भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 6.107

6.107.1

युध्यतामेव तेषां तु भास्करेऽस्तमुपागते ।
सन्ध्या समभवद्धोरा नापश्याम ततो रणम् ॥

6.107.2

ततो युधिष्ठिरो राजा सन्ध्यां सन्दृश्य भारत ।
वध्यमानं च भीष्मेण त्यक्तास्त्रं भयविह्वलम् ॥

6.107.3

स्वसैन्यं च परावृत्तं पलायनपरायणम् ।
भीष्मं च युधि संरब्धं पीडयन्तं महारथम् ॥

6.107.4

सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान् । निशामुखं च सम्प्रेक्ष्य घोररूपं भयानकम् ।
चिन्तयित्वा ततो राज्ञामपहारमकारयत् ॥

6.107.5

ततोऽपहारं सैन्यानां चक्रे राजा युधिष्ठिरः ।
तथैव तव सैन्यानामपहारे ह्यभूत्तदा ॥

6.107.6

ततोऽपहारं सैन्यानां कृत्वा तत्र महारथाः ।
न्यविशन्त कुरुश्रेष्ठ सन्ग्रामे क्षतविक्षताः ॥

6.107.7

भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः ।
नालभन्त तदा शान्तिं भीष्मबाणप्रपीडिताः ॥

6.107.8

भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयान् ।
पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत ॥

6.107.9

न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः ।
ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी ॥

6.107.10

तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह ।
सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन् ॥

6.107.11

आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः ।
मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः ॥

6.107.12

ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप ।
वासुदेवं समुद्वीक्ष्य वचनं चेदमाददे ॥

6.107.13

कृष्ण पश्य माहात्मानं भीष्मं भीमपराक्रमम् ।
गजं नलवनानीव विमृद्गन्तं बलं मम ॥

6.107.14

न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् ।
लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम् ॥

6.107.15

यथा घोरो महानागस्तक्षको वै विषोल्बणः ।
तथा भीष्मो रणे क्रुद्धस्तीक्ष्णशस्त्रः प्रतापवान् ॥

6.107.16

गृहीतचापः समरे प्रमुञ्चन्निशिताञ्छरान् ।
शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट् ॥

6.107.17

वरुणः पाशभृच्चापि सगदो वा धनेश्वरः ।
न तु भीष्मः सुसन्क्रुद्धः शक्यो जेतुं महाहवे ॥

6.107.18

सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे ।
आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे ॥

6.107.19

वनं यास्यामि दुर्धर्ष श्रेयो वै तत्र मे गतम् ।
न युद्धं रोचते कृष्ण हन्ति भीष्मो हि नः सदा ॥

6.107.20

यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन् ।
एकतो मृत्युमभ्येति तथाऽहं भीष्ममेयिवान् ॥

6.107.21

क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी ।
भ्रातरश्चैव मे शुराः सायकैर्भृशपीडिताः ॥

6.107.22

मत्कृते भ्रातृसौहार्दाद्राज्यभ्रष्टा वनं गताः ।
परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन ॥

6.107.23

जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम् ।
जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम् ॥

6.107.24

यदि तेऽहमनुग्राह्यो भ्रातृभिः स केशव ।
स्वधर्मस्याविरोधेन हितं व्याहर केशव ॥
सञ्जय उवाच ।

6.107.25

एवं श्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम् ।
प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम् ॥
श्रीभगवानुवाच ।

6.107.26

धर्मपुत्र विषादं त्वं मा कृथाः सत्यसन्गर ।
यस्य ते भ्रातरः शूरा दुर्जयाः सत्रुसूदनाः ॥

6.107.27

अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ ।
माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिविश्वरौ ॥

6.107.28

मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव ।
त्वप्रयुक्तो महाराज किं न कुर्यां महाहवे ॥

6.107.29

हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् ।
पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः ॥

6.107.30

यदि भीष्मे हते वीरे जयं पश्यसि पण्डव ।
हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम् ॥

6.107.31

पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे ।
विमुञ्चन्तं महास्त्रामि पातयिष्यामि तं रथात् ॥

6.107.32

यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः ।
मदर्था भवदर्था ये ये मदीयास्तवैव ते ॥

6.107.33

तव भ्राता मम सखा सम्बन्धी शिष्य एव च ।
मांसान्युत्कृत्य दास्यामि फल्गुनार्थे महीपते ॥

6.107.34

एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत् ।
एष नः समयस्तात तारयेम परस्परम् ॥

6.107.35

स मां नियुङ्क्ष्व राजेन्द्र यावत्सज्जो भवाम्यहम् ।
प्रतिज्ञातमुपप्लाव्ये यत्तत्पार्थेन पूर्वतः ॥

6.107.36

पातयिष्यामि गाङ्गेयमित्युलूकस्य सन्निधौ ।
परिरक्ष्यमिदं तावद्वचः पार्थस्य धीमतः ॥

6.107.37

अनुज्ञातेन पार्थेन मया कार्यं न संशयः ।
अथवा फल्गुनस्यैष भारः परिमितो रणे ॥

6.107.38

स हनिष्यति सन्ग्रामे भीष्मं परपुरञ्जयम् ।
अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः ॥

6.107.39

त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः ।
निहन्त्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप ॥

6.107.40

विपरीतो महावीर्यो गतसत्वोऽल्पजीवनः ।
भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते ॥
युधिष्ठिर उवाच ।

6.107.41

एवमेतन्महाबाहो यथा वदसि माधव ।
सर्वे ह्येते न पर्याप्तास्तव वेगविधारणे ॥

6.107.42

नियतं समावाप्स्यामि सर्वमेतद्यथेप्सितम् ।
यस्य मे पुरुषव्याघ्र भवान्पक्षे व्यवस्थितः ॥

6.107.43

सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर ।
त्वया नाथेन गोविन्द किमु भीष्मं महारथम् ॥

6.107.44

न तु त्वामनृतं कर्तुमुत्सहे स्वात्मगौरवात् ।
अयुध्यमानाः सहाय्यं यथोक्तं कुरु माधव ॥

6.107.45

समयस्तु कृतः कश्चिन्मम भीष्मेण संयुगे ।
मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथञ्चन ॥

6.107.46

दुर्योधनार्थं योत्स्यामि सत्यमेतदिति प्रभो ।
स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव ॥

6.107.47

तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः ।
भवता सहिताः सर्वे प्रयाम मधुसूदन ॥

6.107.48

तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् ।
रुचिते तव पृच्छामि मन्त्रं वार्ष्णेय माचिरम् ॥

6.107.49

स वक्ष्यति हितं वाक्यं सत्यमस्माज्जनार्दन ।
यथा च वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे ॥

6.107.50

स नो जयस्य दाता स्यान्मन्त्रस्य च दृढव्रतः ।
बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम् ॥

6.107.51

तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव ।
पितुः पितरमिष्टं च धिगस्तु क्षत्रजीविकाम् ॥
सञ्जय उवाच ।

6.107.52

ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् ।
रोचते मे महाप्राज्ञ राजेन्द्र तव भाषितम् ॥

6.107.53

देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत् ।
गम्यतां स्ववधोपायं प्रष्टुं सागरगासुतम् ॥

6.107.54

वक्तमर्हति सत्यं स त्वया पृष्टो विशेषतः ।
ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम् ॥

6.107.55

गत्वा शान्तनवं वृद्धं मन्त्रं पृच्छाम भारत ।
स नो दास्यति मन्त्रं यं तेन योत्स्यामहे परान् ॥
सञ्जय उवाच ।

6.107.56

एवमामन्त्र्य ते वीराः पाण्डवाः पाण्डुपूर्वज ।
जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान् ॥

6.107.57

विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति ।
प्रविश्य च तदा भीष्मं शिरोभिः प्रणिपेदिरे ॥

6.107.58

पूजयन्तो महाराज पाण्डवा भरतर्षभम् ।
प्रणम्य शिरसा चैनं भीष्मं शरणमभ्ययुः ॥

6.107.59

तानुवाच महाबाहुर्भीष्मः कुरुपितामहः ।
स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय ॥

6.107.60

स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा ।
किं वा कार्यं करोम्यद्य युष्माकं प्रीतिवर्धनं ॥

6.107.61

युद्धादन्यत्र हे वत्साः प्रीयन्तां मा विशङ्कथ . सर्वात्मनापि कर्तास्मि यदपि स्यात्सदुष्करम् ।
तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनःपुनः ॥

6.107.62

उवाच राजा दीनात्मा प्रीतियुक्तमिदं वचः ।
कथं जयेम सर्वज्ञ कथं राज्यं लभेमहि ॥

6.107.63

प्रजानां संशयो न स्यात्कथं तन्मे बद प्रभो ।
भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः ॥

6.107.64

भवन्तं समरे वीर विषहेम कथं वयम् ।
न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह ॥

6.107.65

मण्डलेनैव धनुषा दृश्यसे संयुगे सदा ।
आददानं सन्दधानं विकर्षन्तं धनुर्न च ॥

6.107.66

पश्यामस्त्वां महाबाहो रथे सूर्यमिवापरम् ।
रथाश्वनरनागानां हन्तारं परवीरहन् ॥

6.107.67

कोऽथवोत्सहते जेतुं वां पुमान्भरतर्षभ ।
वर्षता शरवर्षाणि महान्ति पुरुषर्षभ ॥

6.107.68

क्षयं निता हि पृतना संयुगे महती मम ।
यथा युधि जयेम त्वां यथा राज्यं भृशं मम ॥

6.107.69

मम सैन्यस्य च क्षेमं तन्मे ब्रूहि पितामह . 6-107-69xसञ्जय उवाच । ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज ॥

6.107.70

न कथञ्चन कौन्तेय मयि जीवति संयुगे ।
जयो भवति सर्वज्ञ सत्यमेतद्ब्रवीमि ते ॥

6.107.71

निर्जिते मयि युद्धेन रणे जेष्यथ पाण्डवाः ।
क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम् ॥

6.107.72

अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् . एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् ।
हते मयि हतं सर्वं तस्मादेवं विधीयताम् ॥
युधिष्ठिर उवाच ।

6.107.73

ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि ।
भवन्तं समरे क्रुद्धं दण्डहस्तमिवान्तकम् ॥

6.107.74

शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा ।
न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः ॥
भीष्म उवाच ।

6.107.75

सत्यमेतन्महाबाहो यथा वदसि पाण्डव ॥

6.107.76

नाहं जेतुं रणे शक्यः सेन्द्रैरपि सुरासुरैः । आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।
ततो मां न्यस्तशस्त्रं तु एते हन्युर्महारथाः ॥

6.107.77

निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे ।
द्रवमाणे च भीते च तवास्मीति च वादिनि ॥

6.107.78

स्त्रीजिते स्त्रीप्रधाने च स्त्रीप्रधायिनि धर्मज स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रिणि ।
अप्रसूते च षण्डे च न युद्धं रोचते मम ॥

6.107.79

इमं मे शृणु राजेन्द्र सन्कल्पं पूर्वचिन्तितम् ।
असन्कल्पध्वजं दृष्ट्वा न युध्येयं कदाचन ॥

6.107.80

य एष द्रौपदो राजंस्तव सैन्ये महारथः ।
शिखण्डी समरामर्षी शूरश्च समितिञ्जयः ॥

6.107.81

यथाऽभवच्च स्त्रीपूर्वं पश्चात्पुंस्त्वं समागतः ।
जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम् ॥

6.107.82

अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डीनम् ।
मामेव विशिखैस्तीक्ष्णैरभिद्रवतु दंशितः ॥

6.107.83

असन्कल्पध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः ।
न प्रहर्तुमभीप्सामि गृहीतेषु कथञ्चन ॥

6.107.84

तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः ।
शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ ॥

6.107.85

न तं पश्यामि लोकेष मां हन्याद्यः समुद्यतम् ।
ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात् ॥

6.107.86

पार्षतं तु पुरोधाय क्लीबमद्य ममाग्रतः . आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः ।
मां पातयतु बीभत्सुरेवं तव जयो ध्रुवम् ॥

6.107.87

एतत्कुरुष्व कौन्तेय यथोक्तं मम सुव्रत ।
ततो जेष्वसि सन्ग्रामे धार्तराष्ट्रान्समागतान् ॥
सञ्जय उवाच ।

6.107.88

तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति ।
अभिवाद्य महात्मानं भीष्मं कुरुपितामहम् ॥

6.107.89

तथोक्तवति गाङ्गेये परलोकाय दीक्षिते ।
अर्जुनो दुःखसन्तप्तः सव्रीडमिदमब्रवीत् ॥

6.107.90

गुरुणा कुरुवृद्धेन कृतप्रज्ञेन धीमता ।
पितामहेन सन्ग्रामे कथं योद्धास्मि माधव ॥

6.107.91

क्रीडता हि मया बाल्ये वासुदेव महामनाः ।
पांसुरूषितगात्रेण महात्मा परुषीकृतः ॥

6.107.92

यस्याहमधिरुह्याङ्कं वालः किल गदाग्रज ।
तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः ॥

6.107.93

नाहं तातस्तव पितुस्तातोऽस्मि तव भारत ।
इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया ॥

6.107.94

कामं वध्यतु सैन्यं मे नाहं योत्स्ये महात्मना ।
जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे ॥

6.107.95

कथमस्माद्विधः कृष्ण जानन्धर्मं सनातनम् . न्यस्तशस्त्रे च वृद्धे च प्रहरेद्धि पितामहे ॥
श्रीवासुदेव उवाच ।

6.107.96

प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे ।
क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि ॥

6.107.97

पातयैनं रथात्पार्थ क्षत्रियं युद्धदुर्मदम् ।
नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति ॥

6.107.98

दृष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते ।
यद्दृष्टं हि पुरा पार्थ तत्तथा न तदन्यथा ॥

6.107.99

न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् ।
त्वदन्यः शक्नुयाद्योद्धुमपि वज्रधरः स्वयम् ॥

6.107.100

जहि भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम ।
यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः ॥

6.107.101

ज्यायांसमपि चेद्वृद्धं गुणैरपि समन्वितम् ।
आततायिनमायान्तं हन्याद्धातकमात्मनः ॥

6.107.102

शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय ।
योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः ॥
अर्जुन उवाच ।

6.107.103

शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् ।
दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते ॥

6.107.104

ते वयं प्रमुखे तस्य पुरस्कृत्य शिखण्डिनम् ।
गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः ॥

6.107.105

अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः ।
शिखण्ड्यपि युधां श्रेष्ठं भीष्ममेवाभियोधयेत् ॥

6.107.106

श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् ।
कन्या ह्येषा पुरा भूत्वा पुरुषः समपद्यत ॥

6.107.107

अर्जुनस्य वचः श्रुत्वा भीष्मस्य वधसंयुतम् । जहृषुर्हृष्टरोमाणः सकृष्णाः पाण्डवास्तदा ॥

6.107.108

इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः । अनुमान्य महात्मानं प्रययुर्हृष्टमानसाः ।
शयनानि यथा स्वानि भेजिरे पुरुषर्षभाः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc