भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.126

7.126.1

व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः ।
सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः ॥

7.126.2

वर्तमाने तथा रौद्रे सङ्ग्रामे रोमहर्षणे ।
सङ्क्षये जगतस्तीव्रे युगान्त इव भारत ॥

7.126.3

द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः ।
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ॥

7.126.4

नापश्यच्छरणं कञ्चिद्वर्मराजो युधिष्ठिरः ।
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ॥

7.126.5

ततो विक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया ।
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ॥

7.126.6

सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् ।
गाण़्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः ॥

7.126.7

अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् । चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः ।
नाध्यगच्छत्तदा शान्ति तावपश्यन्नरोत्तमौ ॥

7.126.8

लोकोपक्रोशभीरुत्वाद्वर्मराजो महामनाः ।
अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ॥

7.126.9

पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे ।
शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः ॥

7.126.10

तदिदं ह्येकमेवासीद्द्द्विधा जातं ममाऽद्य वै ।
सात्यकिश्च हि विज्ञेयः पाण्डवश्च धनञ्जयः ॥

7.126.11

सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् ।
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ॥

7.126.12

परिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि ।
युयुधानमनन्विष्य लोको मां गर्हयिष्यति ॥

7.126.13

भ्रातुरन्वेषणं कृत्वा धर्मपुत्रो युधिष्ठिरः ।
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥

7.126.14

लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् ।
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः ॥

7.126.15

यथैव च मम प्रीतिरर्जुने शत्रुमूदने ।
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ॥

7.126.16

अतिभारे नियुक्तश्च मया शैनेयनन्दनः । स तु मित्रोपरोधेन गौरवात्तु महाबलः ।
प्रविष्टो भारतीं सेनां मकरः सागरं यथा ॥

7.126.17

असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् ।
मिथः संयुध्यमानानं वृष्णिवीरेण धीमता ॥

7.126.18

प्राप्तकालं सुबलवन्निश्चितं बहुधा हि मे । तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः ।
गमनं रोचते मह्यं यत्र यातौ महारथौ ॥

7.126.19

न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चिन ॥

7.126.20

शक्तो ह्येष रणे यत्तः पृथिव्यां सर्वधन्विनाम् ।
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ॥

7.126.21

यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः ।
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ॥

7.126.22

इतो गते भीमसेने सात्वतं प्रति पाण़्डवे ।
सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ ॥

7.126.23

कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ ।
रक्षितौ वासुदेवेन स्वयं शस्त्रविशारदौ ॥

7.126.24

अवश्यं तु मया कार्यमात्मनः शोकनाशनम् ।
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ॥

7.126.25

ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ॥ एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः ।

7.126.26

यन्तारमब्रवीद्राजा भीमं प्रति नयस्व माम् ॥

7.126.27

धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः ।
रथं हेमपरिष्कारं भीमान्तिकमुपानयत् ॥

7.126.28

भीमसेनमनुज्ञाप्य प्राप्तकालमचिन्तयत् ।
कश्मलं प्राविशद्राजा बहु तत्र समादिशत् ॥

7.126.29

स कश्मलसमाविष्टो भीममाहूय पार्थिवः । अब्रवीद्वचनं राजन्कुन्तीपुत्रो युधिष्ठिरः ।

7.126.30

अब्रवीद्वचनं राजन्कुन्तीपुत्रो युधिष्ठिरः ॥ यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत् ।

7.126.31

तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ॥
सञ्जय उवाच ।
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् ।
नैवाद्राक्षं नचाश्रौषं तव कश्मलमीदृशम् ॥

7.126.32

पुरातिदुःखदीर्णानां भवान्गतिरभूद्धि नः ।
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ॥

7.126.33

न ह्यसाध्यमकार्यं वा विद्यते मम मानद ।
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः ॥
सञ्जय उवाच ।

7.126.34

तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् ।
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ॥

7.126.35

श्रूयते पाञ्चजन्यस्य यथा शङ्खस्य निस्वनः ।
पूरितो वासुदेवेन संरब्धेन यशस्विना ॥

7.126.36

नूनमद्य हतः शेते तव भ्राता धनञ्जयः ।
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः ॥

7.126.37

यस्य सत्ववतो वीर्यं ह्युपजीवन्ति पाण्डवाः ।
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः ॥

7.126.38

स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ।
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः ॥

7.126.39

श्यामो युवा गुडाकेशो दर्शनीयो महारथः ।
व्यूढोरस्को महाबाहुर्मत्तद्विरदविक्रमः ॥

7.126.40

चकोरनेत्रस्ताम्रास्यो द्विषतां भयवर्धनः ।
मम प्रियहितार्थं च शक्रलोकादिहागतः ॥

7.126.41

वृद्धोपसेवी धृतिमान्कृतज्ञः सत्यसङ्गरः ।
प्रविष्टो महतीं सेनामपर्यन्तां धनञ्जयः ॥

7.126.42

प्रविष्टे च चमूं घोरामर्जुने शत्रुनाशने ।
प्रेषितः सात्वतो वीरः फल्गुनस्य पदानुगः ॥

7.126.43

तस्याभिगमनं जाने भीम नावर्तनं पुनः ।
तदिदं मम भद्रं ते शोकस्थानमरिन्दम ॥

7.126.44

अर्जुनार्थे महाबाहो सात्वतस्य च कारणात् ।
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः ॥

7.126.45

तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ।
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् ॥

7.126.46

स तं महारथं पश्चादनुयातस्तवानुजम् ।
तमपश्यन्महाबाहुमदं विन्दामि कश्मलम् ॥

7.126.47

अथैनं पुनराचक्ष्व लोहिताक्षं सकेशवम् ।
दृष्ट्वा कुशलिनं पार्थं सैन्धवान्ते ससात्यकिम् ॥

7.126.48

संविदं मम कुर्यास्त्वं सिंहनादेन पाण्डव ॥

7.126.49

नूनं विनिहतः शूरः सव्यासाची परन्तप ।
पार्थे तस्मिन्हते चैव युध्यते गरुडध्वजः ॥

7.126.50

सहयो नास्य वै कश्चित्तेन विन्दामि कश्मलम् ।
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः ॥

7.126.51

न हि मे शुध्यते भावस्तयोरेव परन्तप ।
स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः ॥

7.126.52

सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे ।
वचनं मम धर्मज्ञ भ्राता ज्येष्ठो भवामि ते ॥

7.126.53

न मेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा ॥

7.126.54

चिकीर्षुर्मत्प्रियं पार्थ स यातः सव्यसाचिनः ।
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ॥

7.126.55

दृष्ट्वा कुशलिनौ कृष्णौ सात्वतं चैव सात्यकिम् ।
संविदं चैव कुर्यास्त्वं सिंहनादेन पाण़्डव ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc