भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.43

5.43.1

कस्यैष मौनः कतरन्नु मौनं प्रब्रूहि विद्वन्निह मौनभावम् ।
मौनेन विद्वानुत याति मौनं कथं मुने मौनमिहाचरन्ति ॥
सनत्सुजात उवाच ।

5.43.2

यतो न वेदा मनसा सहैन- मनुप्रविशन्ति ततोऽथ मौनम् ।
यत्रोत्थितो वेदशब्दस्तथायं स तन्मयत्वेन विभाति राजन् ॥
धृतराष्ट्र उवाच ।

5.43.3

ऋचो यजूंषि यो वेद सामवेदं च वेद यः ।
पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते ॥
सनत्सुजात उवाच ।

5.43.4

नैनं सामान्यृचो वापि न यजूंष्यविचक्षणम् ।
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥

5.43.5

न च्छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया सर्वमानम् ।
नीडं शकुन्ता इव जातपक्षा- श्छन्दांस्येनं प्रजहत्यन्तकाले ॥
धृतराष्ट्र उवाच ।

5.43.6

न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण ।
अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥
सनत्सुजात उवाच ।

5.43.7

तस्यैव नामादिविशेषरूपै- रिदं जगद्भाति महानुभाव ।
निर्दिश्य सम्यक्प्रवदन्ति वेदा- स्तद्विश्ववैरूप्यमुदाहरन्ति ॥

5.43.8

तदर्थयुक्तं तप एतदिज्या ताभ्यामसौ पुण्यमुपैति विद्वान् ।
पुण्येन पापं विनिहत्य पश्चा- त्सञ्जायते ज्ञानविदीपितात्मा ॥

5.43.9

ज्ञानेन चात्मानमुपैति विद्वा- नथान्यथा वर्गफलानुकाङ्क्षी ।
अस्मिन्कृतं तत्परिगृह्य सर्व- ममुत्र भुङ्क्ते पुनरेति मार्गम् ॥

5.43.10

अस्मिँल्लोके तपस्तप्तं फलमन्यत्र भुज्यते ।
ब्राह्मणानामिमे लोका वृद्धे तपसि संयताः ॥

5.43.11

ब्राह्मणानां तपः स्वृद्धमन्येषां तावदेव तत् । एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ॥
धृतराष्ट्र उवाच ।

5.43.12

कथं समृद्धमप्यृद्धं तपो भवति केवलम् ।
सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥
सनत्सुजात उवाच ।

5.43.13

निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते ।
एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ॥

5.43.14

तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय ।
तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः ॥
धृतराष्ट्र उवाच ।

5.43.15

कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः ।
सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् ॥
सनत्सुजात उवाच ।

5.43.16

क्रोधादयो द्वादश यस्य दोषा- स्तथा नृशंसानि दश त्रि राजन् ।
धर्मादयो द्वादशैते पितॄणां शास्त्रे गुणा ये विदिता द्विजानाम् ॥

5.43.17

क्रोधः कामो लोभमोहौ विधित्सा- ऽकृपाऽसूये मानशोकौ स्पृहा च ।
ईर्ष्या जुगुप्सा च मनुष्यदोषा वर्ज्याः सदा द्वादशैते नराणाम् ॥

5.43.18

एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते ।
लिप्समानोन्तरं तेषां मृगाणामिव लुब्धकः ॥

5.43.19

विकत्थनः स्पृहयालुर्मनस्वी बिभ्रत्कोषं चपलो रोषणश्च ।
एतान्पापाः षण्णराः पापधर्मान् प्रकुर्वते नो त्रसन्तः सुदुर्गे ॥

5.43.20

सम्भोगसंविद्विषमोऽतिमानी दत्तानुतापी कृपणो बलीयान् ।
वर्गप्रशंसी वनितासु द्वेष्टा एते परे सप्त नृशंसवर्गाः ॥

5.43.21

धर्मश्च सत्यं च दमस्तपश्च आमात्सर्यं ह्रीस्तितिक्षानसूया ।
यज्ञश्च दानं च धृतिः श्रुतं च व्रतानि वै द्वादश ब्राह्मणस्य ॥

5.43.22

यस्त्वेतेभ्यः प्रभवेद्द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात् ।
त्रिभिर्द्वाभ्यामेकतो वार्थितो य- स्तस्य स्वमस्तीति स वेदितव्यः ॥

5.43.23

दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् ।
तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥

5.43.24

दमोऽष्टादशदोषः स्यात्प्रातिकूल्यं कृते भवेत् ।
अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा ॥

5.43.25

क्रोधः शोकस्तथा तृष्णा लोभः पैशून्यमेव च ।
मत्सरश्च विहिंसा च परितापस्तथाऽरतिः ॥

5.43.26

अपस्मारश्चातिवादस्तथा सम्भावनात्मनि ।
एतैर्विमुक्तो दोषैर्यः स दान्तः सद्भिरुच्यते ॥

5.43.27

मदोऽष्टादशदोषः स्यात्त्यागो भवति षड्विधः । विपर्ययाः स्मृता एते मददोषा उदाहृताः ।
दोषा दमस्य ये प्रोक्तास्तान्दोषान्परिवर्जयेत् ॥

5.43.28

श्रेयांस्तु षड्विधस्त्यागस्तृतीयो दुष्करो भवेत् ।
तेन दुःखं तरत्येव भिन्नं तस्मिञ्जितं कृते ॥

5.43.29

श्रेयांस्तु षड्विधस्त्यागः श्रियं प्राप्य न हृष्यति ।
इष्टापूर्ते द्वितीयं स्यान्नित्यवैराग्ययोगतः ॥

5.43.30

कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः ॥
अप्यवाच्यं वदन्त्येतं स तृतीयो गुणः स्मृतः ॥

5.43.31

त्यक्तैर्द्रव्यैर्यद्भवति नोपयुक्तैश्च कामतः ।
न च द्रव्यैस्तद्भवति नोपयुक्तैश्च कामतः ॥

5.43.32

न च कर्मस्वसिद्धेषु दुःखं ते न च न ग्लपेत् ।
सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥

5.43.33

अप्रिये च समुत्पन्ने व्यथां जातु न गच्छति ।
इष्टान्पुत्रांश्च दारांश्च न याचेत कदाचन ॥

5.43.34

अर्हते याचमानाय प्रदेयं तच्छुभं भवेत् ।
अप्रमादी भवेदेतैः स चाप्यष्टगुणो भवेत् ॥

5.43.35

सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च ।
अस्तेयं ब्रह्मचर्यं च तथाऽसन्ग्रहमेव च ॥

5.43.36

एवं दोषा मदस्योक्तास्तान्दोषान्परिवर्जयेत् ।
तथा त्यागोऽप्रमादश्च स चाप्यष्टगुणो मतः ॥

5.43.37

अष्टौ दोषाः प्रमादस्य तान्दोषान्परिवर्जयेत् । इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत ।
अतीतानागतेभ्यश्च मुक्त्युपेतः सुखी भवेत् ॥

5.43.38

सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः ।
तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् ॥

5.43.39

निवृत्तेनैव दोषेण तपो व्रतमिहाचरेत् ।
एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम् ॥

5.43.40

दोषैरेतैर्वियुक्तस्तु गुणैरेतैः समन्वितः ।
एतत्समृद्धमत्यर्थं तपो भवति केवलम् ॥

5.43.41

यन्मां पृच्छसि राजेन्द्र सन्क्षेपात्प्रब्रवीमि ते ।
एतत्पापहरं पुण्यं जन्ममृत्युजरापहम् ॥
धृतराष्ट्र उवाच ।

5.43.42

आख्यानप़ञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः ।
तथा चान्ये चतुर्वेदास्त्रिधेदाश्च तथा परे ॥

5.43.43

द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे ।
तेषां तु कतरः स स्याद्यमहं वेद वै द्विजम् ॥
सनत्सुजात उवाच ।

5.43.44

एकस्य वेस्याज्ञानाद्वेदास्ते बहवः कृताः ।
सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ॥

5.43.45

एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते ।
दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते ॥

5.43.46

सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत् ।
ततो यज्ञः प्रतायेत सत्यस्यानवधारणात् ॥

5.43.47

मनसान्यस्य भवति वाचान्यस्याथ कर्मणा ।
सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ॥

5.43.48

अनैभृत्येन चैतस्य दीक्षितव्रतमाचरेत् ।
नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् ॥

5.43.49

ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः ।
विद्याद्बहु पठन्तं तु द्विजं वै बहुपाठिनम् ॥

5.43.50

तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव वै द्विजम् ।
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ॥

5.43.51

छन्दांसि नाम क्षत्रिय तान्यथर्वा पुरा जगौ महर्षिसङ्घ एषः
छन्दोविदस्ते य उत नाधीतवेदा न वेदवेद्यस्य विदुर्हि तत्त्वम् ॥

5.43.52

छन्दांसि नाम द्विपदां वरिष्ठ स्वच्छन्दयोगेन भवन्ति तत्र ।
छन्दोविदस्ते न च तानधीत्य गता न वेदस्य न वेद्यमार्याः ॥

5.43.53

न वेदानां वेदिता कश्चिदस्ति कश्चित्त्वेतान्बुद्ध्यते वापि राजन् ।
यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम् ॥

5.43.54

न वेदानां वेदिता कश्चिदस्ति वेद्येन वेदं न विदुर्न वेद्यम् ।
यो वेद वेदं स च वेद वेद्यं यो वेद वेद्यं न स वेद सत्यम् ॥

5.43.55

यो वेद वेदान्स च वेद वेद्यं न तं विदुर्वेदविदो न वेदाः ।
तथापि वेदेन विदन्ति वेदं ये ब्राह्मणा वेदविदो भवन्ति ॥

5.43.56

धामांशभागस्य तथा हि वेदा यथा च शाखा हि महीरुहस्य ।
संवेदने चैव यथामनन्ति तस्मिन्हि सत्ये परमात्मनोऽर्थे ॥

5.43.57

अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम् ।
यश्छिन्नविचिकित्सः स व्याचष्टे सर्वसंशयान् ॥

5.43.58

नास्य पर्येषणं गच्छेत्प्रचीनं नोत दक्षिणम् ।
नार्वाचीनं कुतस्तिर्यङ्गादिशन्तु कथञ्चन ॥

5.43.59

तस्य पर्येषणं गच्छेत्प्रत्यर्थिषु कथञ्चन ।
अविचिन्वन्निमं वेदे तपः पश्यति तं प्रभुम् ॥

5.43.60

तूष्णीम्भूत उपासीत न चेष्टेन्मनसापि च ।
उपावर्तस्व तद्ब्रह्म अन्तरात्मनि विश्रुतम् ॥

5.43.61

मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥

5.43.62

सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते ।
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ॥

5.43.63

प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ।
सत्ये वै ब्राह्मणस्तिष्ठंस्तद्विद्वान्सर्वविद्भवेत् ॥

5.43.64

धर्मादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति ।
वेदानां चानुपूर्व्येण एतद्बुद्ध्या ब्रवीमि ते ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc