भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.103

7.103.1

एवमुक्त्वाऽर्जुनं राजा त्रिभिर्मर्मातिगैः शरैः ।
अभ्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥

7.103.2

वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे ।
प्रतोदं चास्य भल्लेन च्छित्त्वा भूमावपातयत् ॥

7.103.3

तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः ।
अविध्यत्तूर्णमव्यग्रस्ते चाभ्रश्यन्त वर्मणि ॥

7.103.4

तेषां नैष्फल्यमालोक्य पुनर्नव च पञ्च च ।
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥

7.103.5

अष्टाविंशांस्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् ।
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥

7.103.6

अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् ।
त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥

7.103.7

कच्चिद्गाण्डीवजः प्राणस्तथैव भरतर्षभ ।
मुष्टिश्च ते यथा पूर्वं भुजयोश्च बलं तव ॥

7.103.8

न वा कच्चिदयं कालः प्राप्तः स्यादद्य पश्चिमः ।
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ॥

7.103.9

विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् ।
व्यर्थान्निपतितान्सङ्खे दुर्योधनरथं प्रति ॥

7.103.10

वज्राशनिसमा घोराः परकायावभेदिनः ।
शराः कुर्वन्ति ते नार्थं पार्थ काऽद्य विडम्बना ॥
अर्जुन उवाच ।

7.103.11

द्रोणेन नियतं कृष्ण धार्तराष्ट्रे निदर्शितम् ।
अन्ते विहितमस्त्राणामेतत्कवचधारणम् ॥

7.103.12

अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि ।
एको द्रोणो हि वैदैतदहं तस्माच्च सत्तमात् ॥

7.103.13

न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन ।
अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥

7.103.14

जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् ।
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ॥

7.103.15

यथा भविष्यद्यच्चैव तत्सर्वं विदितं तव ।
न त्विदं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥

7.103.16

एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् ।
तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम् ॥

7.103.17

यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव ।
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥

7.103.18

पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन ।
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ॥

7.103.19

इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् ।
तस्माद्वृहस्पतिः प्राप ततः प्राप पुरन्दरः ॥

7.103.20

पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम् । दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् ।
नैनं गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ॥
सञ्जय उवाच ।

7.103.21

एवमुक्त्वाऽर्जुनो बाणानभिमन्त्र्य व्यकर्षयत् ।
मानवास्त्रेण मानार्हस्तीक्ष्णावरणभेदिना ॥

7.103.22

विकृष्यमाणांस्तेनैव धनुर्मध्यगताञ्छरान् ।
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ॥

7.103.23

तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना ।
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ॥

7.103.24

नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन ।
अस्त्रं मामेव हन्याद्धि हन्याच्चापि बलं मम ॥

7.103.25

ततो दुर्योधनः कृष्णौ नवभिर्नवभिः शरैः ।
अविध्यत रणे राजञ्शरैराशीविषोपमैः ॥

7.103.26

भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ । शरवर्षेण महता ततोऽहृष्यन्त तावकाः ।
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ॥

7.103.27

ततः क्रुद्धो रणे पार्थः सृक्विणी परिसंलिहन् ।
नापश्यच्च ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ॥

7.103.28

ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः ।
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥

7.103.29

धनुरस्याच्छिनत्तूर्णं हस्तावापं च वीर्यवान् ।
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥

7.103.30

दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् ।
आविद्ध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥

7.103.31

[प्रयत्नज्ञो हि कौन्तयो नखमांसान्तरेषुभिः । स वेदनाभिराविग्नः पलायनपरायणः ॥ ]

7.103.32

तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः ।
समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ॥

7.103.33

तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः ।
पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ॥

7.103.34

अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यत ।
अस्त्रवर्षेण महता शरौघैश्चापि संवृतौ ॥

7.103.35

ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् ।
तत्र व्यङ्गी कृताः पेतुः शतशोऽथ रथद्विपाः ॥

7.103.36

ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् ।
स रथः स्तम्भितस्तस्थौ क्रोशमात्रे समन्ततः ॥

7.103.37

ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् ।
धनुर्विष्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ॥

7.103.38

ततो विष्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् ।
महता शरवर्षेण तलशब्देन चार्जुनः ॥

7.103.39

पाञ्चजन्यं च बलवान्दध्मौ तारेण केशवः ।
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥

7.103.40

तेनाच्युतोष्ठपुटपूरितमारुतेन शङ्खान्तरोदरविवृद्धविनिःसृतेन ।
नादेन सासुरवियत्सुरलोकपाल-- मुद्विग्नमीश्वर जगत्स्फुटतीव सर्वम् ॥

7.103.41

तस्य शङ्खस्य नादेन धनुषो निःस्वनेन च ।
निःसत्वाश्च ससत्वाश्च क्षितौ पेतुस्तदा जनाः ॥

7.103.42

तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः ।
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥

7.103.43

ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु ।
चक्रुर्नादान्महेष्वासाः कम्पयन्तो वसुन्धराम् ॥

7.103.44

बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिःस्वनैः ।
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥

7.103.45

तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् ।
प्रदध्मतुः शङ्खवरौ वासुदेवधनञ्जयौ ॥

7.103.46

तेन शब्देन महता पूरितेयं वसुन्धरा ।
सशैला सार्णवद्वीपा सपाताला विशाम्पते ॥

7.103.47

स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश ।
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ॥

7.103.48

तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ ।
सम्भ्रमं परमं प्राप्तास्त्वरमाणा महारथाः ॥

7.103.49

अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशितौ ।
अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc