भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.35

5.35.1

ब्रूहि भूयो महाबुद्धे धर्मार्थसहितं वचः ।
श्रृण्वतो नास्ति मे तृप्तिर्विचित्राणीह भाषसे ॥
विदुर उवाच ।

5.35.2

सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम् । उभे त्वेते समे स्यातामार्जवं वा विशिष्यते ।

5.35.3

आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो ।
इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥

5.35.4

यावत्कीर्तिर्मनुष्यस्य पुण्या लोके प्रगीयते ।
तावत्स पुरुषव्याघ्र स्वर्गलोके महीयते ॥

5.35.5

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विरोचनस्य संवादं केशिन्यर्थे सुधन्वना ॥

5.35.6

स्वयंवरे स्थिता कन्या केशिनी नाम नामतः ।
रूपेणाप्रतिमा राजन्विशिष्टपतिकाम्यया ॥

5.35.7

विरोचनोऽथ दैतेयस्तदा तत्राजगाम ह ।
प्राप्तुमिच्छंस्ततस्तत्र दैत्येन्द्रं प्राह केशिनी ॥
केशिन्युवाच ।

5.35.8

किं ब्राह्मणाः स्विच्छ्रेयांसो दितिजाः स्विद्विरोचन अथ केन स्म पर्यङ्कं सुधन्वा नाधिरोहति ॥
विरोचन उवाच ।

5.35.9

प्राजापत्यास्तु वै श्रेष्ठा वयं केशिनि सत्तमाः । अस्माकं खल्विमे लोकाः के देवाः के द्विजातयः
केशिन्युवाच ।

5.35.10

इहैवावां प्रतीक्षाव उपस्थाने विरोचन ।
सुधन्वा प्रातरागन्ता पश्येयं वां समागतौ ॥
विरोचन उवाच ।

5.35.11

तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे ।
सुधन्वानं च मां चैव प्रातर्द्रष्टासि सङ्गतौ ॥
विदुर उवाच ।

5.35.12

अतीतायां च शर्वर्यामुदिते सूर्यमण्डले । अथाजगाम तं देशं सुधन्वा राजसत्तम ।
विरोचनो यत्र विभो केशिन्या सहितः स्थितः ॥

5.35.13

सुधन्वा च समागच्छत्प्राह्लादिं केशिनीं तथा । समागतं द्विजं दृष्ट्वा केशिनी भरतर्षभ ।
प्रत्युत्थायासनं तस्मै पाद्यमर्घ्यं ददौ पुनः ॥ 5-35-14अ इति होवाच वचनं विरोचनमनुत्तमम् । आस्स्व तल्पे हि सौवर्णे प्राह्लादे ब्राह्मणस्त्वहम् ॥

5.35.15

अन्वालभे हिरण्मयं प्राह्लादे ते वरासनम् ।
एकत्वमुपसम्पन्नो नत्वासोऽहं त्वया सह ॥
विरोचन उवाच ।

5.35.16

तवार्हते तु फलकं कूर्चं वाप्यथवा बृसी ।
सुधन्वन्न त्वमर्होऽसि मया सह समासनम् ॥
सुधन्वोवाच ।

5.35.17

पितापुत्रौ सहासीतां द्वौ विप्रौ क्षत्रियावपि ।
वृद्धौ वैश्यौ च शूद्रौ च न त्वन्यावितरेतरम् ॥

5.35.18

पिता हि ते समासीनमुपासीतैव मामधः ।
बालः सुखैधितो गेहे न त्वं किञ्चन बुध्यसे ॥
विरोचन उवाच ।

5.35.19

हिरण्यं च गवाश्वं च यद्वित्तमसुरेषु नः ।
सुधन्वन्विपणे तेन प्रश्नं पृच्छाव ये वुदुः ॥
सुधन्वोवाच ।

5.35.20

हिरण्यं च गवाश्वं च तवैवास्तु विरोचन ।
प्राणयोस्तु पणं कृत्वा प्रश्नं पृच्छाव ये विदुः ॥
विरोचन उवाच ।

5.35.21

आवां कुत्र गमिष्यावः प्राणयोर्विपणे कृते ।
न तु देवेष्वहं स्थाता न मनुष्येषु कर्हिचित् ॥
सुधन्वोवाच ।

5.35.22

पितरं ते गमिष्यावः प्राणयोर्विपणे कृपे ।
पुत्रस्यापि स हेतोर्हि प्रह्लादो नानृतं वदेत् ॥
विदुर उवाच ।

5.35.23

एवं कृतपणौ क्रुद्धौ तत्राभिजग्मतुस्तदा ।
विरोचनसुधन्वानौ प्रह्लादौ यत्र तिष्ठति ॥
प्रह्लाद उवाच ।

5.35.24

इमौ तौ सम्प्रदृश्येते याभ्यां न चरितं सह ।
आशीविषाविव क्रुद्धावेकमार्गाविहागतौ ॥

5.35.25

किं वै सहैवं चरथो न पुरा चरथः सह ।
विरोचनैतत्पृच्छामि किं ते सख्यं सुधन्वना ॥
विरोचन उवाच ।

5.35.26

न मे सुधन्वना सख्यं प्राणयोर्विपणावहे ।
प्रह्लाद तत्त्वं पृच्छामि मा प्रश्नमनृतं वदेः ॥
प्रह्लाद उवाच ।

5.35.27

उदकं मधुपर्कं चाप्यानयन्तु सुधन्वने ।
ब्रह्मन्नभ्यर्चनीयोऽसि श्वेता गौः पीवरी कृता ॥
सुधन्वोवाच ।

5.35.28

उदकं मधुपर्कं च प्रश्नवाचार्पितं मम । प्रह्लद त्वं तु मे तथ्यं प्रश्नं प्रब्रूहि पृच्छतः ।
किं ब्राह्मणाः स्विच्छ्रेयांस उताहो स्विद्विरोचनः
प्रह्लाद उवाच ।

5.35.29

न कल्माषो न कपिलो न कृष्णो न च लोहितः ।
अणीयान्क्षुरधारायाः को धर्मं वक्तुमर्हिति ॥

5.35.30

अभिवाद्यो भवान्ब्रह्मन्साक्ष्ये चैव नियोजितः . पुत्र एको मम ब्रह्मंस्त्वं च साक्षादिहास्थितः ।
तयोर्विवदतोः प्रश्नं कथमस्मद्विधो वदेत् ॥
सुधन्वोवाच ।

5.35.31

यदेतत्त्वं न वक्ष्यसि यदि वापि विवक्ष्यसि ।
प्रह्लाद प्रश्नमतुलं मूर्धा ते विफलिष्यति ॥
विदुर उवाच ।

5.35.32

आदित्येन सहायान्तं प्रह्लादो हंसमब्रवीत् ।
धृतराष्ट्र महाप्राज्ञ सर्वज्ञं सर्वदर्शिनम् ॥
प्रह्लाद उवाच ।

5.35.33

पुत्रो वाऽन्यो भवेद्ब्रह्मन्साक्ष्ये चापि भवेत्स्थितः ।
तयोर्विवदतोर्हंस कथं धर्मः प्रवर्तते ॥
हंस उवाच ।

5.35.34

गां प्रदद्यादौरसाय यद्वान्यत्स्यात्प्रियं धनम् ।
द्वयोर्विवदतो राजन्प्रश्नं सत्यं यथा वदेत् ॥
प्रह्लाद उवाच ।

5.35.35

अथ यो नैव प्रब्रूयात्सत्यं वा यदि वाऽनृतम् ।
हंस तत्वं च पृच्छामि कियदेनः करोति सः ॥
हंस उवाच

5.35.36

पृष्टो धर्मं न विब्रूयाद्गोकर्णशिथिलं चरन् । धर्माद्भ्रश्यति राजंस्तु नास्य लोकोऽस्ति न प्रजाः ।

5.35.37

धर्म एतान्संरुजति यथा नद्यस्तु कूलजान् ।
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते ॥

5.35.38

श्रेष्ठोऽर्धं तु हरेत्तत्र भवेत्पादश्च कर्तरि ।
पादस्तेषु सभासत्सु यत्र निन्द्यो न निन्द्यते ॥

5.35.39

अनेना भवति श्रेष्ठो मुच्यन्तेऽपि सभासदः ।
कर्तारमेनो गच्छेद्वा निन्द्यो यत्र हि निन्द्यते ॥
प्रह्लाद उवाच ।

5.35.40

मोहाद्वा चैव कामाद्वा मिथ्यावादं यदि ब्रुवन् ।
धृतराष्ट्र तत्वं पृच्छामि दुर्विवक्ता तु किं वसेत् ॥
हंस उवाच ।

5.35.41

यां रात्रिमधिविन्ना स्त्री यां चैवाक्षपराजितः ।
यां च भाराभितप्ताङ्गो दुर्विवक्ता तु तां वसेत् ॥

5.35.42

नगरे प्रतिरुद्धः सन्बहिर्द्वारे बुभुक्षितः ।
अमित्रान्भूयसः पश्यन्दुर्विवक्ता तु तां वसेत् ॥

5.35.43

यां च रात्रिमभिद्रुग्धो यां च मित्रे प्रियेऽनृते ।
सर्वस्वेन च हीनो यो दुर्विवक्ता तु तां वसेत् ॥

5.35.44

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥

5.35.45

हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदेः ॥
प्रह्लाद उवाच ।

5.35.46

मत्तः श्रेयानङ्गिरा वै सुधन्वा त्विद्वरोचन ।
मातास्य श्रेयसी मातुस्तस्मात्त्वं तेन वै जितः ॥

5.35.47

विरोचन सुधन्वाऽयं प्राणानामीश्वरस्तव ।
सुधन्वन्पुनरिच्छामि त्वया दत्तं विरोचनम् ॥
सुधन्वोवाच ।

5.35.48

यद्धर्ममवृणीथास्त्वं न कामादनृतं वदीः ।
पुनर्ददामि ते पुत्रं तस्मात्प्रह्लाद दुर्लभम् ॥

5.35.49

एष प्रह्लाद पुत्रस्ते मया दत्तो विरोचनः ।
पादप्रक्षालनं कुर्यात्कुमार्याः सन्निधौ मम ॥
विदुर उवाच ।

5.35.50

तस्माद्राजेन्द्र भूम्यर्थे नानृतं वक्तुमर्हसि ।
मा गमः ससुतामात्यो नाशं पुत्रार्थमब्रुवन् ॥

5.35.51

न देवा यष्टिमादाय रक्षन्ति पशुपालवत् ।
यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥

5.35.52

यथायथा हि पुरुषः कल्याणे कुरुते मनः ।
तथातथाऽस्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः ॥

5.35.53

नैनं छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् ।
नीडं शकुन्ता इव जातपक्षा- श्छन्दांस्येनं प्रजहत्यन्तकाले ॥

5.35.54

मद्यपानं कलहं पूगवैरं भार्यापत्योरन्तरं ज्ञातिभेदम् ।
राजद्विष्टं स्त्रीपुंसयोर्विवादं वर्ज्यान्याहुर्यश्च पन्थाः प्रदुष्टः ॥

5.35.55

सामुद्रिकं वणिजं चोरपूर्वं शलाकधूर्तं च चिकित्सकं च ।
अरिं च मित्रं च कुशीलवं च नैतान्साक्ष्ये त्वधिकृर्वीत सप्त ॥

5.35.56

मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ।
एतानि चत्वार्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि ॥

5.35.57

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः ॥

5.35.58

भ्रूणहा गुरुतल्पी च यश्च स्यात्पानपो द्विजः ।
अतितीक्ष्णश्च कारुश्च नास्तिको वेदनिन्दकः ॥

5.35.59

स्रुवप्रग्रहणो व्रात्यः कीनाशश्चात्मवानपि ।
रक्षेत्युक्तश्च यो हिंस्यात्सर्वे ब्रह्महभिः समाः ॥

5.35.60

तृणोल्कया ज्ञायते जातरूपं वृत्तेन भद्रो व्यवहारेण साधुः ।
शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रेष्वापत्सु सुहृदश्चारयश्च ॥

5.35.61

जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया ।
क्रोधः श्रियं शीलमनार्यसेवा ह्रियं कामः सर्वमेवाभिमानः ।

5.35.62

न क्रोधिनोऽर्थो न नृशम्मस्य मित्रं क्रृगस्य न स्त्री सुखिनो न विद्या ।
न कामिनो ह्रीरलसस्य न श्रीः सर्वं तु न स्यादनवस्थितस्य ॥

5.35.63

श्रीर्मङ्गलान्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते ।
दाक्ष्यात्तु कुरुते मूलं संयमान्प्रतितिष्ठति ॥

5.35.64

अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च ।
पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥

5.35.65

एतान्गुणांस्तत महानुभावा- नेको गुणः संश्रयते प्रसह्य
राजा यदा सत्कुरुते मनुष्यं सर्वान्गुणानेप गुणोतिभाति ॥

5.35.66

अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि ।
चत्वार्येपामन्ववेतानि सद्भि- श्चत्वारि चैपामनुयान्ति सन्तः ॥

5.35.67

यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः ।
दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः ॥

5.35.68

इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा ।
अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ॥

5.35.69

तत्र पूर्वचतुर्वर्गो दम्भार्थमपि सेव्यते ।
उत्तरश्च चतुर्वर्गो नामहात्मसु तिष्ठति ॥

5.35.70

न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् ।
नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥

5.35.71

सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् ।
शौर्यं च चित्रभाष्यं च दशेमे स्वर्गयोनयः ॥

5.35.72

पापं कुर्वन्पापकीर्तिः पापमेवाश्रुते फलम् ।
पुण्यं कुर्वन्पापकीर्तिः पुण्यमत्यन्तमश्रुते ॥

5.35.73

तस्मात्पापं न कुर्वीत पुरुषः शंसितव्रतः ।
पापं प्रज्ञां नाशयति क्रियमाणं पुःन पुःनः ॥

5.35.74

वृद्धप्रज्ञः पापमेव नित्यमारभते नरः ।
पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः ॥

5.35.75

वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः । पुण्यं कुर्वन्पुण्यकीर्तिः पुण्यं स्थानं स्म गच्छति ।
तस्मात्पुण्यं निषेवेत पुरुषः सुसमाहितः ॥

5.35.76

असूयको दन्दशूको निष्ठुरो वैरकृच्छठः ।
स कृच्छ्रं महदाप्नोति नचिरात्पापमाचरन् ॥

5.35.77

अनसूयुः कृतप्रज्ञः शोभनान्याचरन्सदा ।
नकृच्छ्रं महदाप्नोति सर्वत्र च विरोचते ॥

5.35.78

प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः ।
प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥

5.35.79

दिवसेनैव तत्कुर्याद्येन रात्रौ सुखं वसेत् ।
अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥

5.35.80

पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् ।
यावज्जीवं तु तत्कुर्याद्येन प्रेत्य सुखं वसेत् ॥

5.35.81

जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् ।
शूरं विजितसङ्ग्रामं गतपारं तपस्विनम् ॥

5.35.82

धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते ।
असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥

5.35.83

गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।
अन्तः प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥

5.35.84

ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥

5.35.85

द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी ।
क्षत्रियः शीलभाग्राजंश्चिरं पालयते महीम् ॥

5.35.86

सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥

5.35.87

बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत ।
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥

5.35.88

दुर्योधनेऽथ शकुनौ मूढे दुःशासने तथा ।
कर्मे चैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ॥

5.35.89

सर्वैर्गुणैरुपेतास्तु पाण्डवा भरतर्षभ ।
पितृवत्त्वयि वर्तन्ते तेषु वर्तस्व पुत्रवत् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc