भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.8

6.8.1

वर्षाणां चैव नामानि पर्वतानां च सञ्जय ।
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥
सञ्जय उवाच ।

6.8.2

दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु ।
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥

6.8.3

शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः ।
निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ॥

6.8.4

दशवर्षसहस्राणि शतानि दश पञ्च च ।
जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥

6.8.5

दक्षिणे शृङ्गिणश्चैव श्वेतस्याथोत्तरेण तु ।
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥

6.8.6

यत्र चायं महाराज पक्षिराट् पतगोत्तमः ।
यक्षानुगा महाराज धनिनः प्रियदर्शनाः ॥

6.8.7

महाबलास्तत्र जना राजन्मुदितमानसाः ।
एकादशसहस्राणि वर्षाणां ते जनाधिप ॥

6.8.8

आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च ।
श्रृङ्गाणि वै श्रृङ्गवतस्त्रीण्येव मनुजाधिप ॥

6.8.9

एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् . सर्वरत्नमयं चैकं भवनैरुपशोभितम् ।
तत्र स्वयम्प्रभा देवी नित्यं वसति शाण्डिली ॥

6.8.10

उत्तरेण तु श्रृङ्गस्य समुद्रान्ते जनाधिप ।
वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् ॥

6.8.11

न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः ।
चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ॥

6.8.12

पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ।
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥

6.8.13

अनिष्पन्दा इष्टगन्धा निराहारा जितेन्द्रियाः ।
देवलोकच्युताः सर्वे तथा विरजसो नृप ॥

6.8.14

त्रयोदशसहस्राणि वर्षाणां ते जनाधिप ।
आयुःप्रमाणं जीवन्ति नरा भरतसत्तम ॥

6.8.15

क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ।
हरिर्वसति वैकुण्ठः शकटे कनकोञ्ज्वले ॥

6.8.16

अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ।
अग्निवर्णं महातेजो जाम्बूनदविभूषितम् ॥

6.8.17

स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ ।
सन्क्षेपो विस्तरश्चैव कर्ता कारयिता तथा ॥

6.8.18

पृथिव्यापस्तथाऽकाशं वायुस्तेजश्च पार्थिव ।
स यज्ञः सर्वभूतनामास्यं तस्य हुताशनः ॥
वैशम्पायन उवाच ।

6.8.19

एवमुक्तः सञ्जयेन धृतराष्ट्रो महामनाः ।
ध्यानमन्वगमद्राजा पुत्रान्प्रति जनाधिप ॥

6.8.20

स विचिन्त्य महातेजाः पुनरेवाब्रवीद्वचः ।
असंशयं सूतपुत्र कालः सन्क्षिपते जगत् ॥

6.8.21

सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ।
नरो नारायणश्चैव सर्वज्ञः सर्वभूतहृत् ॥

6.8.22

देवा वैकुण्ठ इत्याद्दुर्वेदा विष्णुरिति प्रभुम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc