भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.60

5.60.1

सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्जनेश्वरः ।
ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः ॥

5.60.2

प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः ।
यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ॥

5.60.3

बलाबलं विनिश्चित्य याथातथ्येन बुद्धिमान् ।
यदा तु मेने भूयिष्ठं तद्वचो गुणदोषतः ॥

5.60.4

पुनरेव कुरूणां च पाण्डवानां च बुद्धिमान् . शक्तिं शङ्ख्यातुमारेभे तदा वै मनुजाधिपः ॥

5.60.5

देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् ।
कुरूञ्शक्त्याऽल्पतरया दुर्योधनमथाब्रवीत् ॥

5.60.6

दुर्योधनेयं चिन्ता मे शश्वन्न व्युपशाम्यति ।
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ॥

5.60.7

आत्मजेषु परं स्नेहं सर्वभातिनि कुर्वते ।
प्रियामि चैषां कुर्वन्ति यथाशक्ति हितानि च ॥

5.60.8

एवमेवोपकर्तॄणां प्रायशो लक्षयामहे ।
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् ॥

5.60.9

अग्निः साचिव्यर्ता स्यात्खाण्डवे तत्कृतं स्मरन् ।
अर्जुनस्यापि भीमेऽस्मिन्कुरुपाण्डुसमागमे ॥

5.60.10

जातिगृद्ध्याऽभिपन्नाश्च पाण़्डवानामनेकशः ।
धर्मादयः समेष्यन्ति समाहूता दिवौकसः ॥

5.60.11

भीष्मद्रोणकृपादीनां भयादशनिसन्निभम् ।
रिरक्षिषन्तः संरभ्यं गमिष्यन्तीति मे मतिः ॥

5.60.12

ते देवैः सहिताः पार्था न शक्याः प्रतिवीक्षितुम् ।
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ॥

5.60.13

दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् ।
वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ॥

5.60.14

वानरश्च ध्वजे दिव्यो निःसङ्गे धूमवद्गतिः ।
रथश्च चतुरन्तायां यस्य नास्ति समः क्षितौ ॥

5.60.15

महामेघनिभश्चापि निर्घोषः श्रूयते जनैः ।
महाशनिसमः शब्दःत शात्रवाणां भयन्करः ॥

5.60.16

यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति ।
देवानामपि जेतारं यं विदुः पार्थिवा रणे ॥

5.60.17

शतानि पञ्च चैवेषून्यो गृह्णन्नैव दृश्यते ।
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ॥

5.60.18

यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च ।
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ॥

5.60.19

युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः ।
अशक्यं रथशार्दूलं पराजेतुमरिन्दमम् ॥

5.60.20

क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः ।
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ॥

5.60.21

तमर्जुनं महेष्वासं महेन्द्रोपेन्द्रविक्रमम् ।
निघ्नन्तमिव पश्याभि विमर्देऽस्मिन्महाहवे ॥

5.60.22

इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत ।
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ॥

5.60.23

क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः ।
अस्य चेत्कलहन्यान्तः शमादन्यो न विद्यते ॥

5.60.24

शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः ।
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc