथ्युग्रोऽनुयाय्यपि ॥

7.158.18

तान्दृष्ट्वा चुक्रुधे भीमो जगृहे भारसाधनान् ।
एकमेकं समुद्दिश्य पातयामास मर्मसु ॥

7.158.19

ते विद्धा व्यसवः पेतुः स्यन्दनेभ्यो हतौजसः ।
चण्डवातप्रभग्नास्तु पर्वताग्रान्महीरुहाः ॥

7.158.20

नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् ।
कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् ॥

7.158.21

ततो वृकरथो नाम भ्राता कर्णस्य विश्रुतः ।
जघान भीमं नाराचैस्तमप्यभ्यद्रवद्बली ॥

7.158.22

ततः सप्तरथान्वीरः श्यालानां तव भारत ।
निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् ॥

7.158.23

अमर्षयन्तो निहतं शतचन्द्रं महारथम् ।
शकुनेर्भ्रातरो वीरा गवाक्षः शरभो विभुः ॥

7.158.24

सुभगो भानुदत्तश्च शूराः पञ्च महारथाः ।
अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् ॥

7.158.25

स ताड्यमानो नाराचैर्वृष्टिवेगैरिवाचलः ।
जघान पञ्चभिर्बाणैः पञ्चैवातिरथान्बली ॥

7.158.26

तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः ॥

7.158.27

ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् ॥
मिषतः कुम्भयोनेस्तु पुत्राणां तव चानघ ॥

7.158.28

अम्बष्ठान्मालवाञ्छूरांस्त्रिगर्तान्सशिबीनपि ।
प्राहिणोन्मृत्युलोकाय क्रुद्धो युद्धे युधिष्ठिरः ॥

7.158.29

अभीषाहाञ्छूरसेनान्बाह्लीकान्सवसातिकान् ।
निहत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् ॥

7.158.30

यौधेयान्मालवान्राजन्मद्रकाणां गणान्युधि ।
प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः ॥

7.158.31

हताहरत गृह्णीत विध्यत व्यवकृन्तत ।
इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति ॥

7.158.32

सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् ।
चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् ॥

7.158.33

द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् ।
विव्याध सोऽपि तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् ॥

7.158.34

तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे । वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च ।
चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् ॥

7.158.35

क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः ।
जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् ॥

7.158.36

सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भवः ॥

7.158.37

प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत ।
जिघांसुर्धर्मतनयं तव पुत्रहिते रतः ॥

7.158.38

पतिः कुरूणां गजसिंहगामी विशालवक्षाः पृथुलोहिताक्षः ।
प्रादुश्चकारास्त्रमहीनतेजा माहेन्द्रमस्त्रं स जघान तेन ॥

7.158.39

विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः ।
युधिष्ठिरवधं प्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् ॥

7.158.40

ततो नाज्ञासिषं किञ्चिद्धोरेण तमसाऽवृते ।
सर्वभूतानि च परं त्रासं जग्मुर्महीपते ॥

7.158.41

ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः ।
ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत् ॥

7.158.42

ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ ।
द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ ॥

7.158.43

ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् ।
व्यधमत्क्रोधताम्राक्षो वायव्यास्त्रेण भारत ॥

7.158.44

ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् ।
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥

7.158.45

ततः किरीटी भीमश्च सहसा सन्न्यवर्तताम् ।
महद्ध्यां रथवंशाभ्यां परिगृह्य बलं तदा ॥

7.158.46

बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः ।
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ॥

7.158.47

केकयाः सृञ्जयाश्चैव पाञ्चालाश्च महौजसः ।
अन्वगच्छन्महाराज मात्स्याश्च सह सात्वतैः ॥

7.158.48

ततः सा भारती सेना वध्यमाना किरीटिना ।
तमसा निद्रया चैव पुनरेव व्यदीर्यत ॥

7.158.49

द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ।
नाशक्यन्त महाराज योधा वारयितुं तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc