भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.12

6.12.1

उत्तरेषु च कौरव्य द्वीपेषु श्रूयते कथा ।
एवं तत्र महाराज ब्रुवतश्च निबोध मे ॥

6.12.2

घृततोयः समुद्रोऽत्र दधिमण्डोदकोऽपरः ।
सुरोदः सागरश्चैव तथान्यो जलसागरः ॥

6.12.3

परस्परेण द्विगुणाः सर्वे द्वीपा नराधिप ।
पर्वताश्च महाराज समुद्रैः परिवारिताः ॥

6.12.4

गौरस्तु मध्यमे द्वीपे गिरिर्मानःशिलो महान् ।
पर्वतः पश्चिमे कृष्णो नारायणसखो नृप ॥

6.12.5

तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः ।
प्रसन्नश्चाभवत्तत्र प्रजानां व्यदधत्सुखम् ॥

6.12.6

कुशस्तम्बः कुशद्वीपे मध्ये जनपदैः सह ।
सम्पूज्यते शाल्मलिश्च द्वीपे शाल्मलिके नृप ॥

6.12.7

क्रौञ्चद्वीपे महाक्रौञ्चो गिरी रत्नचयाकरः ।
सम्पूज्यते महाराज चातुर्वर्ण्येन नित्यदा ॥

6.12.8

गोमन्तः पर्वतो राजन्सुमहान्सर्वधातुमान् ।
यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥

6.12.9

मोक्षिभिः संस्तुतो नित्यं प्रभुर्नारायणो हरिः ।
कुशद्वीपे तु राजेन्द्र पर्वतो विद्रुमैश्चितः ॥

6.12.10

सुनामा नाम दुर्धर्षो द्वितीयो हेमपर्वतः ।
द्युतिमान्नाम कौरव्य तृतीयः कुमुदो गिरिः ॥

6.12.11

चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ।
षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ॥

6.12.12

तेषामन्तरविष्कम्भो द्विगुणः सर्वभागशः ।
औद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥

6.12.13

तृतीयं सुरथाकारं चतुर्थं कम्बलं स्मृतम् ।
धृतिमत्पञ्चमं वर्षं षष्ठं प्रभाकरम् ॥

6.12.14

सप्तमं कापिलं वर्षं सप्तैते वर्षलम्भकाः ।
एतेषु देवगन्धर्वाः प्रजाश्च जगतीश्वर ॥

6.12.15

विहरन्ते रमन्ते च न तेषु म्रियते जनः ।
न तेषु दस्यवः सन्ति म्लेच्छजात्योपि वा नृप ॥

6.12.16

गौरप्रायो जनः सर्वः सुकुमारश्च पार्थिव ।
अवशिष्टेषु सर्वेषु वक्ष्यामि मनुजेश्वर ॥

6.12.17

यथाश्रुतं महाराज तदव्यग्रमनाः श्रृणु ।
क्रौञ्चद्वीपे महारा क्रौञ्चो नाम महागिरिः ॥

6.12.18

क्रौञ्चात्परो वामनको वामनादन्धकारकः । अन्धकारात्परो राजन्मैनाकः पर्वतोत्तमः ।

6.12.19

मैनाकात्परतो रादन्गोविन्दो गिरिरुत्तमः ।
गोविन्दात्परतो राजन्निबिडो नाम पर्वतः ॥

6.12.20

परस्तु द्विगुणस्तेषां विष्कम्भो वंशवर्धन ।
देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः श्रृणु ॥

6.12.21

क्रोञ्चस्य कुशलो देशो वामनस्य मनोनुगः ।
मनोनुगात्परश्चोष्णो देशः कुरुकुलोद्वह ॥

6.12.22

उष्णात्परः प्रावरकः प्रावारादन्धकारकः ।
अन्धकारकदेशात्तु मुनिदेशः परः स्मृतः ॥

6.12.23

मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ।
सिद्धचारणसन्कीर्णो गौरप्रायो जनाधिप ॥

6.12.24

एते देशा महाराज देवगन्धर्वसेविताः ।
पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् ॥

6.12.25

तत्र नित्यं प्रभवति स्वयं देवः प्रजापतिः ।
तं पर्युपासते नित्यं देवाः सर्वे महर्षयः ॥

6.12.26

वाग्भिर्मनोनुकूलाभिः पूजयन्तो जनाधिप ।
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधान्युत ॥

6.12.27

द्वीपेषु तेषु सर्वेषु प्रजानां कुरुसत्तम ।
ब्रह्मचर्येण सत्येन प्रजानां हि दमेन च ॥

6.12.28

आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः । एको जनपदो राजन्द्वीपेष्वेतेषु भारत ।
उक्ता जनपदा येषु धर्मश्चैकः प्रदृश्यते ॥

6.12.29

ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः ।
द्वीपानेतान्महाराज रक्षंस्तिष्ठति नित्यदा ॥

6.12.30

स राजा स शिवो राजन्स पिता प्रतितामहः ।
गोपायति नरश्रेष्ठ प्रजाः सजडपण्डिताः ॥

6.12.31

भोजनं चात्र कौरव्य प्रजाः स्वयमुपस्थितम् ।
सिद्धमेव महाबाहो तद्धि भुञ्जन्ति नित्यदा ॥

6.12.32

ततः परं समा नाम दृश्यते लोकसंस्थितिः ।
चतुरश्र महाराज त्रयस्त्रिंशत्तु मण्डलम् ॥

6.12.33

तत्र तिष्ठन्ति कौरव्य चत्वारो लोकसम्मताः ।
दिग्गजा भरतश्रेष्ठ वामनैरावतादयः ॥

6.12.34

सुप्रतीकस्तदा राजन्प्रभिन्नकरटामुखः ।
तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे ॥

6.12.35

असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा ।
तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव हि ॥

6.12.36

असम्बद्धा महाराज तान्निगृह्णन्ति ते गजाः ।
पुष्करैः पद्मसन्काशैर्विकसद्भिर्महाप्रभैः ॥

6.12.37

शतधा पुनरेवाशु ते तान्मुञ्चन्ति नित्यशः . श्वसद्भिर्मुच्यमानास्तु दिग्गजैरिह मारुताः ।
आगच्छन्ति महाराज ततस्तिष्ठन्ति वै प्रजाः ॥
धृतराष्ट्र उवाच ।

6.12.38

परो वै विस्तरोऽत्यर्थं त्वया सञ्जय कीर्तितः ।
दर्शितं द्वीपसंस्थानमुत्तरं ब्रूहि सञ्जय ॥
सञ्जय उवाच ।

6.12.39

उक्ता द्वीपा महाराज ग्रहं वै शृणु तत्त्वतः ।
स्वर्भानोः कौरवश्रेष्ठ यावदेव प्रमाणतः ॥

6.12.40

परिमण्डलो महाराज स्वर्भानुः श्रूयते ग्रहः ।
योजनानां सहस्राणि विष्कम्भो द्वादशास्य वै ॥

6.12.41

परिणाहेन षट्त्रिंशद्विपुलत्वेन चानघ ।
षष्टिमाहुः शतान्यस्य बुधाः पौराणिकास्तथा ॥

6.12.42

चन्द्रमास्तु सहस्राणि राजन्नेकादश स्मृतः ।
विष्कम्भेण कुरुश्रेष्ठ त्रयस्त्रिंशत्तु मण्डलम् ॥

6.12.43

एकोनषष्टिविष्कम्भं शीतरश्मेर्महात्मनः ॥

6.12.44

सूर्यस्त्वष्टौ सहस्राणि द्वे चान्ये कुरुनन्दन ।
विष्कम्भेण ततो राजन्मण्डलं त्रिंशता समम् ॥

6.12.45

अष्टपञ्चाशतं राजन्विपुलत्वेन चानघ ।
श्रूयते परमोदारः पतगोऽसौ विभावसुः ॥

6.12.46

एतत्प्रमाणमर्कस्य निर्दिष्टमिह भारत ।
स राहुश्छादयत्येतौ यथाकालं महात्तया ॥

6.12.47

चन्द्रादित्यौ महाराज सन्क्षेपोऽयमुदाहृतः ।
इत्येतत्ते महाराज पृच्छतः शास्त्रचक्षुषा ॥

6.12.48

सर्वमुक्तं यथातत्त्वं तस्माच्छममवाप्नुहि ।
यथोद्दिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् ॥

6.12.49

तस्मादाश्वस कौरव्य पुत्रं दुर्योधनं प्रति ।
श्रुत्वेदं भरतश्रेष्ठ भूमिपर्व मनोनुगम् ॥

6.12.50

श्रीमान्भवति राजन्यः सिद्धार्थः साधुसम्मतः ।
आयुर्बलं च कीर्तिश्च तस्य तेजश्च वर्धते ॥

6.12.51

यः शृणोति महीपाल पर्वणीदं यतव्रतः ।
प्रीयन्ते पितरस्तस्य तथैव च पितामहाः ॥

6.12.52

इदं तु भारतं वर्षं यत्र वर्तामहे वयम् ।
पूर्वैः प्रवर्तितं पुण्यं तत्सर्वं श्रुतवानसि ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc