भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.96

6.96.1

पुत्रं विनिहतं श्रुत्वा इरावन्तं धṉअञ्जयः ।
दुःखेन महताऽविष्टो निःश्वसन्पन्नगो यथा ॥

6.96.2

अब्रवीत्समरे राजन्वासुदेवमिदं वचः ।
इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा ॥

6.96.3

कुरूणां पाण्डवानां च क्षयं घोरं महामतिःक ।
स ततो निवारितवान्धृतराष्ट्रं जनेश्वरम् ॥

6.96.4

अन्ये च बहवो वीराः सन्ग्रामे मधुसूदन ।
निहताः कौरवैः सङ्ख्ये तथाऽस्माभिश्च कौरवाः ॥

6.96.5

अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम् ।
धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसन्क्षयः ॥

6.96.6

अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्वनम् ।
किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान् ॥

6.96.7

दुर्योधनापराधेन शकुनेः सौबलस्य च ।
क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च ॥

6.96.8

इदानीं च विजानामि सुकृतं मधुसूदन ।
कृतं राज्ञा महाबाहो याचता त सुयोधनम् ॥

6.96.9

राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिःक ।
दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले ॥

6.96.10

निन्दामि भृशमात्मानं धिगस्तु क्षत्रिजीविकाम् ।
अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे ॥

6.96.11

एतदर्थं मया युद्धं रोचितं मधुसूदन ।
सञ्चोदय हयाञ्शीघ्रं धार्तराष्ट्रचमूं प्रति ॥

6.96.12

प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् ।
नायं क्लीबायितुं कालो विद्यते माधव क्वचित् ॥
सञ्जय उवाच ।

6.96.13

एवमुक्तस्तु पार्थेन केशवः परवीरहा ।
चोदयामास तानश्वान्पाण्डुरान्वातरंहसः ॥

6.96.14

अथ शब्दो महानासीत्तव सैन्यस्य भारत ।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥

6.96.15

अपराह्णे महाराज सन्ग्रामः समपद्यत ।
पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः ॥

6.96.16

ततो राजंस्तव सुता भीमसेनमुपाद्रवन् ।
परिवार्य रणे द्रोणं वसवो वासवं यथा ॥

6.96.17

ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः ।
भगदत्तः सुशर्मा च धनञ्जयमुपाद्रवन् ॥

6.96.18

हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ ।
अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः ॥

6.96.19

शेषास्त्वन्ये महाराज शेषानेव महारथान् ।
ततः प्रववृते युद्धं घोररूपं भयावहम् ॥

6.96.20

भीमसेनस्तु सम्प्रेक्ष्य पुत्रांस्तव विशाम्पते ।
प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव ॥

6.96.21

पुत्रास्तु तव कौन्तेयं छादयाञ्चक्रिरे शरैः ।
प्रावृषीव महाराज जलदा इव पर्वतम् ॥

6.96.22

स च्छाद्यमानो बहुधा पुत्रैस्तव विशाम्पते ।
सृक्विणी संलिहन्वीरः शार्दूल इव दर्पितः ॥

6.96.23

व्यूढोरस्कस्ततो भीमः पोथयामास पार्थिवम् ।
क्षुरप्रेण सुतीक्ष्णेन सुमुक्तेन महारणे ॥

6.96.24

ताडयामास सन्क्रुद्धः सोऽभवद्व्यथितेन्द्रियः . अपरेण तु भल्लेन पीतेन निशितेन तु ।
अपातयत्कुण्डलितं सिंहः क्षुद्रमृगं यथा ॥

6.96.25

ततः सुनिशितान्बाणान्भीमसेनः शिलाशितान् ।
स सप्त सन्दधे हन्तुं पुत्रास्ते भरतर्षभ ॥

6.96.26

प्रेषिता भिमसेनेन शरास्ते दृढधन्वना ।
अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान् ॥

6.96.27

अनाधृष्टिं कुण्डभेदिं विराजं दीप्तलोचनम् ।
दीर्घबाहुं सुबाहुं च तथैव मकरध्वजम् ॥

6.96.28

प्रपतन्तिस्म वीरास्ते विरेजुर्भरतर्षभ ।
वसन्ते पुष्पशबलाः किंशुकाः पतिता इव ॥

6.96.29

ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे ।
तं कालमिव मन्यन्तो भीमसेनं महाबलम् ॥

6.96.30

द्रोणस्तु समरे वीरं निर्दहनक्तं सुतांस्तव ।
यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः ॥

6.96.31

तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् ।
द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव ॥

6.96.32

यथा गोवृषभो वर्षं सन्धारयति स्वात्पतत् ।
भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत् ॥

6.96.33

अद्भुतं च महाराज तत्र चक्रे वृकोदरः ।
यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्यवारयत् ॥

6.96.34

पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः ।
मृगेष्विव महाराज चरन्व्याघ्रो महाबलः ॥

6.96.35

यथा हि पशुमध्यस्थो द्रावयेत पशून्वृकः ।
वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे ॥

6.96.36

गाङ्गेयो भगदत्तश्च गोतमश्च महारथाः ।
पाण्डवं रभसं युद्धे वारयामासुरर्जुनम् ॥

6.96.37

अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे ॥

6.96.38

अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् ।
विरथं रथिनां श्रेष्ठं कारयामास सायकैः ॥

6.96.39

विरथो वध्यमानस्तु सौभद्रेण यशस्विना ।
अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः ॥

6.96.40

असिं चिक्षेप समरे सौभद्रस्य महात्मनः ।
आरुरोह रथं चैव हार्दिक्यस्य महाबलः ॥

6.96.41

आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः ।
लाघवाद्व्यंसयामास सौभद्रः परवीरहा ॥

6.96.42

व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा ।
साधुसाध्विति सैन्यानां प्रणादोऽभूद्विशाम्पते ॥

6.96.43

धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन् ।
तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन् ॥

6.96.44

तत्राक्रन्दो महानासीत्तव तेषां च भारत ।
निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम् ॥

6.96.45

अन्योन्यं हि रणे शूराः केशेष्वाक्षिष्य मानिनः ।
नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा ॥

6.96.46

तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः ।
विवरं प्राप्य चान्योन्यमनयन्यमसादनम् ॥

6.96.47

न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा ।
व्याकुलीकृतसन्कल्पा युयुधुस्तत्र मानवाः ॥

6.96.48

रणे चारूणि चापानि हेमपृष्ठानि मारिष ।
हतानामपविद्धानि कलापाश्च महाधनाः ॥

6.96.49

जातरूपमयैः पुङ्खै राजतैर्निशिताः शराः ।
तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः ॥

6.96.50

खङ्गाश्च दान्तत्सरवो जातरूपपरिष्कृताः ।
चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनां ॥

6.96.51

सुवर्णाविकृताः प्रासाः प्रभग्ना हेमभूषिताः ।
जातरूपमया यष्ट्यः शक्त्यश्च कनकोज्ज्वलाः ॥

6.96.52

अवस्कन्दाश्च पतिता मुसलानि गुरूणि च ।
परिघाः पट्टसाश्चैव भिण्डिपालाश्च मारिष ॥

6.96.53

पतिता विविधाश्चापाश्चित्रा हेमपरिष्कृताः ।
कुथा बहुविधाकाराश्चामरा व्यजनानि च ॥

6.96.54

नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः ।
जीवन्त इव दृश्यनते गतसत्त्वा महारथाः ॥

6.96.55

गजाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः ।
गजावाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ ॥

6.96.56

तथैवाश्वनृनागानां शरीरैर्विबभौ तदा ।
सञ्छन्ना वसुधा राजन्पर्वतैरिव शातितैः ॥

6.96.57

समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः ।
निस्त्रिंशैः पट्टसैः प्रासैरवस्कन्दैः परश्वथैः ॥

6.96.58

परिघैर्भिण्डिपालैश्च शतघ्नीभिश्च मारिष ।
शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी ॥

6.96.59

विशब्दैरल्पशब्दैश्च शोणितौगपरिप्लुतैः ।
गतासुभिरमित्रघ्न विबभौ निचिता मही ॥

6.96.60

सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः ।
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥

6.96.61

बद्धचूजामणिवरैः शिरोभिश्च सकुण्डलैः ।
पातितै ऋषभाक्षाणां बभौ भारत मेदिनी ॥

6.96.62

कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः ।
रराज सुभृशं भूमिः शान्तार्चिर्भिरिवानलैः ॥

6.96.63

विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः ।
विप्रकीर्णैः शरैश्चैव रुक्मपुङ्खैः समन्ततः ॥

6.96.64

रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः ।
वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वैः सशोणितैः ॥

6.96.65

अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि ।
प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः ॥

6.96.66

स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही ।
नानारूपेरलन्कारैः प्रमदेवाभ्यलङ्कृता ॥

6.96.67

दन्तिभिश्चापरैस्तत्र सप्राणैर्गाढवेदनैः ।
करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः ॥

6.96.68

विबभौ तद्रणस्थानं स्यन्दमानैरिवाचलैः ।
नानारागैः कम्बलैश्च परिस्तोमेश्च दन्तिनाम् ॥

6.96.69

वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः ।
घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः ॥

6.96.70

विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा ।
ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च ॥

6.96.71

यन्त्रैश्च बहुधा च्छिन्नैस्तोमरैश्चापि काञ्चनैः । रराज सुभृशं भूमिस्तत्रतत्र विशाम्पते
अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः ॥

6.96.72

सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा ।
प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः ॥

6.96.73

उष्णीषैश्च तथा चित्रैर्विप्रविद्धैस्ततस्ततः ।
विचित्रैर्बाणवर्षैश्च जातरूपपरिष्कृतैः ॥

6.96.74

अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा ।
नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः ॥

6.96.75

छत्रैस्तथापविद्धैश्च चामरैर्व्यजनैरपि ।
पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः ॥

6.96.76

क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ।
अपविद्धैर्महाराज सुवर्णाज्ज्वलकुण्डलैः ॥

6.96.77

ग्रहनक्षत्रशबला द्यौरिवासीद्वसुन्धरा ।
एवमेते महासेने मृदिते तत्र भारत ॥

6.96.78

परस्परं समासाद्य तव तेषां च संयुगे ।
तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत ॥

6.96.79

रात्रिः समभवत्तत्र नापश्याम ततोऽनुगान् ।
ततोऽवहारं सैकन्यानां प्रचुक्रुः कुरुपाण्डवाः ॥

6.96.80

घोरे निशामुखे रौद्रे वर्तमाने महाभये । अवहारं ततः कृत्वा सहिताः कुरुपाणड्वाः ।
न्यविशन्त निशाकाले गत्वा स्वशिबिरं तदा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc