भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.70

6.70.1

अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा ।
भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव ॥

6.70.2

पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत ।
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम् ॥

6.70.3

तस्मिन्नाकुलसन्ग्रामे वर्तमाने महाभये ।
अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत् ॥

6.70.4

नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च तुमुलं समपद्यत ॥

6.70.5

युयुत्सवस्ते विक्रान्ता विजयाय महाबलाःक ।
अन्योन्यमभिगर्जन्तो गोष्ठिष्विव महर्षभाः ॥

6.70.6

शिरासं पात्यमानानां समरे निशितैः शरैः ।
अश्यवृष्टिरिवाकाशे बभूव भरतर्षभ ॥

6.70.7

कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च ।
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ ॥

6.70.8

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैरभवच्छादिता मही ॥

6.70.9

कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः ।
मुखैश्च चन्द्रसन्काशै रक्तान्तनयनैः शुभैः ॥

6.70.10

गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते ।
आसीत्सर्वा समास्तीर्णा मुहूर्तेन वसुन्धराः ॥

6.70.11

रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः ।
आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत् ॥

6.70.12

स सम्प्रहारस्तुमुलःक कटुकः शोणितोदकः ।
प्रावर्तत कुरूणां च पाण्डवानां च भारत ॥

6.70.13

तस्मिन्महाभये घोरे तुमुले रोमहर्षणे ।
ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः ॥

6.70.14

आक्रोशन्कुञ्जरास्तत्र शरवर्षप्रतापिताः ।
तावकानां परेषां च संयुगे भरतर्षभ ॥

6.70.15

संरब्धानां च वीराणां धीराणाममितौजसाम् ।
धनुर्ज्यातलशब्देन न प्राज्ञायत किञ्चन ॥

6.70.16

उत्थितेषु कबन्धेषु सर्वतः शोमितोदके ।
समरे पर्यधावन्त नृपा रिपुवधोद्यताः ॥

6.70.17

शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः ।
निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः ॥

6.70.18

बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥

6.70.19

उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः ।
तावकानां परेषां च योधा भरतसत्तम ॥

6.70.20

वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत ।
गदानां परिघाणां च हस्तानां चोरुभिः सह ॥

6.70.21

पादानां भूषणानां च केयूराणां च सङ्घशः ।
राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे ॥

6.70.22

अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम् ।
सङ्घाताः स्म प्रदृश्यन्ते तत्रतत्र विशाम्पते ॥

6.70.23

गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः ।
जघ्नुः परस्पर तत्र क्षत्रियाः काल आगते ॥

6.70.24

अपरे बाहुभिर्वीरा नियुद्धकुशला युधि ।
बहुधा समसञ्जन्त आयसैः परिघैरिव ॥

6.70.25

मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशाम्पते ।
अन्योन्यं जघ्रिरे वीरास्तावकाः पाण्डवैः सह ॥

6.70.26

पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले ।
घोरमायोधनं जज्ञे तत्रतत्र जनेश्वर ॥

6.70.27

विरथा रथिनश्चात्र निस्त्रिंशवरधारिणःक ।
अन्योन्यमभिधावन्तः परस्परवधैषिणः ॥

6.70.28

ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः ।
पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत ॥

6.70.29

तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् ।
भीष्ममभ्यद्रवन्क्रुद्धास्ततो युद्धमवर्तत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc