भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.91

5.91.1

पृथामामन्त्र्य गोविन्दः कृत्वा चाभिप्रदक्षिणम् ।
दुर्योधनगृहं शौरिरभ्यगच्छदरिन्दमः ॥

5.91.2

लक्ष्म्या परमया युक्तं पुरन्दरगृहोपमम् ।
विचित्रैरासनैर्युक्तं प्रविवेश जनार्दनः ॥

5.91.3

तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः ।
ततोऽभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् ॥

5.91.4

श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः ।
तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् ॥

5.91.5

धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने ।
दुःशासनं च कर्णं च शकुनिं चापि सौबलम् ॥

5.91.6

दुर्योधनसमीपे तानासनस्थान्ददर्श सः ।
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः ॥

5.91.7

उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् ।
समेत्य धार्तराष्ट्रेण महामात्येन केशवः ॥

5.91.8

राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः ।
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् ॥

5.91.9

विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः ।
तस्मिन्गां मधुपर्कं चाप्युदकं च जनार्दने ॥

5.91.10

निवेदयामास तदा गृहान्राज्यं च कौरवः . 5-91-10ब् आसनं सर्वतोभद्रं सर्वरत्नविभूषितम् ॥

5.91.11

कृष्णार्थमेवं संसिद्धं धार्तराष्ट्रस्य शासनात् । तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् ॥

5.91.12

उपासाञ्चक्रिरे सर्वे कुरवो राजभिः सह ।
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् ॥

5.91.13

न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः ।
ततो दुर्योधनः कृष्णमब्रवीत्कुरुसंसदि ॥

5.91.14

मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः ।
कस्मादन्नानि पापानि वासांसि शयनानि च ॥

5.91.15

त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन ।
उभयोश्च ददत्साह्यमुभयोश्च हिते रतः ॥

5.91.16

सम्बन्धी दयितश्चासि धृतराष्ट्रस्य माधव . त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः ।
तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर ॥
वैशम्पायन उवाच ।

5.91.17

स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः ।
उद्यन्मेघस्वनःक काले प्रगृह्य विपुलं भुजम् ॥

5.91.18

अलघूकृतमग्रस्तमनिरस्तमसन्कुलम् ।
राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् ॥

5.91.19

कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव ह ।
कृतर्थं मां सहामात्यं समर्चिष्यसि भारत ॥

5.91.20

एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् ।
न युक्तं भवताऽस्मासु प्रतिपत्तुमसाम्प्तम् ॥

5.91.21

कृतार्थं वाऽकृतार्थं वा त्वां वयं मधुसूदन ।
यतामहे पूजयितुं दाशार्ह न च शक्नुमः ॥

5.91.22

न च तत्कारणं विद्मो यस्मान्नो मधुसूदन ।
पूजां कृतां प्रीयमाणो नामंस्थाः पुरुषोत्तम ॥

5.91.23

वैरं नो नास्ति भवता गोविन्द न च विग्रहः ।
स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति ॥
वैशम्पायन उवाच ।

5.91.24

एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः ।
अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव ॥

5.91.25

नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् ।
न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथञ्चन ॥

5.91.26

सम्प्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः ।
न च सम्प्रीयते राजन्न चैवापद्गता वयम् ॥

5.91.27

द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत् . पाण्डवान्द्विषसे राजन्मम प्राणा हि पाण्डवाः ॥

5.91.28

अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् ।
प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः ॥

5.91.29

अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते ।
धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति ॥

5.91.30

यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु समामनु ।
ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः ॥

5.91.31

कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सति ।
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् ॥

5.91.32

यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते ।
सोजितात्माऽजितक्रोधो न चिरं तिष्ठति श्रिया ॥

5.91.33

अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि ।
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥

5.91.34

सर्वमेतन्न भोक्तव्यमन्नं दुष्टाभिसंहितम् ।
क्षुत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः ॥

5.91.35

एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् ।
निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् ॥

5.91.36

निर्याय च महाबाहुर्वासुदेवो महामनाः ।
निवेशाय ययौ वेश्य विदुरस्य महात्मनः ॥

5.91.37

तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः ।
कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् ॥

5.91.38

त ऊचुर्माधवं वीरं कुरवो मधुसूदनम् ।
निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् ॥

5.91.39

तानुवाच महातेजाः कौरवान्मधुसूदनः ।
सर्वे भवन्ते गच्छन्तु सर्वा मेऽपचितिः कृता ॥
वैशम्पायन उवाच ।

5.91.40

यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् ।
अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् ॥

5.91.41

ततः क्षत्राऽन्नपानानि शुचीनि गुणवन्ति च ।
उपाहरदनेकानि केशवाय महात्मने ॥

5.91.42

तैतर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः ।
वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि ॥

5.91.43

भुक्तवत्सु द्विजाग्र्येषु निषण्णेषु वरासने ।
शुचिः सुप्रयतो भून्वा विदुरोऽन्नमुपारत् ॥

5.91.44

श्रद्धया परया युक्त इदं वचनमब्रवीत् । संवृतैस्तुष्य गोविन्द एतन्नः धनम् ।
अन्यथा हि विशेषेण कस्त्वामर्चितुमर्हति ॥
वैशम्पायन उवाच ।

5.91.45

ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः ।
विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ॥

5.91.46

तं भुक्तवन्तं विविधाः सुशब्दाः सूतमागधाः ।
अभितुष्टुवुरासीनं दाशार्हमपराजितम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc