भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.73

6.73.1

विराटोऽय त्रिभिर्बाणैर्भीष्ममार्च्छन्महारथम् ।
विव्याध तुरमान्त्रास्य त्रिभिर्बाणैर्महारथः ॥

6.73.2

तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः ।
रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ॥

6.73.3

द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः ।
अविध्यदिषुभिः षङ्भिर्दृढहस्तः स्तनान्तरे ॥

6.73.4

कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा ।
अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ॥

6.73.5

सोऽन्यत्कार्मुकमादाय वेगवान्क्रोधमूर्च्छितः ।
अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ॥

6.73.6

अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः ।
वासुदेवं च सप्तत्या विव्याध परमेषुभिः ॥

6.73.7

ततः क्रोधाभिताम्राक्षः कृष्णेन सह फल्गुनः ।
दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पुनःपुनः ॥

6.73.8

धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ।
गाण्डीवधन्वा सन्क्रुद्धः शितान्सन्नतपर्वणः ॥

6.73.9

जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् ।
तैस्तूर्णं समरेऽविध्यद्रौणिं बलवतां वरः ॥

6.73.10

तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे ।
न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना ॥

6.73.11

तथैव च शरान्द्रौणिः प्रविमुञ्चन्नविह्वलः ।
तस्थौ च समरे राजंस्त्रातुमिच्छन्महाव्रतम् ॥

6.73.12

तस्य तत्सुमहत्कर्म शशंसुः कुरुसत्तमाः ।
यत्कृष्णाभ्यां समेताभ्यामभ्यापतत संयुगे ॥

6.73.13

स हि नित्यमनीकेषु युध्यतेऽभयमास्तितः ।
अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ॥

6.73.14

ममैष आचार्यसुतो द्रोणस्यापि प्रियः सुतः ।
ब्राह्मणश्च विशेषेण माननीयो ममेति च ॥

6.73.15

समास्थआय मतिं वीरो बीभत्सुः सत्रुतापनः ।
कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ॥

6.73.16

द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः श्वेतवाहनः ।
युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ॥

6.73.17

दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः ।
भीमसेनं महेष्वासं रुक्मपुङ्खैः समार्पयत् ॥

6.73.18

भीमसेनः सुसन्क्रुद्धः परासुकरणं दृढम् ।
चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ॥

6.73.19

आकर्णप्रहितैस्तीक्ष्णैर्वेगवद्भिरजिह्मगैः ।
अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ॥

6.73.20

तस्य काञ्चनसूत्रस्थः शरैः सञ्छादितो मणिः ।
रराजोरसि खे सूर्यो ग्रहैरिव समावृतः ॥

6.73.21

पुत्रस्तु तव तेजस्वी भीमसेनेन ताडित ।
नामृष्यत यथा नागस्तलशब्दं मदोत्कटः ॥

6.73.22

ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः ।
भीमं विव्याध सन्क्रुद्धस्त्रासयानो वरूथिनीम् ॥

6.73.23

तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ ।
पुत्रौ ते देवसन्काशौ व्यरोचेतां महाबलौ ॥

6.73.24

चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा ।
अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ॥

6.73.25

सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि ।
नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ॥

6.73.26

तं प्रत्यविध्यद्दशभिश्चित्रसेनः शिलीमुखैः ।
सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ॥

6.73.27

स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् ।
चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ॥

6.73.28

भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् ।
ततस्ते तावका वीरा राजपुत्रा महारथाः ॥

6.73.29

समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः ।
तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ॥

6.73.30

तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव ।
दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम् ॥

6.73.31

अपेतशिशिरे काले समिद्धमिव पावकम् ।
अत्यरोचत सौभद्रस्तव सैन्यानि नाशयन् ॥

6.73.32

तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशाम्पते ।
लक्ष्मणोऽभ्यपतत्तूर्णं सात्तीपुत्रमाहवे ॥

6.73.33

अभिमन्युस्तु सन्क्रुद्धो लक्ष्मणं शुभलक्षणम् ।
विव्याध निशितैः षङभिः सारथिं च त्रिभिः शरैः ॥

6.73.34

तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः ।
अविध्यत महाराज तदद्भुतमिवाभवत् ॥

6.73.35

तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः ।
अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ॥

6.73.36

हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा ।
शक्तिं चिक्षेप सन्क्रुद्धः सौभद्रस्य रथं प्रति ॥

6.73.37

तामापतन्तीं सहसा घोररूपां दुरासदाम् ।
अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ॥

6.73.38

ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा ।
अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ॥

6.73.39

ततः समाकुले तस्मिन्वर्तमाने महाभये ।
अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ॥

6.73.40

तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः ।
जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ॥

6.73.41

मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः ।
बाहुभैः समयुध्यन्त सृञ्जयाः कुरुभिः सह ॥

6.73.42

ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् ।
सेनां जघान सन्क्रुद्धो दिव्यैरस्त्रैर्महाबलः ॥

6.73.43

हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः ।
रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc