भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.108

7.108.1

द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः ।
एकैकं पञ्चभिर्विद्व्वा पुनर्विव्याध सप्तभिः ॥

7.108.2

ते पीडिता भृशं तेन रौद्रेण सहसा विभो ।
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किञ्चन ॥

7.108.3

नाकुलिश्च शतानीकः सौमदत्तिं नरर्षभम् ।
द्वाभ्यां विद्व्वाऽनदद्वृष्टः शराभ्यां शत्रुकर्शनः ॥

7.108.4

तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः ।
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥

7.108.5

स तान्प्रति महाराज पञ्च चिक्षेप सायकान् ।
एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥

7.108.6

ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना ।
परिवार्य रणे वीरं विव्यधुः सायकैर्भृशम् ॥

7.108.7

अर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः ।
प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ॥

7.108.8

भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः ।
ननाद बलवन्नादं विव्याध च शितैः शरैः ॥

7.108.9

यौधिष्ठिरिर्ध्वजं तस्य च्छित्त्वा भूमावपातयत् ।
नाकुलिश्चाथ यन्तारं रथनीडादपाहरत् ॥

7.108.10

साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् ।
क्षुरप्रेण शिरो राजन्निचकर्त महात्मनः ॥

7.108.11

तच्छिरो न्यपतद्भूतौ तपनीयविभूषितम् ।
अभासयद्रुणोद्देशं बालसूर्यसमप्रभम् ॥

7.108.12

सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः ।
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ॥

7.108.13

अलम्बुसस्तु समरे भीमसेनं महाबलम् ।
योधयामस सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा ॥

7.108.14

सम्प्रयुद्धौ रमे दृष्ट्वा तावुभौ नरराक्षसौ ।
विस्मयः सर्वभूतानां भयं चासीत्सुदारुणम् ॥

7.108.15

आर्श्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः ।
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ॥

7.108.16

तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् ।
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥

7.108.17

स भीमं पञ्छभिर्विद्व्वा शरैः सन्नतपर्वभिः । भैमान्परिजघानाशु रथांस्त्रिशतमाहवे ।
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ॥

7.108.18

सोऽतिविद्धस्तथा भीमो राक्षसेन महाबलः ।
निषसाद रथोपस्थे मूर्च्छयाऽभिपरिप्लुतः ॥

7.108.19

प्रतिलभ्य ततः सञ्ज्ञां मारुतिः क्रोधमूर्च्छितः । विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ।
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥

7.108.20

स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः ।
शुशुभे सर्वतो राजन्प्रफुल्ल इव किंशुकः ॥

7.108.21

स वध्यमानः समरे भीमचापच्युतैः शरैः । स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ।
घोरं रूपमथो कृत्वा भीमसेनमभाषत ॥

7.108.22

तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ॥ बाको नाम सुदुर्बुद्धे राक्षसप्रवरो बली ।

7.108.23

परोक्षं मम तद्वृत्तं यद्धाता मे हतस्त्वया ॥
सञ्जय उवाच ।

7.108.24

एवमुक्त्वा ततो भीममन्तर्धानं गतस्तदा ।
महता शरवर्षेण भृशं तं समवाकिरत् ॥

7.108.25

भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा ।
आकाशं पूरयामास शरैः सन्नतपर्वभिः ॥

7.108.26

स वध्यमानो भीमेन निमेषाद्रथमास्थितः ।
जगाम धरणीं चैव क्षुद्रः खं सहसाऽगमत् ॥

7.108.27

उच्चावचानि रूपाणि चकार सुबहूनि च ।
अणुर्बृहत्पुनः स्थूलो नादान्मुञ्चन्निवाम्बुदः ॥

7.108.28

[निपेतुर्गगनाचत्चैव शरधाराः सहस्रशः ।
शक्तयः कणपाः प्रासाः शूलपट्टसतोमराः ॥

7.108.29

शतघ्न्यः परिघाश्चैव भिण़्डिपालाः परश्वथाः ।
शिलाः खङ्घा गुडाश्चैव ऋष्टीर्वज्राणि चैव ह ॥

7.108.30

सा राक्षसविसृष्टा तु शस्त्रवृष्टिः सुदारुणा । जघान पाण्डुपुत्रस्य सैनिकान्रणमूर्धनि ॥ ]

7.108.31

उच्चावचास्तथा वाचो व्याजहार समन्ततः ।
तेन पाण्डवसैन्यानां सूदिता युधि वारणाः ॥

7.108.32

हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ।
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥

7.108.33

शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।
छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम् ॥

7.108.34

नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् ।
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ॥

7.108.35

तं तथा समरे राजन्विचरन्तमभीतवत् ।
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् ॥

7.108.36

तावकानां तु सैन्यानां प्रहर्षः समजायत ।
वादित्रनिनदश्चोग्रः सुमहान्रोमहर्षणः ॥

7.108.37

तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः ।
नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥

7.108.38

ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः ।
सन्दधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः ॥

7.108.39

ततः शरसहस्राणि प्रादुरासन्समन्ततः ।
तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत् ॥

7.108.40

तदस्त्रं प्रेरितं तेन भीमसेनेन संयुगे ।
राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥

7.108.41

स वध्यमानो बहुधा भीमसेनेन राक्षसः ।
सन्त्यज्य समरे भीमं द्रोणानीकमुपाद्रवत् ॥

7.108.42

तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना ।
अनादयन्सिंहनादैः पाण्डवाः सर्वतो दिशम् ॥

7.108.43

अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् ।
प्रहादमिव दैतेया यथा शक्रं मरुद्गणाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc