भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.78

6.78.1

ततो दुर्योधनो राजा महोत्प्रत्यागतस्मृतिः ।
शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ॥

6.78.2

एकीभूतास्ततश्चैव तव पुत्रा महारथाः ।
समेत्य समरे भीमं योधयामासुरुद्यताः ॥

6.78.3

भीमसेनोऽपि समरे सम्प्राप्य स्वरथं पुनः ।
समारुह्य महाबाहुर्ययौ येन तवात्मजः ॥

6.78.4

प्रगृह्य च महावेगं परासुकरणं दृढम् ।
सज्यं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतम् ॥

6.78.5

ततो दुर्योधनो राजा भीमसेनं महाबलम् ।
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् ॥

6.78.6

सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना ।
क्रोधसंरक्तनयनो वेगेनाक्षिप्य कार्मुकम् ॥

6.78.7

दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।
स तत्र शुशुभे राजा शिखरैर्गिरिराडिव ॥

6.78.8

तौ दष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् ।
दुर्योधनानुजाः सर्वे शूराः सन्त्यक्तजीविताः ॥

6.78.9

संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः ।
निश्चयं परमं कृत्वा निग्रहीतुं प्रचक्रमुः ॥

6.78.10

तानापतत एवाजौ भीमसेनो महाबलः ।
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ॥

6.78.11

भृशं क्रुद्धश्च तेजस्वी नाराचेन समार्पयत् ।
चित्रसेनं महाराज तव पुत्रं महायशाः ॥

6.78.12

तथेतरांस्तव सुतांस्ताडयामास भारत ।
शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुतेजनैः ॥

6.78.13

ततः सम्प्रेक्ष्य पुत्रैस्ते भीमसेनं समावृतम् ।
अभिमन्युप्रभृतयस्ते द्वदश महारथाः ॥

6.78.14

प्रेषिता धर्मराजेन भीमसेनपदानुगाः ।
प्रतिजग्मुर्महाराज तव पुत्रान्महाबलान् ॥

6.78.15

दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः ।
सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् ॥

6.78.16

महाहवे दीष्यमानान्सुवर्णमकुटोञ्ज्वलान् ।
तत्यजुः समरे भीमं तव पुत्रा महाबलाः ॥

6.78.17

तान्नामृष्यत कौन्तेयो जीवमाना गता इति ।
अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ॥

6.78.18

अथाभिमन्युः समरे भीमसेनेन सन्गतः ।
पार्षतेन च ते सर्वे कैकया द्रौपदीसुताः ॥

6.78.19

तादृष्ट्वा समरे क्रुद्धांस्तव सैन्ये महारथाः । दुर्योधनप्रभृतयः प्रगृहीतशरासनाः ।
भृशमर्श्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ॥

6.78.20

अपराह्णे महाराज प्रावर्तत महारणः ।
तावकानां च बलिनां परेषां चैव भारत ॥

6.78.21

अभिमन्युर्विकर्णस्य हयान्हत्वा महाहवे ।
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥

6.78.22

हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः . आरुरोह रथं राजंश्चित्रसेनस्य भारत ।
योधयामास समरे तदद्भुतमिवाभवत् ॥

6.78.23

स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ ।
आर्जिनिः शरजालेन च्छादयामास भारत ॥

6.78.24

चित्रसेनो विकर्णश्च कार्ष्णिं पञ्चभिरायसैः ।
विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिव स्थितः ॥

6.78.25

दुःशासनस्तु समरे केकयान्पञ्च मारिप ।
योधयामास राजेन्द्र तदद्भुतमिवाभवत् ॥

6.78.26

द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् ।
शरैराशीविषाकारैः पुत्रं तव विशाम्पते ॥

6.78.27

पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे ।
सायकैर्निशितै राजन्नाजघान पृथक्पृथक् ॥

6.78.28

तैश्चापि विद्धः शुशुभे रुधिरेम समुक्षितः ।
गिरिः प्रस्रवणैर्यद्वद्गैरिकादिविमिश्रितैः ॥

6.78.29

भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् ।
कालयामास बलवान्पालः पशुगणानिव ॥

6.78.30

ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशाम्पते ।
दक्षिणेन वरूथिन्याः पार्थस्यरीन्विनिघ्नतः ॥

6.78.31

उत्तस्थुः समरे तत्र कबन्धानि समन्ततः ।
कुरूणां चैव सैन्येषु पाण्डवानां च भारत ॥

6.78.32

शोणितोदं शरावर्तं गजद्वीपं हयोर्मिणम् ।
रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ॥

6.78.33

छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः ।
दृश्यन्ते पतितास्तत्र शतशोऽथ सहस्रशः ॥

6.78.34

निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः ।
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ॥

6.78.35

तत्राद्भुतमपश्याम तव तेषां च भारत ।
न तत्रासीत्पुमान्कश्चिद्यो युद्धं नाभिकाङ्क्षति ॥

6.78.36

एवं युयुधिरे वीराः प्रार्थयाना महद्यशः ।
तावकाः पाण्डवैः सार्धमाकाङ्क्षन्तो जयं युधि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc