भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.96

5.96.1

तस्मिन्नभिहिते वाक्ये केशवेन महात्मना ।
स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः ॥

5.96.2

कस्स्विदुत्तरमेतेषां वक्तुमुत्सहते पुमान् ।
इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः ॥

5.96.3

तथा तेषु च सर्वेषु तूष्णीम्भूतेषु राजसु ।
जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि ॥

5.96.4

इमां मे सोपमां वाचं श्रृणु सत्यामशङ्कितः ।
तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे ॥

5.96.5

राजा दम्भोद्भवो नाम सार्वभौमः पुराऽभवत् ।
अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् ॥

5.96.6

स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् ।
ब्राह्मणान्क्षत्रियान्वैश्यान्पृच्छन्नास्ते महारथः ॥

5.96.7

अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि ।
शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वाऽपि शस्त्रभृत् ॥

5.96.8

इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम् ।
दर्पेण महता मत्तः कञ्चिदन्यमचिन्तयन् ॥

5.96.9

तं च वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः ।
प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः ॥

5.96.10

निषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् ।
अतिमानं श्रिया मत्तं तमूचुर्ब्राह्मणास्तदा ॥

5.96.11

तपस्विनो महात्मानो वेदप्रत्ययदर्शिनः ।
उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः ॥

5.96.12

अनेकजयिनौ शङ्ख्ये यौ वै पुरुषसत्तमौ ।
तयोस्त्वं न समो राजन्भवितासि कदाचन ॥

5.96.13

एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान् ।
क्व तौ वीरौ क्वजन्मानौ किन्कर्माणौ च कौ च तौ ॥
ब्राह्मणा ऊचुः ।

5.96.14

नरो नारायणश्चैव तापसाविति नः श्रुतम् ।
आयातौ मानुषे लोके ताभ्यां युद्ध्यस्व पार्थिव ॥

5.96.15

श्रूयेते तौ महात्मानौ नरनारायणावुभौ ।
तपो घोरमनिर्देश्यं तप्येते गन्धमादने ॥

5.96.16

स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् ।
अमृष्यमाणः सम्प्रायाद्यत्र तावपराजितौ ॥

5.96.17

स गत्वा विषमं घोरं पर्वतं गन्धमादनम् ।
मार्गमाणोऽन्वगच्छत्तौ तापसौ वनमाश्रितौ ॥

5.96.18

तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ ।
शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ ॥

5.96.19

अभिगम्योपसङ्गृह्य पर्यपृच्छदनामयम् ।
तमर्चित्वा मूलफलैरासनेनोदकेन च ॥

5.96.20

न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति ।
ततस्तामानुपूर्वी स पुनरेवान्वकीर्तयत् ॥

5.96.21

बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः ।
भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम् ॥

5.96.22

आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति ।
नरनारायणावूचतुः ।
अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम ॥

5.96.23

न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः ।
अन्यत्र युद्धमाकाङ्क्ष बहवः क्षत्रियाः क्षितौ ॥
राम उवाच ।

5.96.24

उच्यमानस्तथाऽपि स्म भूय एवाभ्यभाषत ।
पुनः पुनः क्षाम्यमाणः सान्त्व्यमानश्च भारत ॥

5.96.25

दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ ।
ततो नरस्त्विषीकाणां मुष्टिमादाय भारत ॥

5.96.26

अब्रवीदेहि युद्ध्यस्व युद्धकामुक क्षत्रिय ।
सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् ॥

5.96.27

अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् . यदाह्वयसि दर्पेण ब्राह्मणप्रमुखाञ्जनान् ॥
दम्भोद्भव उवाच ।

5.96.28

यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे ।
एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः ॥
राम उवाच ।

5.96.29

इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् ।
दम्भोद्भवस्तापसं तं जिवांसुः सहसैनिकः ॥

5.96.30

तस्य तानस्यतो घोरानिषून्परतनुच्छिदः ।
कदर्थीकृत्य स मुनिरिषीकाभिः समार्पयत् ॥

5.96.31

ततोऽस्मौ प्रासृजद्धोरमैषीकमपराजितः ।
अस्त्रमप्रतिसन्धेयं तदुद्भुतमिवाभवत् ॥

5.96.32

तेषामक्षीणि कर्णांश्च नासिकाश्चैव मायया ।
निमित्तवेधी स मुनिरीषीकाभिः समार्पयत् ॥

5.96.33

स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् ।
पादयोर्न्यपतद्राजा स्वस्ति मेस्त्विति चाब्रवीत् ॥

5.96.34

तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् ।
ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः ॥

5.96.35

नैतादृक्पुरुषो राजन्क्षत्रधर्ममनुस्मरन् ।
मनसा नृपशार्दूल भवेत्परपुरञ्जयः ॥

5.96.36

मा च दर्पसमाविष्टः वा तत्ते राजन्समाहितम् ॥ कृतप्रज्ञो वीतलोभो निरहङ्कार आत्मवान् ।

5.96.37

दान्तः क्षान्तो मृदुः सौम्य प्रजाः पालय पार्थिव ॥ मास्म भूयः क्षिपेः कञ्चिदविदित्वा बलाबलम् ।

5.96.38

अनुज्ञातः स्वस्ति गच्च मैवं भूयः समाचरेः ।
कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम् ॥

5.96.39

ततो राजा तयोः पादावभिवाद्य महात्मनोः ।
प्रत्याजगाम स्वपुरं धर्मं चैवाचरद्भृशम् ॥

5.96.40

सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा ।
ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् ॥

5.96.41

तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते ।
तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनञ्जयम् ॥

5.96.42

काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा ।
सन्तानं नर्तकं घोरमास्यमोदकमष्टमम् ॥

5.96.43

एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः ।
उन्मत्ताश्च विचेष्टन्ते नष्टसञ्ज्ञा विचेतसः ॥

5.96.44

स्वपन्ति च प्लवन्ते च च्छर्दयन्ति च मानवाः . मूत्रयन्ते च सततं रुदन्ति च हसन्ति च ॥

5.96.45

कामक्रोधौ लोभमोहौ मदमानौ तथैव च ।
मात्सर्याहङ्कुती चैव क्रमादेत उदाहृताः ॥

5.96.46

निर्माता सर्वलोकानामीश्वरः सर्वकर्मवित् ।
यस्य नारायणो बन्धुरर्जुनो दुःसहो युधि ॥

5.96.47

कस्तमुत्सहते जेतुं त्रिषु लोकेषु भारत ।
वीरं कपिध्वजं जिष्णुं यस्य नास्ति समो युधि ॥

5.96.48

असङ्ख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः ।
त्वमेव भूयो जानासि कुन्तीपुत्रं धनञ्जयम् ॥

5.96.49

नरनारायणौ यौ तौ तावेवार्जुनकेशवौ ।
विजानीहि महाराज प्रवीरौ पुरुषोत्तमौ ॥

5.96.50

यद्येतदेवं जानासि न च मामभिशङ्कसे ।
आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः ॥

5.96.51

अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति ।
प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः ॥

5.96.52

भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि ।
तत्तथैवास्तु भद्रं ते स्वार्थमेवोपचिन्तय ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc