भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.123

7.123.1

ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत् ।
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥

7.123.2

स विद्व्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः ।
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ॥

7.123.3

तं तु दुःशासनः शूरः सायकैरावृणोद्भृशम् ।
रथव्रातेन महता नानादेशोद्भवेन च ॥

7.123.4

सर्वतो भरतश्रेष्ठ विसृजन्सायकान्बहून् ।
पर्जन्य इव घोषेण नादयन्वै दिशो दश ॥

7.123.5

तमापतन्तमालोक्य सात्यकिः कौरवं रणे ।
अभिद्रुत्य महाबाहुश्छादयामास सायकैः ॥

7.123.6

ते छाद्यमाना बाणौघैर्दुःशासनपुरोगमाः ।
प्राद्रवन्समरे भीतास्तव सैन्यस्य पश्यतः ॥

7.123.7

तेषु द्रवत्सु राजेन्द्र पुत्रो दुःशानस्तव ।
तस्थौ व्यपेतभी राजन्सात्यकिं चार्दयच्छरैः ॥

7.123.8

चतुर्भिर्वाजिनस्तस्य सारथिं च त्रिभिः शरैः ।
सात्यकिं च शतेनाजौ विद्ध्वा नादं मुमोच सः ॥

7.123.9

ततः क्रुद्धो महाराज माधवस्तस्य संयुगे ।
रथं सूतं ध्वजं तं च चक्रेऽदृश्यमजिह्मगैः ॥

7.123.10

स तु दुःशासनं शूरं सायकैरावृणोद्भृशम् ।
मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया ॥

7.123.11

त्वरन्समावृणोद्बाणैर्दुःशासनममित्रजित् ॥ दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् ।

7.123.12

त्रिगर्तांश्चोदयामास युयुधानरथं प्रति ॥

7.123.13

तेऽगच्छन्युयुधानस्य समीपं क्रुरकर्मणः ।
त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ॥

7.123.14

ते तु तं रथवंशेन महता पर्यवारयन् ।
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ॥

7.123.15

तेषां प्रयतमानानां शरवर्षाणि मुञ्चताम् ।
योधान्पञ्चशतान्मुख्यानग्र्यानीके व्यपोथयत् ॥

7.123.16

तेऽपतन्निहतास्तूर्णं शिनिप्रवरसायकैः ।
महामारुतवेगेन भग्ना इव नगाद्द्रुमाः ॥

7.123.17

नागैश्च बहुधा च्छिन्नैर्ध्वजैश्चैव विशाम्पते ।
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी ॥

7.123.18

शैनेयशरसङ्कृत्तैः शोणितौघपरिप्लुतैः ।
अशोभत महाराज किंशुकैरिव पुष्पितैः ॥

7.123.19

ते वध्यमानाः समरे युयुधानेन तावकाः ।
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥

7.123.20

ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति ।
भयात्पतगराजस्य गर्तानीव महोरगाः ॥

7.123.21

हत्वा पञ्चशतान्योधाञ्छरैराशीविषोपमैः ।
प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति ॥

7.123.22

तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव ।
विव्याध नवभिस्तूर्णं शरैः सन्नतपर्वभिः ॥

7.123.23

स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः ।
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः ॥

7.123.24

सात्यकिं तु महाराज प्रहसन्निव भारत ।
दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥

7.123.25

शैनेयस्तव पुत्रं तु हत्वा पञ्चभिराशुगैः ।
धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ ॥

7.123.26

ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते ।
सर्वपारशवीं शक्तिं विससर्ज जिघांसया ॥

7.123.27

तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः ।
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः ॥

7.123.28

अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर ।
सात्यकिं च शरैर्विद्ध्वा सिंहनादं ननाद च ॥

7.123.29

सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव ।
शरैरग्निशिखाकारैराजघान स्तनान्तरे ॥

7.123.30

त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः ।
सर्वायसैस्तीक्ष्णवक्त्रैः पुनर्विव्याध चाष्टभिः ॥

7.123.31

दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत ।
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे ॥

7.123.32

त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः ।
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः ॥

7.123.33

सारथिं च सुराङ्क्रुद्धः शरैः सन्नतपर्वभिः ।
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः ॥

7.123.34

ध्वजं च रथशक्तिं च भल्लाभ्यां परमस्त्रिवित् ।
चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ॥

7.123.35

स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
त्रिगर्तसेनापतिना स्वरथेनापवाहितः ॥

7.123.36

तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत ।
न जघान महाबाहुर्भीमसेनवचः स्मरन् ॥

7.123.37

भीमसेनेन तु वधः सुतानां तव भारत ।
प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे ॥

7.123.38

ततो दुःशासनं जित्वा सात्यकिः संयुगे प्रभो ।
जगाम त्वरितो राजन्येन यातो धनञ्जयः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc