भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.100

7.100.1

सलिले जनिते तस्मिन्कौन्तेयेन महात्मना ।
निस्तारिते द्विषत्सैन्ये कृते च शरवेश्मनि ॥

7.100.2

वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः ।
मोचयामास तुरगान्विनुन्नान्कङ्कपत्रिभिः ॥

7.100.3

अदृष्टपूर्वं तद्दृष्ट्वा साधुवादो महानभूत् ।
सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ॥

7.100.4

पदातिनं तु कौन्तेयं युध्यमानं महारथाः ।
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ॥

7.100.5

आपतत्सु रथौघेषु प्रभूतगजवाजिषु ।
नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ॥

7.100.6

व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः ।
न चाव्यथत धर्मात्मा वासविः परवीरहा ॥

7.100.7

शतानि शरजालानि गदाः प्रासांश्च वीर्यवान् ।
आगतानग्रसत्पार्थः सरितः सागरो यथा ॥

7.100.8

अस्त्रवेगेन महता पार्थो बाहुबलेन च ।
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ॥

7.100.9

तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः ।
अपूजयन्महाराज कौरवा महदद्भुतम् ॥
कौरवा ऊचुः ।

7.100.10

किमद्भुततमं लोके भविताऽप्यथवा ह्यभूत् ।
यदश्वान्पार्थ गोविन्दौ पाययामासतू रणे ॥

7.100.11

भयं विपुलमस्मासु तावधत्तां नरोत्तमौ । तेजो विदधतुश्चोग्रं यत्सैन्यं तावकं विभो ।
दधारैको रणे पार्थो वेलेवोद्वृत्तमर्णवम् ॥

7.100.12

पार्थस्य शरसञ्छन्ने तस्मिन्सद्मनि भारत ।
आकाशमिव सम्प्राप्य विचेरुस्तत्र पक्षिणः ॥

7.100.13

न चैनं युधि तिष्ठन्तं सैन्येषु तव मारिष ।
अभ्यद्रवत्सुसङ्क्रुद्धः पुमान्कश्चित्तु तावकः ॥

7.100.14

सर्वे विमनसोऽभूवंस्तव योधा विशाम्पते ।
सम्प्रेक्ष्य तत्र गोविन्दं पाण्डवं च धनञ्जयम् ॥

7.100.15

अथ स्मयन्हृषीकेशः स्त्रीमध्य इव भारत ।
अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा ॥

7.100.16

उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः ।
मिषतां सर्वसैन्यानां त्वदीयानां विशाम्पते ॥

7.100.17

उपावृत्त्योत्थितानश्वान्पाणिभ्यां पुष्करेक्षणः ।
सम्मार्जयन्रणे राजन्पश्यतां सर्वयोधिनाम् ॥

7.100.18

तेषां श्रमं च ग्लानिं च वमथुं वेपथुं व्रणान् ।
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ॥

7.100.19

शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् ।
उपावर्त्य यथान्यायं पाययामास वारि सः ॥

7.100.20

स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् ।
योजयामास संहृष्टः पुनरेव रथोत्तमे ॥

7.100.21

स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः ।
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ॥

7.100.22

योजयित्वा हयांस्तस्य विधिदृष्टेन कर्मणा ।
रणे चचार गोविन्दस्तृणीकृत्य महारथान् ॥

7.100.23

रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः ।
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ॥

7.100.24

विनिःस्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः ।
घिगहोऽतिगतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ॥

7.100.25

तत्सैन्यं सर्वतो दृष्ट्वा रोमहर्षणमद्भुतम् ।
त्वरध्वमिति चाक्रन्दन्नैतदस्तीति चावुवन् ॥

7.100.26

सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ ।
बालः क्रीडनकेनेव कदर्थीकृत्य नो बलम् ॥

7.100.27

क्रोशतां यतमानानामसंसक्तौ परन्तपौ ।
दर्शयित्वाऽत्मनो वीर्यं प्रयातौ सर्वराजसु ॥

7.100.28

यथा देवासुरे युद्धे तृणीकृत्य च दानवान् ।
इन्द्राविष्णू पुरा राजञ्जम्भस्य वधकाङ्क्षिणौ ॥

7.100.29

तौ प्रयातौ पुनर्दृष्ट्वा तदाऽन्ये सैनिकाब्रुवन् ।
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ॥

7.100.30

रथं युङ्क्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् ।
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ॥

7.100.31

तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः ।
अदृष्टपूर्वं सङ्ग्रामे तदृष्ट्वा महदद्भुतम् ॥

7.100.32

सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः ।
दुर्योधनापराघेन क्षत्रं कृत्स्ना च मेदिनी ॥

7.100.33

विलयं समनुप्राप्ता तच्च राजा न बुध्यते ।
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ॥

7.100.34

सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् ।
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ॥

7.100.35

ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति ।
विवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ॥

7.100.36

तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् ।
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ॥

7.100.37

विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः ।
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ॥

7.100.38

गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् ।
बलाकाभं तु दाशार्हः पाञ्चजन्यं व्यनादयत् ॥

7.100.39

कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः ।
तूर्णात्तूर्णतरं ह्यश्वाः प्रावहन्वातरंहसः ॥

7.100.40

ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम् ।
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ॥

7.100.41

सैन्येषु विप्रयातेषु धिष्ठितं पुरुषर्षभम् ।
दुर्योधनोऽत्वयात्पार्थं त्वरमाणो महाहवे ॥

7.100.42

वातोद्धूतपताकं तं रथं जलदनिःस्वनम् ।
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ॥

7.100.43

दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् ।
शरार्ताश्चरणे योधाः शेकुः कृष्णौ न वीक्षितुम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc