भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.55

6.55.1

ततोऽपराह्णभूयिष्ठे तस्मिन्नहनि भारत ।
रथनागाश्वपत्तीनां सादिनां च महाक्षये ॥

6.55.2

द्रोणपुत्रेण शल्येन कृपेण च महात्मना ।
समसज्जत पाञ्चाल्यस्त्रिभिरैतैर्महारथैः ॥

6.55.3

स लोकविदितानश्वान्निजघान महाबलः ।
द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ॥

6.55.4

ततः शल्यरथं तूर्णमास्थाय हतवाहनः ।
द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ॥

6.55.5

धृष्टद्युम्नं तु संयुक्तं द्रौणिना वीक्ष्य भारत ।
सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ॥

6.55.6

स शल्यं प़ञ्चविंशत्या कृपं च नवभिः शरैः ।
अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभः ॥

6.55.7

आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा ।
शल्योऽथ दशभिश्चैव कृपश्च निशितैस्त्रिभिः ॥

6.55.8

लक्ष्मणस्तव पौत्रस्तु सौभद्रं समवस्थितम् ।
अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ॥

6.55.9

दौर्योधनिः सुसन्क्रुद्धः सौभद्रं परवीरहा ।
विव्याध समरे राजंस्तदद्भुतमिवाभवत् ॥

6.55.10

अभिमन्युः सुसन्क्रुद्धो भ्रातरं भरतर्षभ ।
शरैः पञ्चाशतै राजन्क्षिप्रहस्तोऽभ्यविध्यत ॥

6.55.11

लक्ष्मणोऽपि पुनस्तस्य धनुश्चिच्छेद पत्रिणा ।
मुष्टिदेशे महाराज ततस्ते चुक्रुशुर्जनाः ॥

6.55.12

तद्विहाय धनुश्छिन्नं सौभद्रं परवीरहा ।
अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ॥

6.55.13

तौ तत्र समरे युक्तौ कृतप्रतिकृतैषिणौ ।
अन्योन्यं विशिस्वैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ॥

6.55.14

ततो दुर्योधनो राज दृष्ट्वा पुत्रं महारथम् ।
पीडितं तव पौत्रेण प्रायात्तत्र प्रजेश्वरः ॥

6.55.15

सन्निवृत्ते तव सुते सर्व एव जनाधिपाः ।
आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ॥

6.55.16

स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः ।
न स्म प्रव्यथते राजन्कृष्णतुल्यपराक्रमः ॥

6.55.17

सौभद्रमथ संसक्तं दृष्ट्वा तत्र धनञ्जयः ।
अभिदुद्राव वेगेन त्रातुकामः स्वमात्मजम् ॥

6.55.18

ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः ।
अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ॥

6.55.19

उद्वूतं सहसा भौमं नागाश्वरथपत्तिभिः ।
दिवाकररथं प्राप्य रजस्तीव्रमदृश्यत ॥

6.55.20

तानि नागसहस्राणि भूमिपालशतानि च ।
तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥

6.55.21

प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः ।
कुरूणां चानयस्तीव्रः समदृश्यत दारुणः ॥

6.55.22

नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः ।
प्रजज्ञे भरतश्रेष्ठ सस्त्रसङ्घैः किरीटिनः ॥

6.55.23

सादिता रथनागाश्च हताश्वा रथिनो रणे ।
विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ॥

6.55.24

विरथा रथिनश्चान्ये धावमानाः समन्ततः ।
तत्रतत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ॥

6.55.25

हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः ।
अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ॥

6.55.26

रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः ।
पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनसायकैः ॥

6.55.27

सगदानुद्यतान्बाहून्सखङ्गांश्च विशाम्पते ।
सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ॥

6.55.28

साङ्कुशाकन्सपताकांश्च तत्रतत्रार्जुनो नृणाम् ।
निचकर्त शरैरुग्रै रौद्रं वपुरधारयत् ॥

6.55.29

परिघाणां प्रदीप्तानां मुद्गराणां च मारिष ।
प्रासानां भिन्दिपालानां निस्त्रिशानां च संयुगे ॥

6.55.30

परश्वथानां पीक्ष्णानां तोमराणां च भारत ।
वर्मणां चापविद्धानां काञ्चनानां च भूमिप ॥

6.55.31

ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः ।
छत्राणां हेमदण्डानां तोमराणां च भारत ॥

6.55.32

प्रतोदानां च योक्राणां कशानां चैव मारिष ।
राशयः स्मात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ॥

6.55.33

नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत ।
योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथञ्चन ॥

6.55.34

यो यो हि समरे पार्थं प्रत्युद्याति विशाम्पते ।
स सङ्ख्ये विशिखैस्तीक्ष्णैः परलोकाय नीयते ॥

6.55.35

तेषु विद्रवमाणेषु तव योधेषु सर्वशः ।
अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ॥

6.55.36

तत्पभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव ।
अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ॥

6.55.37

एष पाण्डुसुतो वीर कृष्णेन सहितो बली ।
तथा करोति सैन्यानि यथा कुर्याद्धṉअञ्जयः ॥

6.55.38

न ह्येष समरे शक्यो विजेतुं हि कथञ्चन ।
यथास्य दृश्यते रूप कालान्तकयमोपमम् ॥

6.55.39

न निवर्तयितुं चापि शक्येयं महती चमूः ।
अन्योन्यप्रेया पश्य द्रवतीयं वरूथिनी ॥

6.55.40

एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते ।
चक्षूंषि सर्वलोकस्य संहरन्निव सर्वथा ॥

6.55.41

तत्रावहारं सम्प्राप्तं मन्येऽहं पुरुषर्षभ ।
श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथञ्चन ॥

6.55.42

एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् ।
अवहारमथो चक्रे तावकानां महारथः ॥

6.55.43

ततः सरथनागाश्वा जंय प्राप्य समोपकाः ।
पाञ्चालाः पाण्डवाश्चैव प्रणेदुश्च पुनः पुनः ॥

6.55.44

प्रययुः शिबिरायैव धनञ्जयपुरस्कृताः । वादित्रघोषैः संहृष्टा प्रणद्यन्तो महारथाः ॥

6.55.45

ततोऽवहारः सैन्यानां तव तेषां च भारत ।
अस्तं गच्छति सूर्येऽभूत्सन्ध्याकाले च वर्तति ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc