भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.3

5.3.1

यादृशः पुरुषस्यात्मा तादृशं सम्प्रभाषते ।
यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषते ॥

5.3.2

सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा ।
उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ॥

5.3.3

एकस्मिन्नेव जायेते कुले क्लीबमहाबलौ ।
फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ॥

5.3.4

नाभ्यसूयामि ते वाक्यं ब्रुवतो लाङ्गलध्वज ।
ये तु शृण्वन्ति ते वाक्यं तानसूयामि माधव ॥

5.3.5

कथं हि धर्मराजस्य दोषमल्पमपि ब्रुवन् ।
लभते परिषन्मध्ये व्याहर्तुमकुतोभयः ॥

5.3.6

समाहूय महात्मानं जितवन्तोऽक्षकोविदाः । अनक्षज्ञं यथाऽश्रद्धं तेषु धर्मजयः कुतः ।

5.3.7

यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह ।
अभिगम्य जयेयुस्ते तत्तेषां धर्मतो भवेत् ॥

5.3.8

समाहूय तु राजानं क्षत्रधर्मरतं सदा ।
निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ॥

5.3.9

कथं प्रणिपतेच्चायमिह कृत्वा पणं परम् ।
वनवासाद्विमुक्तरतु प्राप्तः पैतामहं पदम् ॥

5.3.10

यद्ययं परवित्तानि कामयेत युधिष्ठिरः ।
एवमप्ययमत्यन्तं परान्नार्हति याचितुम् ॥

5.3.11

कथं च धर्मयुक्तास्ते न च राज्यं जिहीर्षवः ।
निवृत्तवनवासांस्तान्य आहुर्विदिता इति ॥

5.3.12

अनुनीता हि भीष्मेण द्रोणेन विदुरेण च ।
न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ॥

5.3.13

अहं तु ताञ्छितैर्बाणैरनुनीय रणे बलात् ।
पादयोः पातयिष्यामि कौन्तेयस्य महात्मनः ॥

5.3.14

अथ ते न व्यवस्यन्ति प्रणिपाताय धीमतः ।
गमिष्यन्ति सहामात्या यमस्य सदनं प्रति ॥

5.3.15

न हि ते युयुधानस्य संरब्धस्य युयुत्सतः ।
वेगं समर्थाः संसोद्धुं वज्रस्येव महीधराः ॥

5.3.16

को हि गाण्डीवधन्वानं कश्च चक्रायुधं युधि ।
मां चापि विषहेत्क्रुद्धं कश्च भीमं दुरासदम् ॥

5.3.17

यमौ च दृढधन्वानौ यमकल्पौ महाद्युती ।
विराटद्रुपदौ वीरौ यमकालोपमद्युती ॥

5.3.18

को जिजीविषुरासादेद्धृष्टद्युम्नं च पार्षतम् ।
पञ्चैतान्पाण्डवेयांस्तु द्रौपद्याः कीर्तिवर्धनान् ॥

5.3.19

समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ।
सौभद्रं च महेष्वासममरैरपि दुःसहम् ॥

5.3.20

गदप्रद्युम्नसाम्बांश्च कालसूर्यानलोपमान् ।
ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह ॥

5.3.21

कर्णं चैव निहत्याजावभिषेक्ष्याम पाण्डवम् ।
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वाऽततायिनः ॥

5.3.22

अधर्म्यमयशस्यं च शात्रवाणां प्रयाचनम् ।
हृद्भतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः ॥

5.3.23

धार्तराष्ट्रो ह्ययुद्धेन न राज्यं दातुमिच्छति । अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः ।
निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc