भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.64

6.64.1

ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः ।
प्राविध्यद्भृशसन्क्रुद्धस्तोत्रैरिव महाद्विपम् ॥

6.64.2

कौरवं सात्यकिश्चैव शरैः सन्नतपर्वभिः ।
अवारयदमेयात्मा सर्वलोकस्य पश्यतः ॥

6.64.3

ततो दुर्योधनो राजा सोदर्यैः परिवारितः ।
सोमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् ॥

6.64.4

तं चैव पाण्डवाः सर्वे सात्यकिं रभसं रणे ।
परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः ॥

6.64.5

भीमसेनस्तु सन्क्रुद्धो गजामुद्यम्य भारत ।
दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ॥

6.64.6

रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः ।
नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ॥

6.64.7

विव्याध विशिखैः षड्भिः कङ्कपत्रैः शिलाशितैः ।
दुर्योधनस्तदा राजन्भीमसेनं महारथम् ॥

6.64.8

आजघानोरसि क्रुद्धो मार्गणैर्नवभिः शितैः ।
ततो भीमो महाबाहुः स्वरथं सुमहाबलः ॥

6.64.9

आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् ।
एते महारथाः शूरा धार्तराष्ट्राः समागताः ॥

6.64.10

मामेव भृशसन्क्रुद्धा हन्तुमभ्युद्यता युधि ।
मनोरथद्रुमोऽस्माकं चिन्तितो बहुवार्षिकः ॥

6.64.11

सफलः सूत चाद्येह योऽहं पश्यामि सोदरान् ।
यत्राशोकसमुत्क्षिप्ता रेणवो रथनेमिभिः ॥

6.64.12

प्रयास्यन्त्यन्तरिक्षं हि शरबृन्दैर्दिगन्तरे ।
तत्र तिष्ठति सन्नद्धः स्वयं राजा सुयोधनः ॥

6.64.13

भ्रातरश्चास्य सन्नद्धाः कुलपुत्रा मदोत्कटाः ।
एतानद्य हनिष्यामि पश्यतस्ते न संशयः ॥

6.64.14

तस्मान्ममाश्वान्सन्ग्रमे यत्तः संयच्छ सारथे ।
एवमुक्त्वा ततः पार्थस्तव पुत्रं विशाम्पते ॥

6.64.15

विव्याध निशितैस्तीक्ष्णैः शरैः कनकभूषणैः ।
नन्दकं च त्रिभिर्भाणैरभ्यविध्यत्स्तनान्तरे ॥

6.64.16

तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् ।
त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ॥

6.64.17

भिमस्य च रणे राजन्धनुश्चिच्छेद भासुरम् ।
मुष्टिदेशे भृशं तीक्ष्णौस्त्रिभिर्भल्लैर्हसन्निव ॥

6.64.18

समरे प्रेक्ष्य यन्तारं विशोकं तु वृकोदरः ।
पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ॥

6.64.19

अमृष्यमाणः संरब्धो धनुर्दिव्यं परामृशम् ।
पुत्रस्य ते महाराज वधार्थं भरतर्षभ ॥

6.64.20

समादधत्सुसन्क्रुद्धः क्षुरप्रं रोमवाहिनम् ।
तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ॥

6.64.21

सोऽपविद्ध्य धनुश्छिन्नं पुत्रस्ते क्रोधमूर्च्छितः ।
अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ॥

6.64.22

सन्दधे विशिखं घोर कालमृत्युसमप्रभम् ।
तेनाजघान सन्क्रुद्धो भीमसेनं स्तनान्तरे ॥

6.64.23

स गाढविद्धो व्यथितः स्यान्दनोपस्थ आविशत् ।
स निषण्णो रथोपस्थे मूर्च्छामभिजगाम ह ॥

6.64.24

तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः ।
नामृष्यन्त महेष्वासाः पाण्डवानां महारथः ॥

6.64.25

ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् ।
पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ॥

6.64.26

प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः ।
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥

6.64.27

शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः ।
रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ॥

6.64.28

प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश ।
सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ॥

6.64.29

उद्रो भीमरथो भीमो वीरबाहुरलोलुपः ।
दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ॥

6.64.30

विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः ।
भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ॥

6.64.31

पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः ।
सृक्किणी विलिहन्वीरः पशुमध्ये यथा वृकः ॥

6.64.32

अभिपत्य महाबाहुर्गरुत्मानिव वेगितः ।
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ॥

6.64.33

सम्प्रहस्य च हृष्टात्मा त्रिभिर्बाणैर्महाभुजः ।
जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् ॥

6.64.34

सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे ।
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि ॥

6.64.35

पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् ।
वीरबाहुं च सप्तत्या साश्वकेतुं ससारथिम् ॥

6.64.36

निनाय समरे वीरः परलोकाय पाण्डवः ।
भीमं भीमरथं चोभौ भीमसेनो हसन्निव ॥

6.64.37

पुत्रौ ते दुर्मदौ राजन्ननयद्यमसादनम् ।
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे ॥

6.64.38

मिषतां सर्वसैन्यानामनयद्यमसादनम् ।
पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् ॥

6.64.39

शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः ।
विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ॥

6.64.40

ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान् ।
एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ॥

6.64.41

यथा प्राग्र्यान्यथा ज्येष्ठान्यथा शूरांश्च सन्गतान् ।
निपातयत्युग्रधन्वा तं प्रगृह्णीत माचिरम् ॥

6.64.42

एवमुक्त्वा ततः सर्वे धार्तराष्ट्रस्य सैनिकाः ।
अभ्यद्रवन्त सन्क्रुद्धा भीमसेनं महाबलम् ॥

6.64.43

भगदत्तः प्रभिन्नेन कुञ्जरेण विशाम्पते ।
अभ्ययात्सहसा तत्रयत्र भीमो व्यवस्थितः ॥

6.64.44

आपतन्नेव च रणे भीमसेनं शिलीमुखैः ।
अदृश्यं समरे चक्रे जीमूत इव भास्करम् ॥

6.64.45

अभिमन्युमुखास्तत्तु नामृष्यन्त महारथाः ।
भीमस्याच्छादनं शङ्ख्ये स्वबाहुबलमाश्रिताः ॥

6.64.46

त एनं शरवर्षेण समन्तात्पर्यवारयन् . 6-64-46ब्गजं च शरवृष्ट्या तु बिभिदुस्ते समन्ततः ॥

6.64.47

स शस्त्रवृष्ट्याऽभिहतः समस्तैस्तैर्महारथैः ।
प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ॥

6.64.48

सञ्जातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे ।
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ॥

6.64.49

सञ्चोदितो मदस्रावी भगदत्तेन वारणः ।
अभ्यधावत तन्सर्वान्कालोत्सृष्ट इवान्तकः ॥

6.64.50

द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् ।
तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः ॥

6.64.51

असह्यं मन्यमानाश्च नातिप्रमनसोऽभवन् ।
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे ॥

6.64.52

आजघान महाराज शरेणानतपर्वणा । सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः ।

6.64.53

मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिं समाश्रयत् ।
तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्च्छितम् ॥

6.64.54

ननाद बलवन्नादं भगदत्तः प्रतापवान् ।
ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथाऽगतं ॥

6.64.55

सन्क्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत ।
स कृत्वा दारुणां मायां भूरूणां भयवर्धिनीम् ॥

6.64.56

अदृश्यत निमेषार्धाद्धोररूपं समास्थितः ।
ऐरावतं समारूढः स वै मायाकृतं स्वयम् ॥

6.64.57

तस्य चान्येऽपि दिङ्वागा बभूवुरनुयायिनः ।
अञ्जनो वमानश्चैव महापद्मश्च सुप्रभः ॥

6.64.58

त्रय एते महानागा राक्षसैः समधिष्ठिताः ।
महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु ॥

6.64.59

तेजोवीर्यबलोपेता महाबलपराक्रमाः ।
घटोत्कचस्तु स्वं नागं चोदयामास तं तदा ॥

6.64.60

सगजं भगदत्तं तु हन्तुकामः परन्तपः ।
ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः ॥

6.64.61

परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् ।
भगदत्तस्य तं नागं विषाणैरभ्यपीडयन् ॥

6.64.62

स पीड्यमानस्तैर्नागैर्वेदनार्तः शराहतः ।
अनदत्सुमहानादमिन्द्राशनिसमस्वनम् ॥

6.64.63

व्यवर्तत महाघोषो भैमसेनिशरार्दितः ।
मृदित्वा सर्वसैन्यानि तव पुत्रस्य भारत ॥

6.64.64

तस्य तं नदतो नादं सुघोरं भीमनिःश्वनम् ।
श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ॥

6.64.65

एष युध्यति सन्ग्रामे हैडिम्बेन दुरात्मना ।
भगदत्तो महेष्वासः कृच्छ्रे च परिवर्तते ॥

6.64.66

राक्षसश्च महामायः स च राजाऽतिकोपनः ।
एतौ समेतौ समरे कालमृत्युसमावुभौ ॥

6.64.67

श्रीयते चैव हृष्टानां पाण्डवानां महास्वनः ।
हस्तिनश्चैव सुमहान्भीतस्य रुदितध्वनिः ॥

6.64.68

तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् ।
अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यति ॥

6.64.69

ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे ।
महान्हि वर्तते रौद्रः सन्ग्रामो रोमहर्षणः ॥

6.64.70

भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः ।
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युत ॥

6.64.71

भीष्मस्य तद्वचः श्रुत्वा सर्व एव महारथाः ।
द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया ॥

6.64.72

उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् ।
तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः ॥

6.64.73

पञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान् ।
तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् ॥

6.64.74

ननाद सुमहानादं विस्फोटमशनेरिव ।
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः ॥

6.64.75

भीष्मः शान्तनवो भूयो भारद्वाजमभाषत ।
न रोचते मे सन्ग्रामो हैडिम्बेन दुरात्मना ॥

6.64.76

बलवीर्यमसाविष्टः ससहायश्च साम्प्रतज् ।
नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् ॥

6.64.77

लब्धलक्षः प्रहारी च वयं च श्रान्तवाहनाः ।
पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ॥

6.64.78

इदानीं युधि निर्जेतुं न शक्योऽसौ स राक्षसः . अस्तमभ्येति सविता रात्रौ योद्धुं कन शक्यते ।
अवहारमतः कुर्मः श्वो योत्स्यामः परै सह ॥

6.64.79

पितामहवचः श्रुत्वा यथा चक्रुःस्म कौरवाः ।
उपायेनापयानं ते घटोत्कचभयार्दिताः ॥

6.64.80

कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः ।
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च भारत ॥

6.64.81

एवं तदभवद्युद्धं दिवसं भरतर्षभ ।
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ॥

6.64.82

कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् ।
व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ॥

6.64.83

शरविक्षतगात्रास्तु पाण्डपपुत्रा महारथाः ।
युद्धे सुमनसो भूत्वा जग्मुः स्वशिबिरं प्रति ॥

6.64.84

पुरस्कृत्य महाराज भीमसेनघटोत्कचौ ।
पूजयन्तस्तदान्योन्यं मुदा परमया युताः ॥

6.64.85

नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् ।
सिंहनादांश्च कुर्वन्तो विमिश्राञ्शङ्खनिः स्वनैः ॥

6.64.86

विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् . घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष ।

6.64.87

प्रयाताः शिबिरायैव निशाकाले परन्तप ।
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च ॥

6.64.88

मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः । ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि ।
प्रदध्यौ शोकसन्तप्तो भ्रातृव्यसनकर्शितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc