भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.7

6.7.1

मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय ।
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥
सञ्जय उवाच ।

6.7.2

दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ।
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥

6.7.3

तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः ।
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥

6.7.4

सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप ।
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥

6.7.5

ये क्षरन्ति सदा क्षीरं षड्रसं चामृपोतमम् ।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥

6.7.6

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका . सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप ।
पुष्करिष्यः शुभास्तत्र सुखस्पर्शा मनोरमाः ॥

6.7.7

देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः ।
शुक्लाभिजनसंयन्नाः सर्वे सुप्रियदर्शनाः ॥

6.7.8

मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः ।
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ॥

6.7.9

मिथुनं जायते काले समं तच्च प्रवर्धते ।
तुल्यरूगुणोपेतं समवेषं तथैव च ॥

6.7.10

एवमेवानुरूपं च चक्रवाकसमं विभो ।
निरापगाम ते लोका नित्यं मुदितमानसाः ॥

6.7.11

दशवर्षसहस्राणि शशवर्षशतानि च ।
जीवन्ति ते महाराज न चान्योन्यं जहत्युत ॥

6.7.12

भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः ।
तान्निहेरन्तीह मृतान्दरीषु प्रक्षिपन्ति च ॥

6.7.13

उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः ।
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥

6.7.14

तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशाम्पते ।
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥

6.7.15

कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः ।
द्रुमश्च योजनोत्सेधः सिद्धचारणसेवितः ॥

6.7.16

तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः ।
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥

6.7.17

चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः ।
चन्द्रशीतलगात्र्यश्च नृत्तिगीतविशारदाः ॥

6.7.18

दशवर्षसहस्राणि तत्रायुर्भरतर्षभ ।
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥

6.7.19

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥

6.7.20

सर्वकामफलः पुण्यः सिद्धचारणसेवितः ।
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥

6.7.21

योजनानां सहस्त्रं च शतं च भरतर्षभ ।
उत्सेधो वृक्षराजस्य दिवस्पृङ्भनुजेश्वर ॥

6.7.22

अरत्नीनां सहस्रं च शतानि दश पञ्च च ।
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥

6.7.23

पतमानानि तान्युर्वी कुर्वन्ति विपुलं स्वनम् ।
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम् ॥

6.7.24

तस्या जम्बाः फलरसो नदी भूत्वा जनाधिप ।
मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान्कुरून् ॥

6.7.25

तत्र तेषां मनःशान्तिर्न पिपासा जनाधिप ।
तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥

6.7.26

तत्र जाम्बूनदं नाम कनकं देवभूषणम् ।
इन्द्रगोपकसन्काशं जायते भास्वरं तु तत् ॥

6.7.27

तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ।
तथा माल्यवतः श्रृङ्गे दृश्यते हव्यवाट् सदा ॥

6.7.28

नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ।
तथा माल्यवतः श्रृङ्गे पूर्वपूर्वानुगण्डिका ॥

6.7.29

योजनानां सहस्राणि पञ्चषण्माल्यवानथ ।
महारजतसन्काशा जायन्ते तत्र मानवाः ॥

6.7.30

ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः . तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्ध्वरेतसः ।
रक्षणार्थं तु भूतानां प्रविश्यन्ते दिवाकरम् ॥

6.7.31

षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च ।
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥

6.7.32

षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च ।
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc