भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.5

5.5.1

द्रुपदेनैवमुक्ते तु वाक्ये वाक्यविदां वरः ।
वसुदेवसुतस्तत्र पृष्णिसिंहोऽब्रवीदिदम् ॥

5.5.2

उपपन्नमिदं वाक्यं सोमकानां धुरन्धरे ।
अर्थसिद्धिकरं राज्ञः पाण्डवस्यामितौजसः ॥

5.5.3

एतच्च पूर्वं कार्यं नः सुनीतिमभिकाङ्क्षताम् ।
अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः ॥

5.5.4

किं तु सम्बन्धकं तुल्यमस्माकं कुरुपाण्डुषु ।
यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च ॥

5.5.5

ते विवाहार्थमानीता वयं सर्वे तथा भवान् ।
कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति ॥

5.5.6

भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च ।
शिष्यवत्ते वयं सर्वे भवामेह न संशयः ॥

5.5.7

भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते ।
आचार्ययोः सखा चासि द्रोणस्य च कृपस्व च ॥

5.5.8

स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः ।
सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् ॥

5.5.9

यदि तावच्छमं कुर्यन्न्यायेन कुरुपुङ्गवः ।
न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः ॥

5.5.10

अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः ।
अन्येषां प्रेषयित्वा च पश्चादस्मान्सभाह्वये ॥

5.5.11

ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः ।
निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि ॥
वैशम्पायन उवाच ।

5.5.12

ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः ।
गृहान्प्रस्थापयामास सगणं सहबान्धवम् ॥

5.5.13

द्वारकं तु गते कृष्णे युधिष्ठिरपुरोगमाः ।
चक्रुः साङ्घ्रामिकं सर्वं विराटश्च महीपतिः ॥

5.5.14

ततः सम्प्रेषयामास विराटः सह बान्धवैः ।
सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः ॥

5.5.15

वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते ।
समाजग्मुर्महीपालाः सम्प्रहृष्टा महाबलाः ॥

5.5.16

तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् ।
धृतराष्ट्रसुताश्चापि समानिन्युर्महीपतीन् ॥

5.5.17

समाकुला मही राजन्कुरुपाण्डवकारणात् ।
तदा समभवत्कृत्स्ना सम्प्रयाणे महीक्षिताम् ॥

5.5.18

सन्कुला च तदा भूमिश्चतुरङ्गवलान्विता ।
बलानि तेषां वीराणामागच्छन्ति ततस्ततः ॥

5.5.19

चालयन्तीव गां देवीं सपर्वतवनामिमाम् । ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम् ।
कुरुभ्यः प्रेषयामास युधिष्ठिरमते स्थितः ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc