भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.128

7.128.1

समुत्तीर्णं रथानीकं पाण्डवं विहसन्रणे ।
विवारयिषुराचार्यः शरवर्षैरवाकिरत् ॥

7.128.2

पिबन्निव शरौघांस्तान्द्रोणचापपरिच्युतान् ।
सोऽभ्यद्रवत सोदर्यान्मोहयन्बलमायया ॥

7.128.3

तं मृधे वेगमास्थाय परं परमधन्विनः ।
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥

7.128.4

स तैस्तु संवृतो भीमः क्रोधेन प्रदहन्निव । उद्यच्छन्स गदां तेभ्यः सुघोरां सिंहवन्नदन् ।
अवासृजच्च वेगेन शत्रुपक्षविनाशिनीम् ॥

7.128.5

इन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना ।
प्रामथ्नात्सा महाराज सैनिकांस्तव संयुगे ॥

7.128.6

घोषेण महता राजन्पूरयन्तीव मेदिनीम् ।
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ॥

7.128.7

तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् ।
प्राद्रवंस्तावकाः सर्वे नदन्तो बैरवान्रवान् ॥

7.128.8

सिंहनादमसह्यं हि श्रुत्वा भीमस्य संयुगे ।
प्रापतन्मुनुजास्त्रस्ता रथेभ्यो रथिनस्तदा ॥

7.128.9

ते हन्यमाना भीमेन गदाहस्तेन तावकाः ।
प्राद्रवन्त रणे भीता व्याघ्रघ्राता मृगा इव ॥

7.128.10

स तान्विद्राव्य कौन्तेयः सङ्ख्येऽमित्रान्दुरासदान् ।
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥

7.128.11

तथा तु विप्रकुर्वाणं रथयूथपयूथपम् ।
भारद्वाजो महाराज भीमसेनं समभ्ययात् ॥

7.128.12

भीमं तु समरे द्रोणो वारयित्वा शरोर्मिभिः ।
अकरोत्सहसा नादं षाण्डूनां भयमादधत् ॥

7.128.13

तद्युद्धमासीत्सुमहद्धोरं देवासुरोपमम् ।
द्रोणस्य च महाराज भीमस्य च महात्मनः ॥

7.128.14

यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः ।
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥

7.128.15

ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः ।
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ॥

7.128.16

अंसे शिरो भीमसेनः करौ कृत्वोरसि स्थिरौ ।
वेगमास्थाय बलवान्मनोनिलगरुत्मताम् ॥

7.128.17

यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया ।
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥

7.128.18

स वध्यमानः समरे रथं द्रोणस्य मारिष ।
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥

7.128.19

द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे । ददृशे तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः ।
परिहृत्य रथं द्रोणश्चूर्णितं तं महीतले ॥

7.128.20

रथमन्यं समारुह्य व्यूहद्वारं ययौ पुनः ।
तमायान्तं तथा दृष्ट्वा भग्नोत्साहं गुरुं तदा ॥

7.128.21

गत्वा वेगात्पुनर्भीमो धुरं गृह्य रथस्य तु ।
तमप्यतिरथं भीमश्चिक्षेप भृशरोषितः ॥

7.128.22

एवमष्टौ रथाः क्षिप्ता भीमसेनेन लीलया ॥

7.128.23

व्यदृश्यत निमेषेण पुनः स्वरथमास्थितः ।
दृश्यते तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः ॥

7.128.24

तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् ।
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ॥

7.128.25

ततः स्वरथमास्थाय भीमसेनो महाबलः ।
अभ्यद्रवत वेगेन तव पुत्रस्य वाहिनीम् ॥

7.128.26

स मृद्गन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः ।
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ॥

7.128.27

भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् ।
प्रमथ्य तरसा वीरस्तदप्यतिबलोऽभ्ययात् ॥

7.128.28

सन्त्रासयन्ननीकानि तलशब्देन पाण्डवः ।
अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ॥

7.128.29

भोजानीकमतिक्रम्य दरदानां च वाहिनीम् ।
तथा म्लेच्छगणानन्यान्बहून्युद्धविशारदान् ॥

7.128.30

सात्यकिं चैव सम्प्रेक्ष्य युध्यमानं महारथम् ।
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥

7.128.31

भीमसेनो महाराज द्रष्टुकामो धनञ्जयम् ।
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ॥

7.128.32

सोऽपश्यदर्जुनं तत्र युध्यमानं महारथम् ।
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥

7.128.33

तं दृष्ट्वा पुरुषव्याघ्रश्चुक्रोश महतो रवान् ।
प्रावृट््काले महाराज नर्दन्निव बलाहकः ॥

7.128.34

तं तस्य निनदं घोरं पार्थः शुश्राव नर्दतः ।
वासुदेवश्च कौरव्य भीमसेनस्य संयुगे ॥

7.128.35

तौ श्रुत्वा युगपद्वीरौ निनदं तस्य शुष्मिणः ।
पुनः पुनः प्राणदतां दिदृक्षन्तौ वृकोदरम् ॥

7.128.36

ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह ।
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥

7.128.37

भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः ।
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥

7.128.38

विशोकश्चाभवद्राजा श्रुत्वा तं निनदं तयोः ।
धनञ्जयस्य समरे जयमाशास्तवान्विभिः ॥

7.128.39

तथा तु नर्दमाने वै भीमसेने मदोत्कटे ।
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥

7.128.40

हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः ।
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥

7.128.41

न हि तेषां जयो युद्धे येषां द्वेष्टाऽसि पाण्डव ।
दिष्ट्या जीवति सङ्ग्रमे सव्यसाची धनञ्जयः ॥

7.128.42

दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः ।
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ ॥

7.128.43

येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः ।
स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः ॥

7.128.44

यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः ।
स हन्ता रि पुसैन्यानां दिष्ट्या जीवति फल्गुनः ॥

7.128.45

निवातकवचा येन देवैरपि सुदुर्जयाः ।
निर्जिता धनुषैकेन दिष्ट्या पार्थः स जीवति ॥

7.128.46

कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् ।
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥

7.128.47

कालकेयसहस्राणि चतुर्दश महारणे ।
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥

7.128.48

गन्धर्वराजं बलिनं दुर्योधनकृते च वै ।
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥

7.128.49

किरीटमाली बलवाञ्छेताश्वः कृष्णसारथिः ।
मम प्रियश्च सततं दिष्ट्या पार्थः स जीवति ॥

7.128.50

पुत्रशोकाभिसन्तप्तश्चिकीर्षन्कर्म दुष्करम् । जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः ।
कच्चित्स सैन्धवं सङ्ख्ये हनिष्यति धनञ्जयः ॥

7.128.51

कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् ।
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ॥

7.128.52

कच्चित्सैन्धवको राजा दुर्योधनहिते रतः ।
नन्दयिष्यत्यमित्रान्हि फल्गुनेन निपातितः ॥

7.128.53

कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् ।
दृष्ट्वा सैन्धवकं सङ्ख्ये शममस्मासु धास्यति ॥

7.128.54

दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे ।
कच्चिद्दुर्योधनो मन्दः शममस्मासु यास्यति ॥

7.128.55

दृष्ट्वा चान्यान्महायोधान्पातितान्धरणीतले ।
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं गमिष्यति ॥

7.128.56

शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः ॥ एवं बहुविधं तस्य राज्ञश्चिन्तयतस्तदा ।

7.128.57

कृपयाऽभिपरीतस्य घोरं युद्धमवर्तत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc