भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.12

7.12.1

शुश्रूषस्व स्थिरो भूत्वां शंसतो मम भारत । हन्त ते कथयिष्यामि सर्वं प्रत्यक्षदर्शिवान् ।
यथा सत्यपरो द्रोणः सादिताः पाण्डुसृञ्जयैः ॥

7.12.2

सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः ।
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् ॥

7.12.3

यत्कौरवाणामृषभादापगेयादनन्तरम् ।
सैनापत्ये त्वया राजन्नद्य सत्कृतवानहम् ॥

7.12.4

सदृशं कर्मणस्तस्य फलं प्राप्नुहि भारत ।
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ॥
सञ्जय उवाच ।

7.12.5

ततो दुर्योधनो राजा कर्णदुःशासनादिभिः ।
सम्मन्त्र्योवाच दुर्धर्षमाचार्यं जयतां वरम् ॥

7.12.6

ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् ।
गृहीत्वा रयिनां श्रेष्ठं मत्समीपमिहानय ॥

7.12.7

इच्छेयं वै महात्मानं धर्मात्मानं युधिष्ठिरम् ।
भ्रातृणां पश्यतामेव जीवग्राहेण मे द्विज ॥

7.12.8

गृहीत्वा रथिनां श्रेष्ठं मत्सकाशमिहानय ।
प्रीणाम्यनेन कार्येण ससुहृज्जनबान्धवः ॥
सञ्जय उवाच ।

7.12.9

ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः ।
सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् ॥

7.12.10

धन्यः कुन्तीसुतो राजन्यस्य ग्रहणमिच्छसि ।
न वधं तस्य दुर्धर्ष वरमद्य प्रयाचसे ॥

7.12.11

किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसे ।
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् ॥

7.12.12

आहोस्विद्धर्मराजस्य द्वेष्टा कश्चिन्न विद्यते ।
यदीच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनः ॥

7.12.13

अथवा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् ।
राज्यांशं प्रति दत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ॥

7.12.14

धन्यः कुन्तीसुतो राजा सुजातं चास्य धीमतः ।
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ॥
सञ्जय उवाच ।

7.12.15

द्रोणेन चैवमुक्तस्य तव पुत्रस्य भारत ।
सहसा निःसृतो भावो योस्य नित्यं हृदि स्थितः ॥

7.12.16

नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि ।
तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् ॥

7.12.17

वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम ।
हते युधिष्ठिरे पार्था हन्युःसर्वान्हि नो ध्रुवम् ॥

7.12.18

नैव शक्या रणे सर्वे निहन्तुममरैरपि ।
यदि सर्वे हनिष्यन्ते पाण्डवाः ससुता मृधे ॥

7.12.19

ततः कृत्स्नं वशे कृत्वा निःशेषं नृपमण्डलम् ।
ससागरवनां स्फीतां विजित्य वसुधामिमाम् ॥

7.12.20

विष्णुर्दास्यति कृष्णायै कुन्त्यै वा पुरुषोत्तमः ।
यद्येष चैषां शेषःस्यात्स एवास्मान्न शेषयेत् ॥

7.12.21

सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते । तस्मिञ्जीवति चायाते ह्युपायैर्बहुभिः कृतैः ।
पुनर्यास्यन्त्यरण्याय पाण्डवास्तमनुव्रताः ॥

7.12.22

सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति ।
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ॥
सञ्जय उवाच ।

7.12.23

तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् ।
तं वरं सान्तरं तस्मै ददौ सञ्चिन्त्य बुद्धिमान् ॥
द्रोण उवाच ।

7.12.24

न चेद्युधिष्ठिरं वीरः पालयेदर्जुनो युधि ।
मन्यस्व पाण्डवश्रेष्ठमानीतं वशमात्मनः ॥

7.12.25

न हि शक्यो रणे पार्थः सेन्द्रैर्देवासुरैरपि ।
प्रत्युद्यातुमतस्तात न तस्माद्धर्षयाम्यहम् ॥

7.12.26

असंशयं स मे शिष्यो मत्पूर्वश्चास्त्रकर्मणि ।
तरुणः सुकृती युक्त एकायनगतश्च सः ॥

7.12.27

अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् ।
अमर्षितश्च ते राजंस्ततो नामर्षयाम्यहम् ॥

7.12.28

स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते ।
अपनीते ततः पार्थे धर्मराजो जितस्त्वया ॥

7.12.29

ग्रहणे हि जयस्तस्य न वधे पुरुषर्षभ । ग्रहणं हि वधात्तस्य धर्मराजस्य मन्यसे ।
अनेनैवाभ्युपायेन ग्रहणं समुपैष्यसि ॥

7.12.30

अहं गृहीत्वा राजानं सत्यधर्मपरायणम् ।
आनयिष्यामि ते राजन्वशमद्य न संशयः ॥

7.12.31

यदि स्यास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः ।
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये ॥

7.12.32

फल्गुनस्य समीपे तु न हि शक्यो युधिष्ठिरः ।
ग्रहीतुं समरे राजन्सेन्द्रैरपि सुरासुरैः ॥
सञ्जय उवाच ।

7.12.33

एवमुक्ते तदा तस्मिन्युद्धे देवासुरोपमे । सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे ।
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ॥

7.12.34

ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् । स्कन्धावारेषु सर्वेषु यथास्थानेषु मारिष ।
सैन्यस्थानेषु सर्वेषु सुघोषितमरिन्दम ॥

7.12.35

पाण्डवेयेषु सापेक्षं द्रोणं जानाति ते सुतः ।
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc