भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.112

7.112.1

धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः ।
स पार्थाद्भयमाशंसन्परित्यागान्महीपतेः ॥

7.112.2

अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः ।
न मां भीतमिति ब्रूयात्प्रयान्तं फल्गुनं प्रति ॥

7.112.3

निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः ।
नातिव्यक्तमिवाभाष्य धर्मराजं महायशाः ॥

7.112.4

शोकगद्गदया वाचा शोकोपहतचेतनः ।
यथेदानीमिति ध्यात्वा धर्मराजमथाब्रवीत् ॥

7.112.5

कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशाम्पते ।
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ॥

7.112.6

न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते ।
यो मे प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते ॥

7.112.7

तस्याहं पदवीं यास्ये सन्देशात्तव मानद ।
त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन ॥

7.112.8

यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर ।
तथा तवापि वचनं विशिष्टतरमेव मे ॥

7.112.9

प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ ।
तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव ॥

7.112.10

तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो ।
भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरपुङ्गव ॥

7.112.11

द्रणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् ।
तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः ॥

7.112.12

यत्र सेनान्तमाश्रित्य भीतस्तिष्ठति पाण्डवात् ।
गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः ॥

7.112.13

इतिस्त्रियोजनं मन्ये तमध्वानं विशाम्पते ।
यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ॥

7.112.14

त्रियोजनगतस्यापि तस्य यास्याभ्यहं पदम् ।
आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना ॥

7.112.15

अनादिष्टस्तु गुरुणा को नु युध्येत मानवः ।
आदिष्टस्तु यथा राजन्को न युध्येत मादृशः ॥

7.112.16

अभिजानामि तं देशमितः पूर्णं त्रियोजनम् ।
यत्र तिष्ठति राजाऽसौ सैन्धवो बालघातकः ॥

7.112.17

सागरप्रतिमं सैन्यं गर्जन्तमिव सागरम् । हलशक्तिगदाप्रासचर्मखङ्गर्ष्टितोमरम् ।
इष्वस्त्रवरसम्बाधं क्षोभयित्वा व्रजाम्यहम् ॥

7.112.18

यदेतत्कुञ्जरानीकं सहस्रमनुपश्यसि ।
कुलमाञ्जनकं नाम यत्रैते वीर्यशालिनः ॥

7.112.19

आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः ।
नागा नगनिभा राजन्क्षरन्त इव तोयदाः ॥

7.112.20

नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः ।
अन्यत्र हि वधादेषां नास्ति राजन्पराजयः ॥

7.112.21

अथ यान्रथिनो राजन्सहस्रमनुपश्यसि ।
एते रुक्मरथा नाम राजपुत्रा महारथाः ॥

7.112.22

रथेष्वस्त्रेषु निपुणा नागेषु च विशाम्पते ।
धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः ॥

7.112.23

गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा ।
खङ्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः ॥

7.112.24

शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् ।
नित्यं हि समरे राजन्विजिगीषन्ति मानवान् ॥

7.112.25

कर्णेन विहिता राजन्दुःशासनमनुव्रताः ।
एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति ॥

7.112.26

सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः ।
तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् ॥

7.112.27

ते न क्लान्ता न च श्रान्ता दृढावरणकार्मुकाः ।
मदर्थेऽधिष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ॥

7.112.28

एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव ।
प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः ॥

7.112.29

यांस्त्वेतानपरान्राजन्नागान्सप्तशतानिमान् ।
प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान् ॥

7.112.30

किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना ।
स्वलङ्कृतांस्तदा प्रेष्यानिच्छञ्जीवितमात्मनः ॥

7.112.31

आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् ।
त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् ॥

7.112.32

एषामेते महामात्राः किराता युद्धदुर्मदाः ।
हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः ॥

7.112.33

एते विनिर्जिताः सङ्ख्ये सङ्ग्रामे सव्यसाचिना ।
मदर्थमद्य संयत्ता दुर्योधनवशानुगाः ॥

7.112.34

एतान्हत्वा शरै राजन्किरातान्युद्धदुर्मदान् ।
सैन्धवस्य वधे यत्तमनुयास्यामि पाण्डवम् ॥

7.112.35

ये त्वेते सुमहानाग अञ्जनस्य कुलोद्भवाः ।
कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ॥

7.112.36

जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः ।
लब्धलक्षा रणे राजन्नैरावणसमा युधि ॥

7.112.37

आस्थिता दस्युभिस्तीक्ष्णैः शूरैरुत्तमपार्वतैः ।
कर्कशैः प्रवरैर्योधैः काष्णार्यसतनुच्छदैः ॥

7.112.38

सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः ।
अनेकयोनयश्चान्ये तथा मानुषयोनयः ॥

7.112.39

अनीकमसतामेतद्भूम्रवर्णमुदीर्यते ।
म्लेच्छानां पापकर्तॄणां हिमदुर्गनिवासिनाम् ॥

7.112.40

एतद्दुर्योधनो लब्ध्वा समग्रं राजमण्डलम् ।
कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ॥

7.112.41

सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् ।
कृतार्थमथ चात्मानं मन्यते कालचोदितः ॥

7.112.42

ते तु सर्वेऽद्य सम्प्राप्ता मम नाराचगोचरम् ।
नभविष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः ॥

7.112.43

तेन सम्भाविता नित्यं परवीर्योपजीविना ।
विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः ॥

7.112.44

ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः ।
एते दुर्वारणा नाम काम्भोजा यदि ते श्रुताः ॥

7.112.45

शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः ।
संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ॥

7.112.46

अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत ।
यत्ता मदर्थे तिष्ठन्ति कुरुवीराभिरक्षिताः ॥

7.112.47

अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः ।
तानहं प्रमथिष्यामि तृणानीव हुताशनः ॥

7.112.48

तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च ।
रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः ॥

7.112.49

अस्मिंस्तु किल सम्मर्दे ग्राह्यं विविधमायुधम् ।
यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः ॥

7.112.50

काम्भोजैर्हि समेष्यामि तीक्ष्णैराशीविषोपमैः ।
नानाशस्त्रसमावायैर्विविधायुधयोधिभिः ॥

7.112.51

किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः ।
लालितैः सततं राज्ञा दुर्योधनहितैषिभिः ॥

7.112.52

शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः ।
अग्निकल्पैर्युराधर्षैः प्रदीप्तैरिव पावकैः ॥

7.112.53

तथाऽन्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः ।
समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः ॥

7.112.54

त्रियोजनगतस्यापि पदवीं सव्यसाचिनः ।
यास्यामि रथिनां श्रेष्ठं प्रवरं च धनुष्मताम् ॥

7.112.55

सूर्योदयगतस्याहं पाण्डवस्य गतिं चरन् ।
अपराह्णगते सूर्ये गमिष्यामि न संशयः ॥

7.112.56

तस्माद्वै वाजिनो मुख्यान्विश्रुताञ्शुभलक्षणैः ।
उपावृत्तांश्च पीतांश्च पुनर्युञ्जन्तु मे रथे ॥
सञ्जय उवाच ।

7.112.57

तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च ।
रथे चास्थापयद्राजा शस्त्राणि विविधानि च ॥

7.112.58

ततस्तान्सर्वतोमुक्तान्सदश्वांश्चतुरो जनाः ।
रसवत्पाययामासुः पानं मदसमीरणम् ॥

7.112.59

पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान् ।
विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ॥

7.112.60

तान्युक्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः ।
संहृष्टमनसो व्यग्रान्विधिवत्कल्पितान्रथे ॥

7.112.61

महाध्वजेन सिंहेन हेमकेसरमालिना ।
संवृते केतकैर्हैर्मैर्मणिविद्रुमचित्रितैः ॥

7.112.62

पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते । हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे ।
योजयामास विधिवद्धेमभाण्डविभूषितान् ॥

7.112.63

दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा ।
न्यवेदयद्रथं युक्तं वासवस्येव मातलिः ॥

7.112.64

ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः ।
स्नातकानां सहस्रस्य स्वर्णनिष्कानथो ददौ ॥

7.112.65

आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ।
ततः समधुपर्काम्भः पीत्वा कैरातकं मधु ॥

7.112.66

लोहिताक्षो बभौ तत्र मदविह्वललोचनः ।
आलभ्य वीरकांस्यं च हर्षेण महताऽन्वितः ॥

7.112.67

द्विगुणीकृततेजोभिः प्रज्वलन्निव पावकः ।
उत्सङ्गे धनुरादाय सशरं रथिनां वरः ॥

7.112.68

आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ।
कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः ॥

7.112.69

लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः ।
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः ॥

7.112.70

तेन मूर्धन्युपाघ्रातः कृतस्वस्ययनोऽपि च । आशिषो विविधाः श्रुत्वा धर्मराजमुखेरिताः ।
हर्षेण महता युक्त आरुरोह महारथम् ॥

7.112.71

ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः । अजय्या जैत्रमूहुस्तं विकुर्वाणाः स्म सैन्धवाः ।
यथा शक्ररथं राजन्नूहुस्ते हरयः पुरा ॥

7.112.72

तथैव भीमसेनोऽपि धर्मराजेन पूजितः ।
प्रायात्सात्यकिना सार्धमभिवाद्य युधिष्ठिरम् ॥

7.112.73

तौ दृष्ट्वा प्रविविक्षन्तौ तव सेनामरिन्दमौ ।
संयत्तास्तावकाः सर्वे तस्थुर्द्रोणपुरोगमाः ॥

7.112.74

सन्नद्धमनुगच्छन्तं दृष्ट्वा भीमं स सात्यकिः ।
अभिनन्द्याब्रवीद्वीरस्तदा हर्षकरं वचः ॥

7.112.75

त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ।
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् ॥

7.112.76

आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् । जानीषे मम वीर्यं त्वं तव चाहमरिन्दम ।
तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् ॥
सञ्जय उवाच ।

7.112.77

तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये ।
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ॥

7.112.78

एवमुक्तः प्रत्युवाच भीमसेनं स माधवः ।
गच्छ गच्छ ध्रुवं पार्थ ध्रुवो हि विजयो मम ॥

7.112.79

यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशमास्थितः ।
निमित्तानि च धन्यानि यथा भीम वदन्ति मां ॥

7.112.80

निहते सैन्धवे पापे पाण्डवेन महात्मना । परिष्वजिष्ये राजानं धर्मात्मानं युधिष्ठिरम् ।
अप्रमादश्च ते कार्यो द्रोणं प्रति महारथम् ॥
सञ्चय उवाच ।

7.112.81

एतावदुक्त्वा भीमं तु विसृज्य च महायशाः ।
सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव ॥

7.112.82

तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप ।
भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ॥

7.112.83

ततः प्रयातः सहसा तव सैन्यं स सात्यकिः ।
दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc