महाभारत · अध्याय 5.32
धर्मराजस्य वचनं श्रुत्वा पार्थो धनञ्जयः ।
उवाच सञ्जयं तत्र वासुदेवस्य शृण्वतः ॥
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय ।
द्रोणं सपुत्रं शल्यं च महाराजं च बाह्लिकम् ॥
विकर्णं सोमदत्तं च शकुनिं चैव सौबलम् . विविंशतिं चित्रसेनं जयत्सेनं च सञ्जय ।
भगदत्तं तथा चैव शूरं रणकृतां वरम् ॥
ये चाप्यन्ये कुरवस्तत्र सन्ति राजानश्चेद्भूमिपालाः समेताः ।
युयुत्सवः सैन्धवाः पार्थिवाश्च समानीता धार्तराष्ट्रेण सूत ॥
यथान्यायं कुशलं वन्दनं च समागमे मद्वचनेन वाच्याः ।
ततो ब्रूयाः सञ्जय राजमध्ये दुर्योधनं पापकृतां प्रधानम् ॥
एवं प्रतिष्ठाप्य धनञ्जयस्तं ततोऽर्थवद्धर्मवच्चापि पार्थः ।
उवाच वाक्यं स्कवजनप्रहर्षं वित्रासनं धृतराष्ट्रात्मजानाम् ॥
अर्जुनेन समादिष्टस्तथेत्सुक्त्वा तु सञ्जयः । पार्थानामन्त्रयामास केशवं च यशस्विनम् ॥
अनुज्ञातः पाण्डवेन प्रययौ सञ्जयस्तदा ।
शासनं धृतराष्ट्रस्यक सर्वं कृत्वा महात्मनः ॥
तदा तु सञ्जयः क्षिप्रमेकाहेन परन्तपः । याति स्म हास्तिनपुरं निशाकाले परन्तप ॥
सम्प्राप्य हास्तिनपुरं शीघ्रमश्वैर्महाजवैः ।
अन्तःपुरं समास्थाय द्वाःस्थं वचनमब्रवीत् ॥
आचक्ष्व धृतराष्ट्रास्य द्वाऽस्थ मां समुपागतम् ।
सकाशात्पाण्डुपुत्राणां सञ्जयं माचिरं कृथाः ॥
॥ .र्ति चेदभिवदेस्त्वं हि द्वाःस्थ ॥ .विशेयं विदितो भूमिपस्य ।
॥ .द्यमत्रात्ययिकं हि मेऽस्ति ॥ . स्थोऽथ श्रुत्वा नृपतिं जगाद ॥
द्वाःस्थ उवाच ।
सञ्जयोऽयं भूमिपते नमस्ते दिदृक्षया द्वारमुपागतस्ते ।
प्राप्तो दूतः पाण्डवानां सकाशात् प्रशाधि राजन्किमयं करोतु ॥
धृतराष्ट्र उवाच ।
आचक्ष्व मां कुशलिनं कल्पमस्मै प्रवेश्यतां स्वागतं सञ्जयाय
न चाहमेतस्य भवाम्यकल्पः स मे कस्माद्द्वारि तेष्ठेच्च सक्तः ॥
वैशम्पायन उवाच ।
ततः प्रविश्यानुमते नृपस्य महद्वेश्म प्राज्ञशूरार्यगुप्तम् ।
सिंहासनस्थं पार्थिवमाससाद वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः ॥
सञ्जय उवाच ।
सञ्जयोऽहं भूमिपते नमस्ते प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् ।
अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी युधिष्ठिरः कुशलं चान्वपृच्छत् ॥
स ते पुत्रान्पृच्छति प्रीयमाणः कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च ।
तथा सुहृद्भिः सचिवैश्च राजन् ये चापि त्वामुपजीवन्ति तैश्च ॥
धृतराष्ट्र उवाच ।
अभिनन्द्य त्वां तात वदामि सञ्जय अजातशत्रुं च सुखेन पार्थम् ।
कच्चित्स राजा कुशली सपुत्रः सहामात्यः सानुजः कौरवाणाम् ॥
सञ्जय उवाच ।
सहामात्य कुशली पाण्डुपुत्रो बुभूषते यच्च तेऽग्रे त्मनाऽभूत्
निर्णीक्तधर्मार्थकरो मनस्वी बहुश्रुतो दृष्टिमाञ्शीलवांश्च ॥
परो धर्मः पाण्डवस्यानृशंस्यं धर्मः परो वित्तचयान्मतोऽस्य ।
सुखप्रियेऽधर्महीनेऽनपार्थे नु रुध्यते भारत तस्य बुद्धिः ॥
परप्रयुक्तः पुरषो विचेष्टते सूत्रप्रोता दारुमयीव योषा ।
इमं दृष्ट्वा नियमं पाण्डवस्य मन्ये परं कर्म दैवं मनुष्यात् ॥
इमं च दृष्ट्वा तव कर्म दोषं पापोदर्कं घोरमवर्णरूपम् ।
यावत्परः कामयतेऽतिवेलं तावन्नरोऽयं लभते प्रशंसाम् ॥
अजातशत्रुस्तु विहाय पापं जीर्णां त्वचं सर्प इवासमर्थाम् ।
विरोचते ह्यार्यवृत्तेन वीरो युधिष्ठिरस्त्वयि पापं विसृज्य ॥
हन्तात्मनः कर्म निबोध राजन् धर्मार्थयुक्तादार्यवृत्तादपेतम् ।
उपक्रोशं चेह गतोऽसि राजन् भूयश्च पापं प्रसजेदमुत्र ॥
स त्वमर्थं संशयितं विना तै- राशंससे पुत्रवशानुगोऽस्य ।
अधर्मशब्दश्च महान्पृथिव्यां नेदं कर्म त्वत्समं भारताग्र्य ॥
हीनप्रज्ञो दौष्कुलेयो नृशंसो दीर्घं वैरी क्षत्रविद्यास्वधीरः ।
एवन्धर्मानापदः संश्रयेयु- र्हीनवीर्यो यश्च भवेदशिष्टः ॥
कुले जातो बलवान्यो यशस्वी । बहुश्रुतः सुखजीवी यतात्मा ।
धर्माधर्मौ ग्रथितौ यो बिभर्ति स ह्यस्य दिष्टस्य वशादुपैति ॥
कथं हि मन्त्राग्र्यधरो मनीषी धर्मार्थयोरापदि सम्प्रणेता ।
एवमुक्तः सर्वमन्त्रैरहीनो नरो नृशंसं कर्म कुर्यादमूढः ॥
तव ह्यमी मन्त्रविदः समेत्य समासते कर्मसु नित्ययुक्ताः ।
तेषाम्मयं बलवान्निश्चयश्च कुरुक्षये नियमेनोदपादि ॥
अकालिकं कुरवो नाभविष्यन् पापेन चेत्पापमजातशत्रुः
इच्छेञ्जातु त्वयि पापं विसृज्य निन्दा चेयं तव लोकेऽभविष्यत् ॥
किमन्यत्र विषयादीश्वराणां यत्र पार्थः परलोकं स्म द्रुष्टुम् ।
अत्यक्रामत्स तथा सम्मतः स्या- न्न संशयो नास्ति मनुष्यकारः ॥
एतान्गुणान्कर्मकृतानवेक्ष्य भावाभावौ वर्तमानावनित्यौ ।
बलिर्हि राजा पारमविन्दमानो नान्यत्कालात्कारणं तत्र मेने ॥
चक्षुःश्रोत्रे नासिका त्वक् च जिह्वा ज्ञानस्यैतान्यायतनानि जन्तोः ।
तानि प्रीतान्येव तृष्णाक्षयान्ते तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥
नत्वेव मन्ये पुरुषस्य कर्म सवर्तते सुप्रयुक्तं यथावत् ।
मातुः पितुः कर्मणाभिप्रसूतः संवर्धते विधिवद्भोजनेन ॥
प्रियाप्रिये सुखदुःखे च राज- न्निन्दाप्रशंसे च भजन्त एव ।
परस्त्वेनं गर्हयतेऽपराधे प्रशंसते साधुवृत्तं तमेव ॥
स त्वां गर्हे भारतानां विरोधा- दन्तो नूनं भविताऽयं प्रजानाम् ।
नोचेदिदं तव कर्मापराधात् कुरून्दहेत्कृष्णवर्त्सेव कक्षम् ॥
त्वमेवैको जातु पुत्रस्य राजन् वशं गत्वा सर्वलोके नेरन्द्र ।
कामात्मनः श्लाघनो द्यूतकाले नागाः शमं पश्य विपाकमस्य ॥
अनाप्तानां सङ्ग्रहात्त्वं नरेन्द्र तथाऽप्तानां निग्रहाच्चैव राजन् ।
भूमिं स्फीतां दुर्बलत्वादनन्ता- मशक्तस्त्वं रक्षितुं कौरवेय ॥
अनुज्ञातो रथवेगावधूतः श्रान्तोऽभिपद्ये शयनं नृसिंह ।
प्रातः श्रोतारः कुरवः सभाया- मजातशत्रोर्वचनं समेताः ॥
धृतराष्ट्र उवाच ।
अनुज्ञातोऽस्यावसथं परेहि प्रपद्यस्व शयनं सूतपुत्र ।
प्रातः श्रोतारः कुरवः सभाया- मजातशत्रोर्वचनं त्वयोक्तम् ॥
मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0