भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.48

6.48.1

एवं श्वेते महेष्वासे प्राप्ते शल्यरथं प्रति ।
कुरवः पाण्डवेयाश्च किमकुर्वत सञ्जय ॥

6.48.2

भीष्मः शान्तनवः किं वा तन्ममाचक्ष्व पृच्छतः ।
सञ्जय उवाच ।
राजञ्शतसहस्राणि ततः क्षत्रियपुङ्गवाः ॥

6.48.3

श्वेतं सेनापतिं शूरं पुरस्कृत्य महारथाः ।
राज्ञो बलं दर्शयन्तस्तव पुत्रस्य भारत ॥

6.48.4

शिखण्डिनं पुरस्कृत्य त्रातुमैच्छन्महारथाः ।
अभ्यवर्तन्त भीष्मस्य रथं हेमपरिष्कृतम् ॥

6.48.5

जिघांसन्तं युधांश्रेष्ठं तदासीत्तुमुलं महत् ।
तत्तेऽहं सम्प्रवक्ष्यामि महावैशसमच्युत ॥

6.48.6

तावकानां परेषां च यथा युद्धमवर्तत ।
तत्राकरोद्रथोपस्थाञ्शून्याञ्शान्तनवो बहून् ॥

6.48.7

तत्राद्भुतं महच्चक्रे शरैरार्च्छद्रथोत्तमान् ।
समावृणोच्छरैरर्कमर्कतुल्यप्रतापवान् ॥

6.48.8

नुदन्समन्तात्समरे रविरुद्यन्यथा तमः ।
तेनाजौ प्रेषिता राजञ्शराः शतसहस्रशः ॥

6.48.9

क्षत्रियान्तकराः सङ्ख्ये महावेगा महाबलाः ।
शिरांसि पातयामासुर्वीराणां शतशो रणे ॥

6.48.10

गजान्कण्टकसन्नाहान्वज्रेणेव शिलोच्चयान् ।
रथा रथेषु संसक्ता व्यदृश्यन्त विशाम्पते ॥

6.48.11

एके रथं पर्यवहंस्तुरगाः सतुरन्गमम् ।
युवानं निहतं वीरं लम्बमानं सकार्मुकम् ॥

6.48.12

उदीर्णाश्च हया राजन्वहनक्तस्तत्रतत्र ह ।
बद्धस्वङ्गनिषङ्गाश्च विध्वस्तशिरसो हताः ॥

6.48.13

शतशः पतिता भूमौ वीरशय्यासु शेरते ।
परस्पेरण धावन्तः पतिताः पुनरुत्थिताः ॥

6.48.14

उत्थाय च प्रधावन्तो द्वन्द्वयुद्धमवाप्नुवन् ।
पीडिताः पुनरन्योन्यं लुठन्तो रणमूर्धनि ॥

6.48.15

सचापाः सनिषङ्गाश्च जातरूपपरिष्कृताः ।
विस्रब्धहतवीराश्च शतशः परिपीडिताः ॥

6.48.16

तेनतेनाभ्यधावन्त विसृजन्तश्च भारत ।
मत्तो गजः पर्यवर्तद्धयांश्च हतसादिनः ॥

6.48.17

सरथा रथिनश्चापि विमृद्गन्तः समन्ततः ।
स्यान्दनादपतत्कश्चिन्निहतोऽन्येन सायकैः ॥

6.48.18

हतसारथिरप्युच्चैः पपात काष्ठवद्रथः ।
युध्यमानस्य सन्ग्रामे व्यूढे रजसि चोत्थिते ॥

6.48.19

धनुःकूजितविज्ञानं तत्रासीत्प्रतियुद्ध्यतः ।
गात्रस्पर्शेन योधानां व्यज्ञास्त परिपन्थिनम् ॥

6.48.20

युद्ध्यमानं शरै राजन्सिञ्जिनीध्वजिनीरवात् ।
अन्योन्यं वीरसंशब्दो नाश्रूयत भटैः कृतः ॥

6.48.21

शब्दायमाने सन्ग्रामे पटहे कर्णदारिणि ।
युध्यमानस्य सन्ग्रामे कुर्वतः पौरुषं स्वकम् ॥

6.48.22

नाश्रौषं नामगोत्राणि कीर्तनं च परस्परम् ।
भीष्मचापच्युतैर्बाणैरार्तानां युध्यतां मृधे ॥

6.48.23

परस्परेषां वीराणां मनांसि समकम्पयन् ।
तस्मिन्नत्याकुले युद्धे दारुणे रोमहर्षणे ॥

6.48.24

पिता पुत्रं च समरे नाभिजानाति कश्चन ।
चक्रे भग्ने युगे च्छिन्ने एकधुर्ये हये हतः ॥

6.48.25

आक्षिप्तः स्यन्दनाद्वीरः समारथिरजिह्मगैः ।
एवं च समरे सर्वे वीराश्च विरथीकृताः ॥

6.48.26

तेन तेन स्म दृश्यन्ते धावमानाः समन्ततः ।
गजो हतः शिरश्छिन्नं मर्म भिन्नं हयो हतः ॥

6.48.27

अहतः कोपि नैवासीद्भीष्मे नघ्नति शात्रवान् ।
श्वेतः कुरूणामकरोत्क्षयं तस्मिन्महाहवे ॥

6.48.28

राजपुत्रान्रथोदारानवधीच्छतसङ्घशः ।
चिच्छेद रथिनां बाणैः शिरांसि भरतर्षभ ॥

6.48.29

साङ्गदा बाहवश्चैव धनूंषि च समन्ततः ।
रथेषां रथचक्राणि तूणीराणि युगानि च ॥

6.48.30

छत्राणि च महार्हाणि पताकाश्च विशाम्पते ।
हयैघाश्च रथौघाश्च नरौघाश्चैव भारत ॥

6.48.31

वारणाः शतशश्चैव हताः श्वेतेन भारत ।
वयं श्वेतभयाद्भीता विहाय रथसत्तमम् ॥

6.48.32

अपयातास्तथा पश्चाद्विभुं पश्याम धृष्णवः ।
शरपातमतिक्रम्य कुरवः कुरुनन्दन ॥

6.48.33

भीष्मं शान्तनवं युद्धे स्थिताः पश्याम सर्वशः ।
अदीनो दीनसमये भीष्मोऽस्माकं महाहवे ॥

6.48.34

एकस्तस्थौ नरव्याघ्रो गिरिर्मेरुरिवाचलः ।
आददान इव प्राणान्सविता शिशिरात्यये ॥

6.48.35

गभस्तिभिरिवादित्यस्तस्थौ शरमरीचिमान् ।
स मुमोच महेष्वासः शरसङ्घाननेकशः ॥

6.48.36

निघ्नन्नमित्रान्समरे वज्रपाणिरिवासुरान् ।
ते वध्यमाना भीष्मेण प्रजहुस्तं महाबलम् ॥

6.48.37

स्वयूथादिव ते यूथान्मुक्तं भूमिषु दारुणम् ।
तमेवमुपलक्ष्यैको हृष्टः पुष्टः परन्तप ॥

6.48.38

दुर्योधनप्रिये युक्तः पाण्डवान्परिशोचयन् ।
जीवितं दुस्त्यजं त्यक्त्वा भयं च सुमहाहवे ॥

6.48.39

पातयामास सैन्यानि पाण्डवानां विशाम्पते ।
प्रहरन्तमनीकानि पिता देवव्रतस्तव ॥

6.48.40

दृष्ट्वा सेनापतिं भीष्मस्त्वरितः श्वेतमभ्ययात् ।
स भीष्मं शरजालेन महता समवाकिरत् ॥

6.48.41

श्वेतं चापि तथा भीष्मः शरौघैः समवाकिरत् ।
तौ वृषाविव नर्दन्तौ मत्ताविव महाद्विपौ ॥

6.48.42

व्याघ्राविव सुसंरब्धावन्योन्यमभिजघ्नतुः ।
अस्त्रैरस्त्राणि संवार्य ततस्तौ पुरुषर्षभौ ॥

6.48.43

भीष्मः श्वेतश्च युयुधे परस्परवधैषिणौ ।
एकाह्ना निर्दहेद्भीष्मः पाम्डवानामनीकिनीम् ॥

6.48.44

शरैः परमसन्क्रुद्धो यदि श्वेतो न पालयेत् ।
पितामहं ततो दृष्ट्वा श्वेतो विमुखीकृतम् ॥

6.48.45

प्रहर्षं पाण्डवा जग्मुः पुत्रस्ते विमनाभवत् ।
ततो दुर्योधनः क्रुद्धः पार्थिवैः परिवारितः ॥

6.48.46

ससैन्यः पाण्डवानीकमभ्यद्रवत संयुगे ।
दुर्मुखः कृतवर्मा च कृपः शल्यो विशाम्पतिःक ॥

6.48.47

भीष्मं जुगुपुरासाद्य तव पुत्रेण नोदिताः ।
दृष्ट्वा तु पार्थिवैः सर्वैर्दुर्योधनपुरोगमैः ॥

6.48.48

पाण्डवानामनीकानि वध्यमानानि संयुगे ।
श्वेतो गाङ्गेयमुत्सृज्य तव पुत्रस्य वाहिनीम् ॥

6.48.49

नाशयामास वेगेन वायुर्वृक्षानिवौजसा ।
द्रावयित्वा चमूं राजन्वैराटिः क्रोधमूर्च्छितः ॥

6.48.50

आपतत्सहसा भूयो यत्र भीष्मो व्यवस्थितः ।
तौ तत्रोपगतौ राजञ्शरदीप्तौ महाबलौ ॥

6.48.51

अयुध्येतां महात्मानौ यथोभौ वृत्रवासवौ ।
अन्योन्यं तु महाराज परस्परवधैषिणौ ॥

6.48.52

निगृह्य कार्मुकं श्वेतो भीष्मं विव्याध सप्तभिः ।
पराक्रमं ततस्तस्य पराक्रम्य पराक्रमी ॥

6.48.53

तरसा वारयामास मत्तो मत्तमिव द्विपम् ।
श्वेतः शान्तनवं भूयः शरैः सन्नतपर्वभिः ॥

6.48.54

विव्याध प़ञ्चविंशत्या तदद्भुतमिवाभवत् ।
तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवस्तदा ॥

6.48.55

स विद्धस्तेन बलवान्नाकम्पत यथाऽचलः ।
वैराटिः समरे क्रुद्धो भृशमायम्य कार्मुकम् ॥

6.48.56

आजघान ततो भीष्मं श्वेतः क्षत्रियनन्दनः ।
सम्प्रहस्य तत श्वेतः सृक्किणी परिसंलिहन् ॥

6.48.57

घनुश्चिच्छेद भीष्मस्य नवभिर्दशधा शरैः ।
सन्धाय विशिखं चैव शरं लोमप्रवाहिनम् ॥

6.48.58

उन्ममाथ ततस्तालं ध्वजशीर्षं महात्मनः ।
केतुं निपतितं दृष्ट्वा भीष्मस्य तनयास्तव ॥

6.48.59

हतं भीष्मममन्यन्त श्वेतस्य वशमागतम् ।
पाण्डवाश्चापि संहृष्टा दध्मुः शङ्खान्मुदा युताः ॥

6.48.60

भीष्मस्य पतितं केतुं दृष्ट्वा तालं महात्मनः ।
ततो दुर्योधनः क्रोधात्स्वमनीकमनोदयत् ॥

6.48.61

यत्ता भीष्मं परीप्सध्वं रक्षमाणाः समन्ततः ।
मा नः प्रपश्यमानानां श्वेतान्मृत्युमवाप्स्यति ॥

6.48.62

भीष्मः शान्तनवः शूरस्तथा सत्यं ब्रवीमि वः ।
राज्ञस्तु वचनं श्रत्वा त्वरमाणा महारथाः ॥

6.48.63

बलेन चतुरङ्गेण गाङ्गेयप्रन्वपालयन् ।
बाह्लीकः कृतवर्मा च शलः शल्यश्च भारत ॥

6.48.64

जलसन्धो विकर्णश्च चित्रसेनो विविंशतिः ।
त्वरमाणास्त्वराकाले परिवार्य समन्ततः ॥

6.48.65

शस्त्रवृष्टिं सुतुमुलां श्वेतस्योपर्यपातयन् ।
तान्क्रुद्धो निशितैर्बाणैस्त्वरमाणो महारथः ॥

6.48.66

अवारयदमेयात्मा दर्शयन्पाणिलाघवम् ।
स निवार्य तु तान्सर्वान्केसरी कुञ्जराविव ॥

6.48.67

महता शरवर्षेण भीष्मस्य धनुराच्छिनत् ।
ततोऽन्यद्धनुरादाय भीष्मः शान्तनवो युधि ॥

6.48.68

श्वेतं विव्याध राजेन्द्र कङ्कपत्रैः शितैः शरैः ।
ततः सेनापतिः क्रुद्धो भीष्मं बहुभिरायसैः ॥

6.48.69

विव्याध समरे राजन्सर्वलोकस्य पश्यतः ।
ततः प्रव्यथितो राजा भीष्मं दृष्ट्वा निवारितम् ॥

6.48.70

प्रवीरं सर्वलोकस्य श्वेतेन युधि वै तदा ।
निष्ठानकश्च सुमहांस्तव सैन्यस्य चाभवत् ॥

6.48.71

तं वीरं वारितं दृष्ट्वा श्वेतेन शरविक्षतम् ।
हतं श्वेतेन मन्यन्ते श्वेतस्य वशमागतम् ॥

6.48.72

ततः क्रोधवशं प्राप्तः पिता देवव्रतस्तव ।
ध्वजमुन्मतितं दृष्ट्वा तां च सेनां निवारिताम् ॥

6.48.73

श्वेतं प्रति महाराज व्यसृजत्प्तायकान्बहून् ।
तानावार्य रणे श्वेतो भीष्मस्य रथिनां वरः ॥

6.48.74

धनुश्चिच्छेद भल्लेन पुनरेव पितुस्तव ।
उत्सृज्य कार्मुकं राजन्गाङ्गेयः क्रोधमूर्च्छितः ॥

6.48.75

अन्यत्कार्मुकमादाय विपुलं बलवत्तरम् ।
तत्र सन्धाय विपुलान्भल्लान्सप्त शिलाशितान् ॥

6.48.76

चतुर्भिश्च जघानाश्वाञ्श्वेतस्य पृतनापतेः ।
ध्वजं द्वाभ्यां तु चिच्छेद सप्तमेन च सारथे ॥

6.48.77

शिरश्चिच्छेद भल्लेन सन्क्रुद्धोऽलघुविक्रमः ।
हताश्वसूतात्सु रथादवप्लुत्य महाबलः ॥

6.48.78

अमर्षवशमापन्नो व्याकुलः समपद्यत ।
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पितामहः ॥

6.48.79

ताडयामास निशितैः शरसङ्घैः समन्ततः ।
स ताड्यमानः समरे भीष्मचापच्युतैः शरैः ॥

6.48.80

स्वरथे धनुरुत्सृज्य शक्तिं जग्राह काञ्चनीम् ।
ततः शक्तिं रणे श्वेतो जग्राहोग्रं महाभयाम् ॥

6.48.81

कालदण्डोपमां घोरां मृत्योर्जिह्वामेव श्वसन् ।
अब्रवीच्च तदा श्वेतो भीष्मं शान्तनवं रणे ॥

6.48.82

तिष्ठेदानीं सुसंरब्धः पश्य मां पुरुषो भव ।
एवमुक्त्वा महेष्वासो भीष्मं युधि पराक्रमी ॥

6.48.83

ततः शक्तिममेयात्मा चिक्षेप भुजगोपमाम् ।
पाण्डवार्थे पराक्रान्तस्तवानर्थं चिकीर्षुकः ॥

6.48.84

हाहाकारो महानासीत्पुत्राणां ते विशाम्पते ।
दृष्ट्वा शक्तिं महाघोरां मृत्योर्दण्डसमप्रभाम् ॥

6.48.85

श्वेतस्य करनिर्मुक्तां निर्मुक्तोरगसन्निभाम् ।
अपतत्सहसा राजन्महोल्केव नभस्तलात् ॥

6.48.86

ज्वलन्तीमन्तरिक्षे तां ज्वालाभिरिव संवृताम् ।
असम्भ्रान्तस्तदा राजन्पिता देवव्रतस्तव ॥

6.48.87

अष्टभिर्नवभिर्भीष्मः शक्तिं चिच्छेद पत्रिभिः ।
उत्कृष्टहेमविकृतां निकृतां निशितैः शरैः ॥

6.48.88

उच्चुक्रुशुस्ततः सर्वे तावका भरतर्षभ ।
शक्तिं विनिहतां दृष्ट्वा वैराटिः क्रोधमूर्च्छितः ॥

6.48.89

कालोपहतचेतास्तु कर्तवक्यं नाभ्यजानत ।
क्रोधसम्मूर्च्छितो राजन्वैराटिः प्रहसन्निव ॥

6.48.90

गदां जग्राह संहृष्टो भीष्मस्य निधनं प्रति ।
क्रोधेन रक्तनयनो दण्डपाणिरिवान्तकः ॥

6.48.91

भीष्मं समिदुद्राव जलौघ इव पर्वतम् ।
तस्य वेगमसंवार्यं मत्वा भीष्मः प्रतापवान् ॥

6.48.92

प्रहारविप्रमोक्षार्थं सहसा धरणीन्गतः ।
श्वेतः क्रोधसमाविष्टो भ्रामयित्वा तु तां गदाम् ॥

6.48.93

रथे भीष्मस्य चिक्षेप यथा देवो धनेश्वरः ।
तया भीष्मनिपातिन्या स रथो भस्मसात्कृतः ॥

6.48.94

सध्वजः सह सूतेन साश्वः सयुगबन्धुरः ।
विरथं रथिनां श्रेष्ठं भीष्मं दृष्ट्वा रथोत्तमकाः ॥

6.48.95

अभ्यधावन्त सहिताः शल्यप्रभृतयो रथाः ।
ततोऽन्यं रथमास्थाय धनुर्विस्फार्य दुर्मनाः ॥

6.48.96

शनकैरभ्यायाच्छ्वेतं गाङ्गेयः प्रहसन्निव ।
एतस्मिन्नन्तरे भीष्मः शुश्राव विपुलां गिरम् ॥

6.48.97

आकाशादीरितां दिव्यामात्मनो हितसम्भवाम् ।
भीष्मभीष्म महाबाहो शीघ्रं यत्नं कुरुष्व वै ॥

6.48.98

एष ह्यस्य जये कालो निर्दिष्टो विश्वयोनिना ।
एतच्छ्रुत्वा तु वचनं देवदूतेन भाषितम् ॥

6.48.99

सम्प्रहृष्टमना भूत्वा वधे तस्य मनो दधे ।
विरथं रथिनां श्रेष्ठं श्वेतं दृष्ट्वा पदातिनम् ॥

6.48.100

सहितास्त्वभ्यवर्तन्त परीप्सन्तो महारथाः ।
सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः ॥

6.48.101

कैकेयो धृष्टकेतुश्च अभिमन्युश्च वीर्यवान् ।
एतानापततः सर्वान्द्रोणशल्यकृपैः सह ॥

6.48.102

अवारयदमेयात्मा वारिवेगानिवाचलः ।
स निरुद्धेषु सर्वेषु पाण्डवेषु महात्मसु ॥

6.48.103

श्वेतः खङ्गमथाकृष्य भीष्मस्य धनुराच्छिनात् ।
तदपास्य धनुश्छिन्नं त्वरमाणः पितामहः ॥

6.48.104

देवदूतवचः श्रुत्वा वधे तस्य मनो दधे ।
ततः प्रचरमाणस्तु पिता देवव्रतस्तव ॥

6.48.105

अन्यत्कार्मुकमादाय त्वरमाणो महारथः ।
क्षणेन सज्यमकरोच्छक्रचापसमप्रभम् ॥

6.48.106

पिता ते भरतश्रेष्ठ श्वेतं दृष्ट्वा महारथैः ।
वृतं तं मनुजव्याघ्रैर्भीमसेनपुरोगमैःक ॥

6.48.107

अभ्यवर्तत गाङ्गेयः श्वेतं सेनापतिं द्रुतम् ।
आपतन्तं ततो भीष्मो भीमसेनं प्रतापवान् ॥

6.48.108

आजघ्ने विशिखैः षष्ट्या सेनान्यं स महारथः ।
अभिमन्युं च समरे पिता देवव्रतस्तव ॥

6.48.109

आजघ्ने भरतश्रेष्ठस्त्रिभिः सन्नतपर्वभिः . सात्यकिं च शतेनाजौ भरतानां पितामहः ॥ 6-48-110अधृष्टद्युम्नं च विंशत्या कैकेयं चापि पञ्चभिः . तांश्च सर्वान्महेष्वासान्पिता देवव्रतस्तव ॥

6.48.111

वारयित्वा शरैर्घोरैः श्वेतमेवाभिदुद्रुवे ।
ततः शरं मृत्युसमं भारसाधनमुत्तमम् ॥

6.48.112

विकृष्य बलवान्भीष्मः समाधत्त दुरासदम् ।
ब्रह्मास्त्रेण सुसंयुक्तं तं शरं लोमवाहिनम् ॥

6.48.113

ददृशुर्देवगन्धर्वाः पिशाचोरगराक्षसाः ।
स तस्य कवचं भित्वा हृदयं चामितौजसः ॥

6.48.114

जगाम धरणीं बाणो महाशनिरिव ज्वलन् ।
अस्तं गच्छन्यथाऽदित्यः प्रभाप्रादाय सत्वरः ॥

6.48.115

एवं जीवितमादाय श्वेतदेहाञ्जगाम ह ।
तं भीष्मेण नरव्याघ्रं तथा विनिहतं युधि ॥

6.48.116

प्रपतन्तमपश्याम गिरेः शृङ्गमिव च्युतम् ।
अशोचन्पाण्डवास्तत्र क्षत्रियाश्च महारथाः ॥

6.48.117

प्रहृष्टाश्च सुतास्तुभ्यं कुरवश्चापि सर्वशः . 6-48-117ब्ततो दुःशासनो राजञ्श्वेतं दृष्ट्वा निपातितम् ॥

6.48.118

वादित्रनिनदैर्घोरैर्नृत्यति स्म समन्ततः ।
तस्मिन्हते महेष्वासे भीष्मेणाहवशोभिना ॥

6.48.119

प्रावेपन्त महेष्वासाः शिखण्डिप्रमुखा रथाः ।
ततो धनञ्जयो राजन्वार्ष्णेयश्चापि सर्वशः ॥

6.48.120

अवहारं शनैश्चक्रुर्निहते वाहिनीपतौ ।
ततोऽवहारः सैन्यानां तव तेषां च भारत ॥

6.48.121

तावकानां परेषां च नर्दतां च मुहुर्मुहुः . पार्था विमनसो भूत्वा न्यवर्तन्त महारथाः ।
चिन्तयन्तो वधं घोरं द्वैरथेन परन्तपाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc