भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.46

6.46.1

राजञ्शतसहस्राणि तत्रतत्र पदातिनाम् ।
निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ॥

6.46.2

न पुत्रः पितरं जज्ञे पिता वा पुत्रमौरसम् ।
न भ्राता भ्रातरं तत्र स्वस्त्रीयं न च मातुलः ॥

6.46.3

न मातुलं च स्वस्रीयो न सखायं सखा तथा ।
आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ॥

6.46.4

रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः ।
अभज्यन्त युगैरेव युगानि भरतर्षभ ॥

6.46.5

रथेषाश्च रतेषाभिः कूरा रथकूबरैः ।
सन्गतैः सहिताः केचित्परस्परजिघांसवः ॥

6.46.6

न शेकुश्चलितुं केचित्सन्निपत्य रथा रथैः ।
प्रभिन्नास्तु महाकायाः सन्निपत्य गजा गजैः ॥

6.46.7

बहुधा दारयन्क्रुद्धा विषाणैरितरेतरम् ।
सतोरणपताकैश्च वारणा वरवारणैः ॥

6.46.8

अभिसृत्य महाराज वेगवद्भिर्महागजैः ।
दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ॥

6.46.9

अभिनीताश्च शिक्षाभिस्तोत्राङ्कुशसमाहताः ।
अप्रभिन्नाः प्रभिन्नानां सम्मुखाभिमुखा ययुः ॥

6.46.10

प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः ।
क्रौञ्चवन्निनदं कृत्वा दुद्रुवुः सर्वतो दिशम् ॥

6.46.11

सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः ।
ऋषितोमरनाराचैर्निर्विद्धा वरवारणाः ॥

6.46.12

प्रणेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ।
प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ॥

6.46.13

गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः ।
ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वथैः ॥

6.46.14

गदाभिर्मुसलैश्चैव भिन्दिपालैः सतोमरैः . आयसैः परिघैश्चैव निस्तिरंशैर्विमलै शितैः ।

6.46.15

प्रगृहीतैः सुसंरब्धा द्रवमाणास्ततस्ततः ।
व्यदृश्यन्त महाराज परस्परजिघांसवः ॥

6.46.16

राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः ।
प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ॥

6.46.17

अवक्षिप्तावधूतानामसीनां वीरबाहुभिः ।
सञ्जज्ञे तुमुलः शब्दः पततां परमर्मसु ॥

6.46.18

गदामुसलरुग्णानां भिन्नानां च वरासिभिः ।
दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ॥

6.46.19

तत्र तत्र नरौघाणां क्रोशतामितरेतरम् ।
शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ॥

6.46.20

हयैरपि हयारोहाश्चामरापीडधारिभिः ।
हंसैरिव महावेगैरन्योन्यमभिविद्रुताः ॥

6.46.21

तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः ।
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः ॥

6.46.22

अश्वैरग्न्यजवैः केचिदाप्लुत्य महतो रथात् ।
शिरांस्याददिरे वीरा रथिनामश्वसादिनः ॥

6.46.23

बहूनपि हयारोहान्भल्लैः सन्नतपर्वभिः ।
रथी जघान सम्प्राप्य बाणगोचरमागतान् ॥

6.46.24

नवमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः ।
पादैरेव विमृद्गन्ति मत्ताः कनकभूषणाः ॥

6.46.25

पाठ्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः ।
प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ॥

6.46.26

साश्वारोहान्हयान्कांश्चिदुन्मथ्य वरवारणाः ।
सहसा चिक्षिपुस्तत्र सन्कुले भैरवे सति ॥

6.46.27

साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्गजाः ।
रथौघानभिमृद्गन्तः सध्वजानभिचक्रमुः ॥

6.46.28

पुंस्त्वादतिमदत्वाच्च केचित्तत्र महागजाः ।
साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ॥

6.46.29

अश्वारोहैश्च समरे हस्तिसादिभिरेव च . प्रतिमानेषु गात्रेषु पार्श्वष्वभि च वारणान् ।
आशुगा विमलास्तीक्ष्णाः सम्पेतुर्भुजगोपमाः ॥

6.46.30

नराश्वकायान्निर्भिद्य लौहानि कवचानि च ।
निपेतुर्विमलाः शक्त्यो वीरबाहुभिरर्पिताः ॥

6.46.31

महोल्ककाप्रतिमा घोरास्तत्र तत्र विशाम्पते ।
द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मच्छदैरपि ॥

6.46.32

विकोशैर्विमलैः खङ्गैरभिजध्नुः परान्रणे ।
अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् ॥

6.46.33

विदर्शयन्तः सम्पेतुः खङ्गचर्मपरश्वथैः ।
केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः ॥

6.46.34

विकर्षन्तो दिशः सर्वाः सम्पेतुः सर्वशब्दगाः ।
शङ्कुभिर्दारिताः केचित्सम्भिन्नाश्च परश्वथैः ॥

6.46.35

हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरन्गमैः ।
रथनेमिनिकृत्ताश्च निकृत्ताश्च परश्वथैः ॥

6.46.36

व्याक्रोशन्त नरा राजंस्तत्रतत्र स्म बान्धवान् ।
पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बन्धुभिः ॥

6.46.37

मातुलान्भागिनेयांश्च परानपि च संयुगे ।
विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत ॥

6.46.38

बाहुभिश्चापरे छिन्नैः पार्श्वेषु च विदारिताः ।
क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ॥

6.46.39

तृषापरिगताः केचिदल्पसत्वा विशाम्पते ।
भूमौ निपतिताः सङ्ख्ये मृगयाञ्चक्रिरे जलम् ॥

6.46.40

रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत ।
व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च सन्गतान् ॥

6.46.41

अपरे क्षत्रिकयाः शूराः कृतवैराः परस्परम् . नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष ।
तर्जयन्ति च संहृष्टास्तत्रतत्र परस्परम् ॥

6.46.42

आदश्य दशनैश्चापि क्रोधात्स्वरदनच्छदम् ।
भ्रुकुटीकुटिलैर्वक्रैः प्रेक्षन्ति च परस्परम् ॥

6.46.43

अपरे क्लिश्यमानास्तु शरार्ता व्रणपीडिताः ।
निष्कूजाः समपद्यन्त दृढसत्वा महाबलाः ॥

6.46.44

अन्ये च विरथाः शूरा रथमन्यस्य संयुगे । प्रार्थयाना निपतिताः सन्क्षुण्णा वरवारणैः ।
अशोभन्त महाराज सपुष्पा इव किंशुकाः ॥

6.46.45

सम्बभूवुरनीकेषु बहवो भैरवस्वनाः ।
वर्तमाने महाभीमे तस्मिन्वीरवरक्षये ॥

6.46.46

निजघान पिता पुत्रं पुत्रश्च पितरं रणे ।
स्वस्त्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ॥

6.46.47

सखा सखायं च तथा सम्बन्धी बान्धवं तथा ।
एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ॥

6.46.48

वर्तमाने तथा तस्मिन्निर्मर्यादे भयानके ।
भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ॥

6.46.49

केतुना पञ्चतारेण तालेन भारतर्षभ . राजतेन महाबाहुरुच्छ्रितेन महारथे ।
बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc