भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.122

6.122.1

ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः ।
तूष्णीम्भूते महाराज भीष्मे शन्तनुनन्दने ॥

6.122.2

श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः ।
ईषदागतसन्त्रासस्त्वरयोपजगाम ह ॥

6.122.3

स ददर्श महात्मानं शरतल्पगतं तदा ।
जन्मशय्यागतं वीरं कार्तिकेयमिव प्रभुम् ॥

6.122.4

निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषा ।
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः ॥

6.122.5

राधेयोऽहं कुरुश्रेष्ठ नित्यमक्षिगतस्तव ।
द्वेभ्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह ॥

6.122.6

तच्छ्रुत्वा कुरुवृद्धो हि शरैः संवृतलोचनः ।
रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः ॥

6.122.7

पितेव पुत्रं गाङ्गेयः परिरभ्यैकपाणिना ।
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् ॥

6.122.8

न विप्रियं ममैवेह यत्स्पर्धेथा मया सह ।
यदि मां नाधिगच्छेथा न ते श्रेयो ध्रुवं भवेत् ॥

6.122.9

कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता ।
सूर्यजस्त्वं महाबाहो विदितो नारदान्मया ॥

6.122.10

कृष्णद्वैपायनाच्चैव तेजसा च न संशयः ।
न च द्वेषोस्ति मे तात त्वयि सत्यं ब्रवीमि ते ॥

6.122.11

तेजोवधनिमित्तं तु परुषं त्वाहमब्रुवम् ।
अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम ॥

6.122.12

येनासि बहुशो राज्ञा चोदितः सूतनन्दन ।
जातोऽसि धर्मलोपेन ततस्ते बुद्धिरीदृशी ॥

6.122.13

नीचाश्रयान्मत्सरेण द्वेषिणी गुमिनामपि ।
तेनासि बहुशो रूक्षं श्रावितः कुरुसंसदि ॥

6.122.14

जानामि समरे वीर्यं शत्रुभिर्दुःसहं भुवि ।
ब्रह्मण्यतां च शौर्यं च दाने च परमां स्थितिम् ॥

6.122.15

न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम ।
कुलभेदभयाच्चाहं सदा परुषमुक्तवान् ॥

6.122.16

इष्वस्त्रे भारसन्धाने लाघवेऽस्त्रबले तथा ।
सदृशः फल्गुनेनासि कृष्णेन च महात्मना ॥

6.122.17

कर्ण काशिपुरं गत्वा त्वयैकेन धनुष्मता ।
कन्यार्थे कुरुराजस्य राजानो मृदिता युधि ॥

6.122.18

तथा च बलवान्राजा जरासन्धो दुरासदः ।
समरे समरश्लाघिन्न त्वया सदृशोऽभवत् ॥

6.122.19

ब्रह्मण्यः सत्त्वयोधी च तेजसा च बलेन च ।
देवगर्भसमः सङ्ख्ये मनुष्यैरधिको युधि ॥

6.122.20

व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः ।
दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ॥

6.122.21

सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन ।
सन्गच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् ॥

6.122.22

मया भवतु निर्वृत्तं वैरमादित्यनन्दन ।
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः ॥
कर्ण उवाच ।

6.122.23

जानाम्येव महाबाहो सर्वमेतन्न संशयः ।
यथा वदसि मे भीष्म कौन्तेयोऽहं न सूतजः ॥

6.122.24

अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः ।
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे ॥

6.122.25

वसुदेवसुतो यद्वत्पाण्डवाय दृढव्रतः ।
वमु चैव शरीरं च पुत्रदारं तथा यशः ॥

6.122.26

सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण ।
मा चैतद्व्याधिमरणं क्षत्रं स्यादिति कौरव ॥

6.122.27

कोपिताः पाण्डवा नित्यं मयाऽश्रित्य सुयोधनम् ।
अवश्यभावी ह्यर्थोऽयं यो न शक्यो निवर्तितुम् ॥

6.122.28

दैवं पुरुषकारेण को विवर्तितुमुत्सहेत् ।
पृथिवीक्षयसंशीनि निमित्तानि पितामह ॥

6.122.29

भवद्भिरुपलब्धानि कथितानि च संसदि ।
पाण्डवा वासुदेवश्च विदिता मम सर्वशः ॥

6.122.30

अजेयाः पुरुषैरन्यैरिति तंश्चोत्सहामहे ।
विजयिष्ये रणे पाण्डूनिति मे निश्चितः मनः ॥

6.122.31

न च शक्यमवस्रष्टुं वैरमेतत्सुदारुणम् ।
धनञ्जयेन योत्स्येऽहं स्वधर्मप्रीतमानसः ॥

6.122.32

अनुजानीष्व मां तात युद्धाय कृतनिश्चयम् ।
अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः ॥

6.122.33

दुरुक्तं विप्रतीपं वा रभसाच्चापलात्तथा ।
यन्मयेह कृतं किञ्चित्तन्मे त्वं क्षन्तुमर्हसि ॥
भीष्म उवाच ।

6.122.34

न चेच्छक्यमवस्रष्टुं वैरमेतत्सुदारुणम् ।
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया ॥

6.122.35

निर्मन्युर्गतसंरम्भः कृतकर्मा रणे स्म ह ।
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् ॥

6.122.36

अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि ।
क्षत्रधर्मजिताँल्लोकानवाप्स्यसि धनञ्जयात् ॥

6.122.37

युध्यस्व निरहन्कारो बलवीर्यव्यपाश्रयः ।
धर्म्याद्धि युद्धादधिकं क्षत्रियस्य न विद्यते ॥

6.122.38

प्रशमे हि कृतो यत्नः सुमहान्सुचिरं मया ।
न चैव शकितः कर्तुं यतो धर्मस्ततो जयः ॥
सञ्जय उवाच ।

6.122.39

इत्युक्तवति गाङ्गेये अभिवाद्योपमन्त्र्य च ।
राधेयो रथमारुह्य प्रायात्तव सुतं प्रति ॥
वैशम्पायन उवाच ।

6.122.40

इत्येतद्बहुवृत्तान्तं भीष्मपर्वाखिलं मया ।
शृण्वते ते महाराज प्रोक्तं पापहरं शुभम् ॥

6.122.41

यः श्रावयेत्सदा राजन्ब्राह्मणान्वेदपारगान् ।
श्रद्धावन्तश्च ये चापि श्रोष्यन्ति मनुजा भुवि ॥

6.122.42

विधूय सर्वपापानि विहायान्ते कलेवरम् ।
प्रयान्ति तत्पदं विष्णोर्यत्प्राप्य न निवर्तते ॥

6.122.43

तस्मात्सर्वप्रयत्नेन भारतं भरतर्षभ ।
शृणुयात्सिद्धिमन्विच्छन्निह वामुत्र मानवः ॥

6.122.44

भोजनं भोजयेद्विप्रान्गन्धमाल्यैरलङ्कृतान् . भीष्मपर्वणि राजेन्द्र दद्यात्पानीयमुत्तमम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc