भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.120

7.120.1

जित्वा यवनकाम्भोजान्युयुधानस्ततोऽर्जुनम् ।
जगाम तव सैन्यस्य मध्येन रथिनां वरः ॥

7.120.2

शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः ।
मृगं व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ॥

7.120.3

स रथेन चरन्मार्गान्धनुरुद्धामयद्भृशम् ।
रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम् ॥

7.120.4

रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः ।
रुक्मध्वजधनुः शूरो मेरुशृङ्गमिवाबभौ ॥

7.120.5

सधनुर्मण्डलः सङ्ख्ये तेजोभासुररश्मिवान् ।
शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ॥

7.120.6

वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः ।
तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ॥

7.120.7

मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम् ।
प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ॥

7.120.8

व्याधा इव जिघांसन्तस्त्वदीयाः समुपाद्रवन् ।
सात्यकिं समरे राजन्परिवव्रुस्तवात्मजाः ॥

7.120.9

द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् ।
जलसन्धार्णवं तीर्त्वा काम्भोजानां च वाहिनीम् ॥

7.120.10

हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् ।
परिवव्रुः सुसङ्क्रुद्वास्त्वदीयाः सात्यकिं रथाः ॥

7.120.11

दुर्योधनश्चित्रसेनो दुःशासनविविंशती ।
शकुनिर्दुःसहश्चैव युवा दुर्धर्षणः क्रथः ॥

7.120.12

अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः ।
पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिणः ॥

7.120.13

अथ शब्दो महानासीत्तव सैन्यस्य मारिष ।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥

7.120.14

तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः ।
शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव ॥

7.120.15

इदमेति समुद्धूतं धार्तराष्ट्रबलं महत् । मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् ।
नादयद्वै दिशः सर्वा रथघोषेण सारथे ॥

7.120.16

पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि । एतद्बलार्णवं सूत वारयिष्ये महारणे ।
पौर्णमास्यामिवोद्धूतं वेलेव मकरालयम् ॥

7.120.17

पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे ।
एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ॥

7.120.18

निहतानाहवे पश्य पदात्यश्वरथद्विपान् ।
मच्छरैरग्निसङ्काशैर्विद्धदेहान्सहस्रशः ॥

7.120.19

इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः । समीपे सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः ।
जह्याद्रवस्व तिष्ठेति पश्यपश्येति वादिनः ॥

7.120.20

तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः । जघानं त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् ।
लध्वस्त्रश्चित्रयोधी च प्रहरञ्शिनिपुङ्गवः ॥

7.120.21

स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् ।
देवासुररणप्रख्यः प्रावर्तत जनक्षयः ॥

7.120.22

मेघजालनिभं सैन्यं तव पुत्रस्य मारिष ।
प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ॥

7.120.23

प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् ।
असम्भ्रमन्महाराज तावकानवधीद्बहून् ॥

7.120.24

आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् ।
न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो ॥

7.120.25

रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः ।
शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः ॥

7.120.26

सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः । तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः ।
बभ्राम तत्रतत्रैव गावः शीतार्दिता इव ॥

7.120.27

पदातिनं रथं नागं सादिनं तुरगं तथा ।
अविद्वं तत्र नाद्राक्षं युयुधानस्य सायकैः ॥

7.120.28

न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः ।
यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप ॥

7.120.29

अत्यर्जुनं शिनेः पौत्रो युध्यते पुरुषर्षभः ।
वीतभीर्लाघवोपेतः कृतित्वं सम्प्रदर्शयन् ॥

7.120.30

ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः ।
विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ॥

7.120.31

सात्यकिं च त्रिभिर्विद्व्वा पुनरष्टाभिरेव च ।
दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् ॥

7.120.32

शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः ।
दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ॥

7.120.33

उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः ।
तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ॥

7.120.34

गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः ।
शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः ॥

7.120.35

सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च ।
दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥

7.120.36

चित्रसेनं शतेनैव दशभिर्दुःसहं तथा ।
दुःशासनं तु विंशत्या विव्याध शिनिपुङ्गवः ॥

7.120.37

अथान्यद्धनुरादाय श्यालस्तव विशाम्पते ।
अष्टाभिः सात्यकिं विद्व्वा पुनर्विव्याध पञ्चभिः ॥

7.120.38

दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः ।
दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ॥

7.120.39

दुर्योधनस्त्रिसप्तत्या किद्व्वा भारत माधवम् ।
ततोस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ॥

7.120.40

तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् ।
पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ॥

7.120.41

ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् ।
आजघानाशु भल्लेन स हतो न्यपतद्भुवि ॥

7.120.42

पतिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो ।
वातायमानैस्तैरश्वैरपानीयत सङ्गरात् ॥

7.120.43

ततस्तव सुतो राजन्सैनिकाश्च विशाम्पते ।
राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ॥

7.120.44

विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः ।
अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ॥

7.120.45

विद्राव्य सर्वसैन्यानि तावकानि सहस्रशः ।
प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ॥

7.120.46

तं प्रयान्तं महाबाहुं तावकाः प्रेक्ष्य मारिष ।
दृष्टं चादृष्टवत्कृत्वा क्रियामन्यामयोजयन् ॥

7.120.47

तं शरानाददानं च रक्षमाणं च सारथिम् ।
आत्मानं पालयानं च तावकाः समपूजयन् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc