भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.59

5.59.1

ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम् ।
यजर्जुन उवाच त्वां परं कौतूहलं हि मे ॥
सञ्जय उवाच ।

5.59.2

वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः ।
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ॥

5.59.3

पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय ।
द्रोणं कृपं च शल्यं च महाराजं च बाह्लिकम् ॥

5.59.4

द्रौणिं च सौमदत्तिं च शकुनिं चापि सौबलम् ।
दुश्शासनं शलं चैव पुरुमित्रं विविंशतिम् ॥

5.59.5

विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् ।
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि पौरवम् ॥

5.59.6

सैन्धवं दुस्सहं चैव भूरिश्रवसमेव च ।
भगदत्तं च राजानं जलसन्धं च पौरवम् ॥

5.59.7

ये चाप्यन्ये पार्थिवास्तत्र योद्धुं समागताः कौरवाणां प्रियार्थम् ।
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते समानीता धार्तराष्ट्रोण सूत ॥

5.59.8

यथान्यायं कुशलं वन्दनं च समागता मद्वचनेन वाच्याः ॥

5.59.9

इदं ब्रूवाः सञ्जय राजमध्ये दुर्योधनं पापकृतां प्रधानम् ।
अमर्षणं दुर्मतिं राजपुत्रं पापात्मानं धार्तराष्ट्रं सुलुब्धम् । सर्वं ममैतद्वचनं समग्रं सहामात्यं सञ्जय श्रावयेथाः ॥

5.59.10

एवं परिष्वज्य धनञ्जयो मां ततोऽर्थवद्धर्मवच्चापि वाक्यम् ।
प्रोवाचेदं वासुदेवं समीक्ष्य पार्थो धीमाँल्लोहितान्तायताक्षः ॥

5.59.11

यथाश्रुतं ते वदतो महात्मनो यदुप्रवीरस्य वचः समाहितम् ।
तथैव वाच्यं भवतापि मद्वचः समागतेषु क्षितिपेषु सर्वशः ॥

5.59.12

शराग्निधूमे रथनेमिनादिते धनुस्स्त्रुवेणास्त्रबलापहारिणा ।
यथा न होमः क्रियते महामृधे तथा समेत्य प्रयतध्वमादृताः ॥

5.59.13

न चेत्प्रयच्छध्वममित्रघातिनो युधिष्ठिरस्यार्धमभीप्सितं स्वकम् ।
नयामि वः साश्वपदातिकुञ्जरा- न्दिशं पितॄणामशिवां शितैः शरैः ॥

5.59.14

ततोऽहमामन्त्र्य चतुर्भुजं हरिं धनञ्जयं चैव नमस्य सत्वरम् ।
जवेन सम्प्राप्त इहामरद्युते तवान्तिकं प्रापयितुं वचो महत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc