भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.5

6.5.1

नदीनां पर्वतानां च नामधेयानि सञ्जय ।
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ॥

6.5.2

प्रमाणं च प्रमाणज्ञ पृथिव्या मम सर्वतः ।
निखिलेन समाचक्ष्व काननानि च सञ्जय ॥
सञ्जय उवाच ।

6.5.3

पञ्चेमानि महाराज महाभूतानि सन्ग्रहात् ।
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ॥

6.5.4

भूमिरापस्तथा वायुरग्निराकाशमेव च ।
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ॥

6.5.5

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिःक ॥

6.5.6

चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते । शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ।
शब्दः स्पर्शश्च वायौ द्वौ अकाशे शब्द एव तु ॥

6.5.7

एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु ।
वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः ॥

6.5.8

अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा ॥

6.5.9

यदा तु विषमीभावमाविशन्ति परस्परम् ।
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ॥

6.5.10

आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः ।
सर्वाम्यपरिमेयाणि तदेषां रूपमैश्वरम् ॥

6.5.11

तत्रतत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ।
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥

6.5.12

अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् ।
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ॥

6.5.13

सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन ।
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ॥

6.5.14

नदीजालप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः ।
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥

6.5.15

वृक्षैः पुष्पफलोपेतैः सम्पन्नधनधान्यवान् ।
लवणेन समुद्रेण समन्तात्परिवारितः ॥

6.5.16

यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः ।
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ॥

6.5.17

द्विरशस्तु ततः प्लक्षो द्विरंशः शाल्मलिर्महान् . द्विरंशः पिप्पलस्तस्य द्विरंशश्च कुशो महान् ।
सर्वौषधिसमापन्नः पर्वतैः परिवारितः ॥

6.5.18

आपस्ततोऽन्या विज्ञेयाः शेषः सन्क्षेप उच्यते ।
ततोऽन्य उच्यते चायमेनं सन्क्षेपतः श्रृणु ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc