भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.152

7.152.1

सिन्धुराजे हते तात समरे सव्यसाचिना ।
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा ॥

7.152.2

दुर्योधनेन च द्रोणस्तथोक्तः कुरसंसदि ।
किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।

7.152.3

निष्टानको महानासीत्सैन्यानां तव भारत ।
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च ॥

7.152.4

मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे ।
येन मन्त्रैण निहताः शतशः क्षत्रियर्षभाः ॥

7.152.5

द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः ।
मुहूर्तमिव च ध्यात्वा भृशमार्तोऽभ्यभाषत ॥
द्रोण उवाच ।

7.152.6

दुर्योधन किमेवं मां वाक्शरैरुपकृन्तसि ।
अजय्यं सततं सङ्ख्ये ब्रुवाणं सव्यसाचिनम् ॥

7.152.7

एतेनवार्जुनं ज्ञातुमलं कौरव संयुगे ।
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना ॥

7.152.8

अवध्यं निहतं दृष्ट्वा संयुगे देवदानवैः ।
तदैवाज्ञासिषमहं नेयमस्तीति भारती ॥

7.152.9

यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्म हि ।
तस्मिन्निपतिते भीष्मे कं शेषं पर्युपास्महे ॥

7.152.10

यान्स्म तान्ग्लहते तात शकुनिः कुरुसंसदि । अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः ।

7.152.11

अक्षांस्तु मन्यसे बाणाञ्छोभमानाञ्छिताञ्शरान् त एते घ्नन्ति नस्तात विशिखाः पार्थचोदिताः ।
तांस्तदाऽख्यायमानस्त्वं विदुरेण न बुद्धवान् ॥

7.152.12

यास्ता विलपतश्चापि विदुरस्य महात्मनः ।
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः ॥

7.152.13

तदिदं वर्तते घोरमागतं वैशसं महत् ।
तस्यावमानाद्वाक्यस्य दुःशासनकृतेन च ॥

7.152.14

योऽवमन्य वचः पथ्यं सुहृदामाप्तकारिणाम् ।
स्वमतं कुरुते मूढः स शोच्यो नचिरादिव ॥

7.152.15

यच्च नः प्रेक्षमाणानां कृष्णामानाय्य तत्सभाम् ।
अनर्हन्तीं कुले जातां सर्वधर्मानुचारिणीम् ॥

7.152.16

तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं महत् ।
नोचेत्पापं परे लोके त्वमृच्छेथास्ततोऽधिकम् ॥

7.152.17

यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह ।
प्राव्राजयस्तदाऽरण्ये रौरवाजिनवाससः ॥

7.152.18

पुत्राणामिव चैतेषां धर्ममाचरतां सदा ।
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः ॥

7.152.19

पाण्डवानामयं कोपस्त्वया शकुनिना सह ।
आहृतो धृतराष्ट्रस्य सम्मते कुरु संसदि ॥

7.152.20

दुःशासनेन संयुक्तः कर्णेन परिवर्धितः ।
क्षत्तुर्वाक्यमनादृत्य त्वयाऽब्यस्तः पुनः पुनः ॥

7.152.21

स हि नः क्रोधवृक्षश्च कृतमूलो महात्मनाम् ।
तस्य पुष्पफले राजन्नुपभुङ्क्ष्व महाबल ॥

7.152.22

यत्ताः सर्वे पराभूताः पर्यवारयतार्जुनम् ।
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः ॥

7.152.23

कथं त्वयि च कर्णे च कृपे शल्ये च जीवति ।
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् ॥

7.152.24

युध्यन्तः सर्वराजानस्तेजस्विन उपासते ।
सिन्धुराजं परित्रातुं वो मध्ये कथं हतः ॥

7.152.25

मय्येव हि विशेषेण तथा दुर्योधन त्वयि ।
आशंसत परित्राणमर्जुनात्स महीपतिः ॥

7.152.26

ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात् ।
न किञ्चिदनुपश्यामि जीवितस्थानमात्मनः ॥

7.152.27

मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य संयुगे ।
पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना ॥

7.152.28

तन्मां किमभितप्यन्तं वाक्शरैरेव कृन्तसि ।
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत ॥

7.152.29

सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः ।
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् ॥

7.152.30

मध्ये महारथानां किं शेषं तत्र मन्यसे ।
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे ॥

7.152.31

कृप एव च दुर्धर्षो यदि जीवति पार्थिव ।
यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् ॥

7.152.32

यत्रापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै ।
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् ॥

7.152.33

अवध्यकल्पं सङ्ग्रामे देवैरपि सवासवैः ।
न ते वसुन्धराऽस्तीति तदाहं चिन्तये नृप ॥

7.152.34

इमानि पाण्डवानां च सृज्जयानां च भारत ।
अनीकान्याद्रवन्ते मां सहितान्यद्य भारत ॥

7.152.35

नाहत्वा सर्वपाञ्चलान्कवचस्य विमोक्षणम् ।
कर्ताऽस्मि समरे कर्म धार्तराष्ट्र हितं तव ॥

7.152.36

राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे ।
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता ॥

7.152.37

यच्च पित्राऽनुशिष्टोऽसि तद्वचः परिपालय ।
आनृशंस्ये दमे सत्ये चार्जवे च स्थिरो भव ॥

7.152.38

धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन् ।
धर्मप्रधानकार्याणि कुर्याश्चेति पुनः पुनः ॥

7.152.39

चक्षुर्मनोभ्यां सन्तोष्या विप्राः पूज्याश्च शक्तितः ।
न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः ॥

7.152.40

एष त्वहमनीकानि प्रविशाम्यरिसूदन ।
रणाय महते राजंस्त्वया वाक्शरपीडितः ॥

7.152.41

त्वं च दुर्योधन बलं यदि शक्तोऽसि पालय ।
रात्रावपि च योद्धव्याः संरब्धाः कुरुसृञ्जयाः ॥

7.152.42

एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्वसृञ्जयान् ।
मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc