भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.130

7.130.1

तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते । सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् ।
त्वरन्नेकरथेनैव बहु कृत्यं विचिन्तयन् ॥

7.130.2

स रथस्तव पुत्रस्य त्वरया परया युतः ।
तूर्णमभ्यद्रवद्द्रोणं मनोमारुतवेगवान् ॥

7.130.3

इह दृष्ट इतो नष्टः सरथः प्राद्रवन्नृपः । मुहूर्तादिव पुत्रस्ते द्रोणमासाद्य मारिष ।
ससम्भ्रमामिदं वाक्यमब्रवीत्कुरनन्दनः ॥

7.130.4

अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः ।
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः ॥

7.130.5

सम्प्राप्ताः सिन्धुराजस्य समीपमनिवारिताः ।
व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ॥

7.130.6

यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः ।
कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ॥

7.130.7

आश्चर्यभूतो लोकेऽस्मिन्समुद्रस्येव शोषणम् । निर्जयस्तव विप्राग्र्य सात्वतेनार्जुनेन च ।
तथैव भीमसेनेन लोकः संवदते भृशम् ॥

7.130.8

कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः ।
इत्येवं ब्रुवते योधा अश्रद्धेयमिदं तव ॥

7.130.9

नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे ।
यत्र त्वां पुरुषव्याघ्रं व्यतिक्रान्तास्त्रयो रथाः ॥
द्रोण उवाच ।

7.130.10

एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम् ।
यद्गतं गतमेवेदं शेषं चिन्तय मानद ॥
दुर्योधन उवाच ।

7.130.11

यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् ।
तत्संविधीयतां क्षिप्रं साधु सञ्चिन्त्य नो द्विज ॥
द्रोण उवाच ।

7.130.12

चिन्त्यं बहुविधं तात यत्कृत्यं तच्छृणुष्व मे ।
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ॥

7.130.13

यावत्तेषां भयं पश्चात्तावदेषां पुरःसरम् ।
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ ॥

7.130.14

सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः ।
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् ॥

7.130.15

स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् ।
गतौ च सैन्धवं भीमौ युयुधानवृकोदरौ ॥

7.130.16

सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् । न सभायां जयो वृत्तो नापि तत्र पराजयः ।
इह नो ग्लहमानानामद्य तावज्जयाजयौ ॥

7.130.17

यान्स्म तान्ग्लहते घोराञ्छकुनिः कुरुसंसदि ।
अक्षान्स मन्यमानः प्राक्शरास्ते हि दुरासदाः ॥

7.130.18

यत्र ते बहवस्तात कौरवेया व्यवस्थिताः । सेन्नां दुरोदरं विद्धि शरानक्षान्विशाम्पते ।
ग्लहं च सैन्धवं राजंस्तत्र द्यूतस्य निश्चयः ॥

7.130.19

सैन्धवे तु महद्द्यून्त समासक्तं परैः सह ।
अत्र ते ध्रुवमायत्तो जयो वाऽजय एव वा ॥

7.130.20

अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः । सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ ।
तत्र नो ग्लहमानानां ध्रुवौ जयपराजयौ ॥

7.130.21

यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् ।
तत्र गच्छ स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥

7.130.22

इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् ।
निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ॥
सञ्जय उवाच ।

7.130.23

ततो दुर्योधनोऽगच्छत्तूर्णमाचार्यशासनात् ।
उद्यम्यात्मानमुग्राय कर्मणे स पदानुगः ॥

7.130.24

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ।
बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥

7.130.25

यौ तु पूर्वं महाराज वारितौ कृतवर्मणा ।
प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ॥

7.130.26

पार्श्वे भित्त्वा चमूं वीरौ प्रविष्टौ तव वाहिनीम् ।
पार्श्वेन सैन्यमायान्तौ कुरुराजो ददर्श ह ॥

7.130.27

ताभ्यां दुर्योधनः सार्धमकरोत्सङ्ख्यमुत्तमम् ।
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥

7.130.28

तावेनमभ्यद्रवतामुभावुद्यतकार्मुकौ ।
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥

7.130.29

तमविध्यद्युधामन्युस्त्रिंशता कङ्कपत्रिभिः ।
विंशत्या सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥

7.130.30

दुर्योधनो युधामन्योर्ध्वजमेकेषुणाऽच्छिनत् ।
एकेन कार्मुकं चास्य चकर्त तनयस्तव ॥

7.130.31

सारथिं चास्य भल्लेन रथनीडादपाहरत् ।
ततोऽविध्यच्छरैस्तीक्ष्णैश्चतुर्भिश्चतुरो हयान् ॥

7.130.32

युधामन्युश्च सङ्क्रुद्धः सरांस्त्रिंशतमाहवे ।
व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥

7.130.33

तथोत्तमौजाः सङ्क्रुद्धः शरैर्हेमविभूषितैः ।
अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम् ॥

7.130.34

दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्यौत्तमौजसः ।
जघान चतुरोऽस्याश्चानुभौ तौ पार्ष्णिसारथी ॥

7.130.35

उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे ।
आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥

7.130.36

स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः ।
बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥

7.130.37

हयेषु पतितेष्वस्य चिच्छेद परमेषुणा । युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे ।
अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम् ॥

7.130.38

हताश्वसूतात्सरथादवतीर्य नराधिपः ।
गदामादाय ते पुत्रः पाञ्चल्यावभ्यधावत ॥

7.130.39

तमापतन्तं सम्प्रेक्ष्य क्रुद्धं कुरुपतिं तदा ।
अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ॥

7.130.40

ततः स हेमचित्रं तं गदया स्यन्दनं गती ।
सङ्क्रुद्धः पोथयामास साश्वसूतध्वजं नृप ॥

7.130.41

एतदीदृशकं पुत्रस्तवाकार्षीज्जनाधिप ।
गदया गदिनां श्रेष्ठः सर्वलोकमहारथः ॥

7.130.42

भङ्क्त्वा रथं स पुत्रस्ते हताश्वो हतसारथिः ।
मद्रराजरथं तूर्णमारुरोह परन्तपः ॥

7.130.43

पाञ्चालानां ततो मुख्यौ राजपुत्रौ महारथौ ।
रथावन्यौ समारुह्य बीभत्सुमभिजग्मुतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc