भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.109

6.109.1

कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् ।
पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् ॥

6.109.2

केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधाः ।
त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः ॥

6.109.3

कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि ।
अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः ॥

6.109.4

न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिना ।
कच्चिन्न रथमद्गोऽस्व धनुर्वाऽशीर्यतास्थतः ॥
सञ्जय उवाच ।

6.109.5

नाशीर्यत धनुश्चास्य रथभङ्गो न चाप्यभूत् । युध्यमानस्य सन्ग्रामे भीष्मस्य भरतर्षभ ।
निघ्नतः समरे शत्रून्शरैः सन्नतपर्वभिः ॥

6.109.6

अनेकशतसाहस्रावकानां महारथाः ।
तथा दन्तिगणा राजन्हायश्चैव सुसञ्जिताः ॥

6.109.7

अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् ॥

6.109.8

यथाप्रतिज्ञं कौरव्य स चापि समिर्तिजयः ।
पार्यानामकरोद्भीष्मः सततं समिति क्षयम् ॥

6.109.9

युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः ।
पाञ्चालाः पाण्डवैः सार्ध सर्वतः पर्यवारयन् ॥

6.109.10

दशमेऽहनि सम्प्राप्ते ततस्तां रिपुवाहिनीम् ।
कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः ॥

6.109.11

न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज ।
अशक्नुवन्रणे जेतुं पाशहस्तमिवानतकम् ॥

6.109.12

अथोपायान्महाराज सव्यसाची धनञ्जयः ।
त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः ॥

6.109.13

सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः ।
शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे ॥

6.109.14

तस्य शब्देन वित्रस्तास्तावका भारतर्षभ ।
सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् ॥

6.109.15

जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् ।
दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः ॥

6.109.16

एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः ।
दहते मामकान्सर्वान्कृष्णवर्त्मेन काननम् ॥

6.109.17

पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः ।
पण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे ॥

6.109.18

यथा पशुगणान्पालः सन्कालयति कानने ।
तथेदं मामकं सैन्यं काल्यते शत्रुतापन ॥

6.109.19

धनञ्जयशरैर्भग्नं द्रवमाणं ततस्ततः ।
भीमोऽप्येवं दुराधर्पो विद्रावयति मे बलम् ॥

6.109.20

सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ ।
अभिमन्युः सुविक्रान्तो वाहिनीं द्रवते मम ॥

6.109.21

धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः ।
व्यद्रावयेतां सहसा सैन्यं मम महारणे ॥

6.109.22

वध्यमानस्य सैन्यस्य सर्वैरेतैर्महारथैः ।
नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत ॥

6.109.23

ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रमम् ।
पर्याप्तस्तु भवाञ्शीघ्रं पीडितानां गतिर्भव ॥
सञ्जय उवाच ।

6.109.24

एवमुक्तो महाराज पिता देवव्रतस्तव ।
चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः ॥

6.109.25

तव सन्धारयन्पुत्रमब्रवीच्छन्तनोः सुतः ।
दुर्योधन विजानीहि स्थिरो भूत्वा विशाम्पते ॥

6.109.26

पातयिष्ये रिपूनन्यान्पाण्डवान्प्रतिपालयन् . प्रतिज्ञातो जयो ह्यद्य पाण्डवानां महात्मनाम् ॥

6.109.27

पूर्वकालं तव मया प्रतिज्ञानं महाबल ।
हत्वा दशसहस्राणि क्षत्रियाणां महात्मनाम् ॥

6.109.28

सन्ग्रामादपयास्यामि ह्येतत्कर्म समाहितम् ।
इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ ॥

6.109.29

अद्य चापि महत्कर्म प्रकरिष्ये यथाबलम् ।
अहं वाऽद्य हतः शेष्ये हनिष्ये वाऽद्य पाण्डवान् ॥

6.109.30

अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः । किं पुनर्मर्त्यधर्मेण क्षत्रियेण महाबलाः ॥

6.109.31

अद्य ते पुरुषव्याघ्र प्रतरिष्ये ऋणं तव ।
भर्तृपिण्डकृतं राजन्निहताः पृतनामुखे ॥
सञ्जय उवाच ।

6.109.32

इत्युक्त्वा भरतश्रेष्ठ क्षत्रियान्प्रवपञ्छरैः ।
आससाद दुराधर्षः पाण्डवानामनीकिनीम् ॥

6.109.33

अनीकमध्ये तिष्ठन्तं गाङ्गेयं भारतर्षभ ।
आशीविषमिव क्रुद्धं पाण्डवाः प्रत्यवारयन् ॥

6.109.34

दशमेऽहनि भीष्मस्तु दर्शयञ्शक्तिमात्मनः ।
राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन ॥

6.109.35

पाञ्चालानां च ये श्रेष्ठा राजपुत्रा महारथाः ।
तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः ॥

6.109.36

हत्वा दशसहस्राणि कुञ्जराणां तरस्विनाम् ।
सारोहाणां महाराज हयानां चायुतं तथा ॥

6.109.37

पूर्णे शतसहस्रे द्वे पादातानां नरोत्तमः ।
प्रजज्वाल रणे भीष्मो विधूम इव पावकः ॥

6.109.38

न चैवं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् ।
उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् ॥

6.109.39

ते पाण्डवेवाः संरब्धा महेष्वासेन पीडिताः ।
वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः ॥

6.109.40

स वध्यमानो बहुभिर्भीष्मः शान्तनवस्तथा ।
अवकीर्णो महेष्वासैः शैलो मेघैरिवावृतः ॥

6.109.41

पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् ।
महत्या सेनया सार्धं ततो युद्धमवर्तत ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc